रामाज्ञानन्तरकालिकराजवृत्तान्तमाह–संदिश्येति । व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ २।५।१ ॥
तद्वचनाकारमाह गच्छेति । हे तपोधन गच्छ रामसमीपमिति शेषः । गमनप्रयोजनमाह– वध्वा सह यतव्रतं काकुत्स्थं रामं श्रेयसे प्रजाकल्याणजनकाय राज्यलाभाय उपावासं यथामन्त्रमुपोषणं कारय । “हृक्रोः–” इति कर्मत्वम् ॥ २।५।२ ॥
तथेति । स धृतव्रतः मन्त्रवित् मन्त्रबोधननिपुण इत्यर्थः । वेदविदां वरो वंशिष्ठः तथेत्युक्त्वा युक्तं शोभनाश्वैः संयुक्तं ब्राह्मं ब्राह्मणारोहणयोग्यं रथवरमास्थाय वीरं मन्त्रकोविदं राममुपवासयितु रामनिवेशनं ययौ । श्लोकद्वयमेकान्वयि ॥ २।५।३४ ॥
स इति । स मुनिसत्तमो वसिष्ठः पाण्डुराभ्रघनप्रभं पाण्डुरमेघवत् निबिडदीप्तिविशिष्टं रामभवनं प्राप्य तिस्रः कक्षाः द्वारः रथेनैव विवेश ॥ २।५।५ ॥
तमिति । ससंभ्रममादरसहितं मानार्थं संमाननयोग्यं तमागतमृषिं वशिष्ठं मानयिष्यन् संमानं करिष्यन् त्वरन्नेव स रामः निवेशनात्स्वभवनान्निश्चक्राम ॥ २।५।६ ॥
अभीति । त्वरमाणो रामः मनीषिणो वसिष्ठस्य रथाभ्यासं रथसमीपमभ्येत्य प्राप्य ततः तस्माद्रथात्स्वयं परिगृह्य अवतारयामास “योग्यायामन्तिके ऽभ्यासो ऽधिवासौ स्थानसत्क्रिये” इति नानार्थः ॥ २।५।७ ॥
स इति । स पुरोहितः प्रियार्हं प्रियोक्तियोग्यं प्रश्रितं नतमेनं रामं दृष्ट्वा हर्षयन्सन् संभाष्य यथोचितं संबोध्य अभिप्रसाद्य प्रशस्य च उवाच ॥ २।५।८ ॥
तद्वचनाकारमाह प्रसन्न इति । हे राम ते पिता यद्यस्मात्प्रसन्नो ऽस्तीति शेषः । अतः त्वं राज्यमवाप्स्यसि प्राप्स्यसि अत एव सीतया सह भवान् अद्य उपवासं करोतु ॥ २।५।९ ॥
प्रातरिति । नराधिपो दशरथः प्रातर्यौवराज्ये ययातिं नहुष इव प्रीत्या त्वामभिषेक्ता ॥ २।५।१० ॥
इतीति । वैदेह्या सहितं यतव्रतं राममित्युक्त्वा मुनिर्वशिष्ठः मन्त्रवत् यथामन्त्रमित्यर्थः । उपवासं कारयामास ॥ २।५।११ ॥
तत इति । रामेण यथावदर्चितः राज्ञो गुरुर्वशिष्ठः काकुत्स्थं राममभ्यनुज्ञाप्य यथाविध्युपदिश्य ततः तस्माद्रामनिवेशनाद्ययौ ॥ २।५।१२ ॥
सुहृद्भिरिति । प्रियंवदैः सुहृद्भिः सहासीनः सभाजितः तैः पूजितश्च रामः सर्वशस्तान् सुहृदो ऽनुज्ञाप्य अथ विवेश स्वभवनमिति शेषः ॥ २।५।१३ ॥
हृष्टेति । मत्तद्विजगणं मत्ता द्विजगणाः पक्षिसमूहाः यस्मिन् तत् प्रफुल्लानि नलिनानि कमलानि यस्मिन् तत् सर इव हृष्टनारीनरयुतं तद्रामवेश्म आबभौ ॥ २।५।१४ ॥
रामप्रवेशमुक्त्वा गुरुवृत्तान्तमाह– स इति । राजभवनप्रख्यात् राजभवनसदृशात् रामनिवेशनान्निर्गत्य जनसंवृतं जनैः संयुक्तं मार्गं स वसिष्ठो ददृशे ॥ २।५।१५ ॥
