००४ रामाय दशरथस्योपदेशः

पौरगमनानन्तरकालिकं राजवृत्तान्तमाह– गतेष्वित्यादिभिः । पौरेषु गतेषु सत्सु निश्चयज्ञः स्वकीयनिश्चयस्य बोधकः प्रभुः स राजा मन्त्रिभिः सह भूयो मन्त्रयित्वा ततः मन्त्रणाद्धेतोः श्व एव पुष्यो भविता अतः राजीवपत्राक्षो मे सुतो रामः श्व एव युवराजो ऽभिषेच्य इति निश्चयं नियोगं चक्रे । श्लोकद्वयमेकान्वयि ॥ २।४।१२ ॥

अथेति । अथ अभिषेककालनिश्चयानन्तरमन्तर्गृहमाविश्य राममिह पुनरानयेति सूतमामन्त्रयामास आज्ञापयामास ॥ २।४।३ ॥

प्रतीति । तद्वाक्यं प्रतिगृह्य श्रुत्वा सूतो राममानयितुमानेतुं रामस्य भवनं पुनरुपाययौ ॥ २।४।४ ॥

द्वाःस्थैरिति । तस्य सूतस्य पुनरागमनं द्वाःस्थैः रामायावेदितं बोधितम् । रामस्तु तं सूत पुनः प्राप्तं श्रुत्वा शङ्कान्वित इवाभवत् । अपिस्त्वर्थे एव इवार्थे ॥ २।४।५ ॥

प्रवेश्येति । एनं सूतं प्रवेश्य स्वसमीपं प्रापय्य भूयस्ते तव आगमनकृत्यमागमनेन साध्यं यत्तदशेषतो ब्रूहि इति वचनं रामो ऽब्रवीत् ॥ २।४।६ ॥

तमिति । ततो रामवचनश्रवणानन्तरं तं रामं सूत उवाच । तद्वचनाकारमाह– राजा त्वां द्रष्टुमिच्छति श्रुत्वा मद्वचनमवधार्य तत्र राजसन्निधौ गमनाय इतराय इताय प्राप्ताय जनाय रो दानं तस्मै च प्रमाणं निश्चयं कुर्विति शेष ॥ २।४।७ ॥

इतीति । सूतवचः श्रुत्वा त्वरयान्वितो रामो ऽपि नरेश्वरं पुनर्द्रष्टुं राजभवनं प्रययौ ॥ २।४।८ ॥

तमिति । रामं समनुप्राप्तं श्रुत्वा उत्तमं प्रियं विवक्षुः वक्तुमिच्छुः नृपः गृहं प्रवेशयामास ॥ २।४।९ ॥

प्रविशन्निति । पितुः भवनं प्रविशन्नेव दूरात् प्रणिपत्य नमस्कृत्य कृताञ्जलिः राघवः पितरं ददर्श ॥ २।४।१० ॥

प्रणमन्तमिति । भूमिपो राजा प्रणमन्तं तं राममुत्थाप्य संपरिष्वज्य च अस्मै रामाय आसनं प्रदिश्य च अब्रवीत् ॥ २।४।११ ॥

तद्वचनाकारमाह– रामेति । हे राम अहं दीर्घायुः चिरकालादिह लोके स्थितः अत एव वृद्धः वयसाधिको ऽस्मि अत एव ईप्सिताः वाञ्छाविषयीभूताः भोगाः भोग्याः यथा यथावद्भुक्ताः । अन्नवद्भिः अन्नप्रचुरैः भूरिदक्षिणैः पर्याप्तदक्षिणाविशिष्टैः क्रतुशतैः यथा यथावदिष्टं पूजितं यागपूजनीयदैवतमिति शेषः ॥ २।४।१२ ॥

जातमिति । अनुपममुपमारहितमिष्टमीप्सितं त्वमपत्यं मे जातं प्रादुर्भूतम् इष्टं देयत्वेन ईप्सितं वस्तु दत्तमधीतं च ॥ २।४।१३ ॥

अन्विति । इष्टानि अभिलषितानि सुखानि अनुभूतानि साक्षादुपलब्धानि अत एव देवादीनामात्मनश्च अनृणः ऋणरहितो ऽस्मि तत्र देवऋणरहितत्वं यागैः ऋषिऋणरहितत्वमध्ययनेन पितृऋणरहितत्वमपत्यप्रादुर्भावेन विप्रऋणरहितत्वं दानेन आत्मऋणरहितत्वं विहितसुखानुभवेनेति विवेकः । नच “जायमानो ब्राह्मणस्त्रिभिः ऋणैर्ऋणवाञ्जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः” इत्यादिना ऋणत्रयस्यैव वेदे प्रसिद्धत्वादधिकयोरवैदिकत्वापत्तिरिति वाच्यं तयोरपि स्मृत्यादिसिद्धत्वेन प्रसिद्धवैदिकऋणैरुपलक्षणीयत्वेनेदानीन्तनपठितातिरिक्तेषु पाठसंभवेन चादोषात् अत एव दानरहितात्मसुखसंपादनरहितयोर्निन्दोक्तिः संगच्छते ॥ २।४।१४ ॥

ननु किमेतत्प्रतिपादनेनेत्यत आह– नेति । तवाभिषेचनादन्यत्रान्यस्मिन्कर्मणि न कर्तव्यं यतितव्यमभिषेचनमेव कर्तव्यमित्यर्थः अतस्त्वां यदहं ब्रूयां तत्कर्तुं समर्थयितुमर्हसि ॥ २।४।१५ ॥

अद्येति । अद्यास्मिन्काले सर्वाः प्रकृतयः प्रजाः त्वां नराधिपमिच्छन्ति अतस्त्वां राजानं युवराजमभिषेक्ष्यामि ॥ २।४।१६ ॥

ननु राज्यपालनसमर्थे त्वयि सति किमर्थमभिषेकोद्योग इत्यत आह– अपीति । अद्यास्मिन्काले अशुभान् मत्कर्तृकराज्यपालनरूपशुभनिवर्तकान् स्वप्नान् पश्यामि एतेन मत्कर्तृकपालनयोग्यः कालो नास्तीति सूचितम् । ननु दुःस्वप्नदर्शनजनितदोषनिवारणयत्नः प्रारब्धव्य इत्यत आह– सनिर्घाताः वज्रपातसहिताः महास्वनाः दिवा दिने उल्काः अग्निज्वालविशेषाः पतन्ति एतेनैतत्त्रिवारणे यत्नो नास्तीति सूचितम् ॥ २।४।१७ ॥

अवेति । हे राम मे नक्षत्रं मत्प्रादुर्भावकालिकमृक्षं सूर्याङ्गारकराहुभिः अवष्टब्धं समाक्रान्तमिति दैवज्ञाः ज्योतिर्विदः आवेदयन्ति । च शब्द इत्यर्थे ॥ २।४।१८ ॥

ननु किमनेनेत्यत आह– प्रायेणेति । ईदृशानां निमित्तानां समुद्भवे प्राप्ते सति प्रायेण राजा मृत्युमाप्नोति घोरामापदं वा ऋच्छति “घोरां च” इति पाठे पूर्वमापदमृच्छति ततो मृत्युं च प्राप्नोतीत्यर्थः । प्रायेणेत्यनेन प्राकृतविलक्षणानामेतद्दोषास्पर्शित्वं सूचितमत एव न च कालवशानुग इत्यनेन न विरोधः । दोषास्पर्शित्वे ऽपि पालनत्यागोद्योगकर्तृत्वेन तस्य मर्यादापालकत्वं सूचितम् ॥ २।४।१९ ॥

तदिति । तत् अभिषेकायोद्युक्तं मे चेतो यावन्न विमुह्यति कस्यचिद्विरुद्धप्रार्थनया विमोहं न प्राप्नोति तावदेव अभिषिञ्चस्व । ननु मद्विरुद्धाः केचनापि जना न सन्तीत्यत आह– प्राणिनां जनानां मतिर्न्निश्चयः चला चञ्चला ॥ २।४।२० ॥

अभिषेककालं बोधयन्नाह– अद्येति । अद्यास्मिन्काले चन्द्रः पुष्यात्पूर्वं विद्यमाने पुनर्वसू अभ्युपगमत् प्राप्नोत् अतः श्वो ऽव्यवहितागामिदिवसे पुष्ययोगं नियतं दैवचिन्तकाः ज्योतिर्विदो वक्ष्यन्ते कथयन्ति लृडुपात्तभविष्यत्वस्याविवक्षा आगमशास्त्रस्यानित्यत्वादिड्विरहः ॥ २।४।२१ ॥

तत्रेति । तत्र तस्मिन्पुष्ये अभिषिञ्चस्व राममिति शेषः । इति मनो मम मानसं त्वरयति अतस्त्वां श्वो यौवराज्ये ऽभिषेक्ष्यामि ॥ २।४।२२ ॥

तस्मादिति । तस्मात् श्वो ऽभिषेकस्य निश्चयाद्धेतोः अद्यप्रभृति इत आरभ्य वध्वा सह नियतात्मना दर्भप्रस्तरशायिना कुशास्तृतभूमिशयनशीलेन इयं निशा उपवस्तव्या “उपान्वध्याङ्वसः” इति कर्मणि तव्यत् ॥ २।४।२३ ॥