वृन्देति । वृन्दवृन्दैः वृन्दानां समूहशः स्थितानां वृन्दैः समूहविशिष्टैः कुतूहलजनैः अभिषेकसामग्रीदर्शनजनितौत्सुक्यविशिष्टप्राणिभिः वृताः आछादिताः समन्ततः चतुर्दिक्षु विद्यमानाः अयोध्यायां राजमार्गाः अतिसंबाधाः गन्तृ़णां परस्परमतिसंमर्दजनकाः बभूवुः ॥ २।५।१६ ॥
जनेति । जनवृन्दान्येवोर्मयस्तेषां संघर्षेण परस्परमतिसंबन्धेन जातो हर्षनिःस्वनः हर्षजनितशब्दः तद्वतो राजमार्गस्य स्वनः सागरस्य समुद्रस्य निःस्वन इव बभूव ॥ २।५।१७ ॥
सिक्तेति । सिक्ताः प्राप्तसुगन्धविशिष्टजलाधिकसेकाः संमृष्टाः अधिकं संमार्जिताः रथ्याः मार्गाः
यस्यां सा वनमालिनी संरचितमालासमूहविशिष्टा समुच्छ्रिताः सम्यगुन्नताः गृहध्वजाः यस्यां सा अयोध्या तदहस्तस्मिन् दिने आसीत् ॥ २।५।१८ ॥
तदेति । अयोध्यानिलयः अयोध्यानिवासी सस्त्रीबालाकुलः स्त्रीसहितबालैराकुलः व्याप्तो जनः रामाभिषेकमाकाङ्क्षन्सन् रवेरुदयमाकाङ्क्षन् बभूवेति शेषः । “सस्त्रीबालाबलः” इति पाठे अबलाः वृद्धाः स्त्रीबालवृद्धसहितो जन इत्यर्थः । इति भट्टः ॥ २।५।१९ ॥
प्रजेति । प्रजाः अलङ्कारभूताः अत्यलङ्कारं प्राप्ताः यस्मिन् तम् जनस्य सहृदयस्यानन्दवर्धनं तमयोध्यामहोत्सवं द्रष्टुं जनः देशान्तरस्थो ऽपि प्राणी उत्सुको ऽत्यभिलाषी अभूत् ॥ २।५।२० ॥
एवमिति । एवं जनसंबाधं तं राजमार्गं प्राप्त इति शेषः । पुरोहितो वसिष्ठः तं राजमार्गस्थं जनौघं व्यूहन् यत्नतः व्यूहरचनया संस्थापयन्निव राजकुलं ययौ ॥ २।५।२१ ॥
सितेति । सिताभ्रशिखप्रख्यं सिताभ्रसदृशानि शिखराणि यस्य सः हिमगिरिरित्यर्थः तत्प्रख्यं तच्छिखरसदृशं प्रासादमधिरुह्य शक्रेण शक्रस्य समीपं बृहस्पतिरिव नरेन्द्रेण नरेन्द्रस्य समीपं समी सर्वत्र तुल्यदर्शनो वसिष्ठः इयाय प्राप ॥ २।५।२२ ॥
तमिति । नृपो दशरथः तं वसिष्ठमागतमभिप्रेक्ष्य अवलोक्य राजासनं हित्वा अभ्युत्थानं कृत्वेत्यर्थः । स्वमतं स्वेप्सितं रामोपवासकरणमित्यर्थः । पप्रच्छ तस्मै प्रश्नं कुर्वते राज्ञे कृतं भवदुक्तं मया संपादितमित्यभ्यवेदयत् अकथयत् । वसिष्ठ इति शेषः ॥ २।५।२३ ॥
तेनेति । तेन राज्ञा सहासीनाः सभासदः तदा राज्ञोत्थानसमये तेन तुल्यं पुरोहितं वसिष्ठः पूजयन्तः सन्तः आसनेभ्यः समुत्तस्थुः ॥ २।५।२४ ॥
गुरुणेति । गुरुणा अभ्यनुज्ञातो राजा मनुजौघं जनसमूहं विसृज्य त्यक्त्वा गिरिगुहां सिंह इव अन्तःपुरं विवेश ॥ २।५।२५ ॥
तदिति । अग्र्यमत्युत्तमं रूपं येषां ते एव प्रमदाजनाः तैः आकुलं व्याप्तं महेन्द्रवेश्मप्रतिममिन्द्रभवनसदृशं तच्चारु निवेशनं स्वभवनं तारागणसंकुलं नभं आकाशं शशीव विदीपयन् विशेषेण प्रकाशयन् सन् पार्थिवो विवेश ॥ २।५।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे पञ्चमः सर्गः ॥ २।५ ॥