सुहृद इति । अप्रमत्ताः सुहृदः समन्ततस्त्वां रक्षन्तु हि यतः एवंविधानि अत्युत्सवप्रापकानि कार्याणि बहुविघ्नानि बहवो विघ्ना निवारका येषु तानि भवन्ति ॥ २।४।२४ ॥

ननु भरतागमने सति अभिषेकेण भवितव्यमित्यत आह– विप्रोषित इति । इतः अस्मात् पुरात् यावत्कालं भरतो विप्रोषितो मातुलकुले स्थितस्तावदेव ते अभिषेकः प्राप्तकालो मम मतः संमतः एतेन भरतागमने सति अभिषेको न भविष्यतीति सूचितम् तेन केकयीविवाहसमये राज्यशुल्कं केकयराजाग्रे प्रतिश्रुतमिति वृत्तं रामाय कथयामासेति व्यक्तम् ॥ २।४।२५ ॥

ननु स्वप्रतिज्ञापूरीकरणाय भरत एवाहूयाभिषिच्यतामित्यत आह– काममिति । ज्येष्ठानुवर्ती ज्येष्ठानुवर्तनशीलः धर्मात्मा नित्यं धर्ममनस्कः सानुक्रोशाः सदयः जितेन्द्रियः वशीकृतोभयकरणः ते भ्राता भरतः सतां महात्मनां वृत्ते ज्येष्ठ एवाभिषेक्तव्य इत्याकारकवृत्तान्ते काममत्यन्तं खलु निश्चयेन स्थितः एतेन एतदभिप्रायेणैव भरतो मातुलकुले बहुदिनं स्थित इति सूचितं तेन मयि तत्र स्थिते हठाद्राज्याभिलाषिणमिव मां मत्वा पितृप्रतिज्ञाभङ्गभिया रामो नात्मानमभिषेचयिष्यतीति भरताभिप्रायः सूचितः तेन कन्यापुत्रस्य साभिलषितत्वे एव राज्यशुल्कप्रदानप्रतिज्ञेति व्यञ्जितं तेन

रामाभिषेकश्रवणमन्तरा मातुलकुलादयोध्यां नागन्तास्मीति पितुरग्रे प्रतिज्ञाय भरतो गत इति व्यञ्जितम् ॥ २।४।२६ ॥

ननु सर्वेषां जनानां खण्डमण्डलेश्वराणां च त्वदाज्ञानुवर्तित्वात् विघ्नशङ्काया अभावेन कालान्तरे ऽभिषेको भवितेति किं द्रुतप्रवृत्त्येत्यत आह– किं न्विति । मनुष्याणां चित्तमनित्यं प्रतिक्षणं परिणामि अतः किं नु चित्तं कुत्सितमित्यर्थः । इति मे मतं निश्चयः धर्मनित्यानां धर्मपालकानां सतां चित्तं तु कृतशोभि कृतेन कर्तव्यकर्मणः सिद्ध्यैव शोभते तच्छीलम् एतेनावश्यकमङ्गलकृत्ये विलम्बो न कार्य इति व्यञ्जितम् ॥ २।४।२७ ॥

इतीति । श्वोभाविन्यभिषेचने इति अनेन प्रकारेण उक्तः सम्यक् शिक्षितः व्रज मदुपदिष्टव्रतसिद्धये स्वगृहं गच्छेत्यभ्यनुज्ञातः स रामः पितरमभिभाष्य प्रणामवाक्यमुच्चार्य गृहमयात् अगच्छत् ॥ २।४।२८ ॥

प्रविश्येति । अभिषेचने राज्ञा दिष्टे सति आत्मनो वेश्म गृहं प्रविश्य तत्क्षणादेव निष्क्रम्य स्वभवनाद् बहिरागत्य मातुरन्तःपुरं ययौ ॥ २।४।२९ ॥

तत्रेति । तत्र तस्मिन् समये प्रवणां देवाराधने संलग्नचित्तामत एव वाग्यतां निवृत्तवाचं श्रियं प्रजासम्पत्तिमायाचन्तीं देवेभ्यः प्रार्थयन्तीं क्षौमवासिनीं मातरं देवतागारे ददर्श ॥ २।४।३० ॥

प्रागिति । प्राक् रामागमनात् पूर्वमेव सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता लक्ष्मणश्च तदा सुमित्रागमनकाले आगतः सीता तु परतन्त्रत्वात्स्वयं नागता किंतु दासीभिरानयिता ॥ २।४।३१ ॥

तस्मिन्निति । तस्मिन् रामागमनाधिकरणीभूते काले सुमित्रादिभिरन्वास्यमाना उपास्यमाना पुत्रस्य यौवराज्याभिषेचनं श्रुत्वैव प्राणायामेन जनार्दनं महाजनैः प्रार्थितं पुरुषं ध्यायमाना ध्यायन्ती अत एव आमीलितेक्षणा आमीलितनयना कौशल्या तस्थौ । श्लोकद्वयमेकान्वयि अपिरेवार्थे ॥ २।४।३२,३३ ॥

तथेति । तथा उक्तप्रकारेण सम्यक् नियमो यस्याः तां मातरमभिगम्य प्राप्य अभिवाद्य च हर्षयन् रामः इदं वरं वचनमुवाच ॥ २।४।३४ ॥

तद्वचनाकारमाह– अम्बेति । ते अम्ब प्रजापालनकर्मणि पित्राहं नियुक्तो ऽस्मि अत एव श्वो मे ऽभिषेको भविता इति मे पितुः यथा यथावदनुशासनमाज्ञास्तीति शेषः ॥ २।४।३५ ॥

सीतयेति । मया सह सीतयापि इयं रजनी उपवस्तव्या एवमुपाध्यायैरुक्तं वचः स पिता मामुक्तवान् ॥ २।४।३६ ॥

यानीति । मे वैदेह्याश्च यानि यानि मङ्गलानि अभिषेचने योन्यानि तानि तानि कारय ॥ २।४।३७ ॥

एवदिति । चिरकालाभिकाङ्क्षितमेतद्वाक्यं श्रुत्वा कौशल्या हर्षबाष्पाकुलमानन्दाश्रुव्याप्तं वाक्यमभाषत ॥ २।४।३८ ॥

तद्भाषणाकारमाह– वत्सेति । त्वं चिरं जीवते परिपन्थिनः त्वद्विषयकविरुद्धबुद्धयो हताः भवन्त्विति शेषः । अतः श्रिया युक्तस्त्वं सुमित्रायाः शोभनमित्रवत्या मे ज्ञातीन्बन्धून्नन्दय अधिकं प्रमोदय । चो हेतौ ॥ २।४।३९ ॥

कल्याण इति । येन त्वया गुणैः पिता दशरथः आराधितः स त्वं कल्याणे शुभप्रदे नक्षत्रे मया जातः प्रादुर्भावितो ऽसि ॥ २।४।४० ॥

अमोघमिति । पुष्करेक्षणे कमलनयने पुरुषे परमात्मनि तत्प्रसादार्थमित्यर्थः । यन्मे क्षान्तं तदुपलक्षिततपः कृतं तदमोघं सफलमत एव या इयमिक्ष्वाकुराज्यश्रीः सा त्वां संश्रयिष्यति ॥

२।४।४१ ॥

इतीति । एवमुक्तो रामः प्राञ्जलिं बद्धयुगुलकरं प्रह्वं प्रणतं प्राक् समासीनं भ्रातरं वीक्ष्य स्मयन्नेवाब्रवीत् । एव एवार्थे ॥ २।४।४२ ॥

तद्वचनाकारमाह– लक्ष्मणेति । यतः इवं श्रीः राज्यलक्ष्मीः द्वितीयं मे ऽन्तरात्मानमन्तरङ्गशरीरं त्वामुपस्थिता प्राप्ता अतः मया सार्धं वसुंधरां प्रशाधि किंच मया सार्धं विद्यमानस्त्वं वसुंधरां मे ऽन्तरात्मानं मानसं च प्रशाधि मे मनो स्वस्थं चेत् शिक्षयेत्यर्थः ॥ २।४।४३ ॥

सौमित्रे इति । हे सौमित्रे इष्ठान् सयभिलषितान् भोगान् भोग्यपदार्थान् भुङ्क्ष्व राज्यफलानि अतिदानादिजनितयशआदीनि च भुङ्क्ष्व प्राप्नुहीत्यर्थः । तत्र हेतुः जीवितं पालनं राज्यं राजसुखभोगं च त्वदर्थमभिकामये वाञ्छामि ॥ २।४।४४ ॥

इतीति । इति अनेन प्रकारेण लक्ष्मणमुक्त्वा मातरौ कौशल्यासुमित्रे अभिवाद्य प्रणम्य च सीतामभ्यनुज्ञाप्य व्रतार्थमाज्ञाप्य च स्वं निवेशनं ययौ ॥ २।४।४५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे चतुर्थः सर्गः ॥ २।४ ॥