००३ अभिषेकसम्भारसङ्ग्रहणम्

तेषामिति । प्रगृहीतानि प्रकर्षेण गृहीतानि वध्वा शिरोदेशे आनीतानीत्यर्थः । तेषां जनानामञ्जलिपद्मानि अञ्जलयः पद्मानीव तानि प्रतिगृह्य ज्ञात्वा तेभ्यः प्रियहितं वचो राजा ऽब्रवीत् ॥ २।३।१ ॥

तद्वचनाकारमाह– अहो इति । यत् यस्माद्धेतोः ज्येष्ठं प्रियं पुत्रं रामं यौवराज्यस्थमिच्छथ तस्माद्धेतोः मम प्रभावः अतुलः अत एव अहं परमप्रीतो ऽस्मि ॥ २।३।२ ॥

इतीति । तान् पौरजानपदान् इति अनेन प्रकारेण प्रत्यर्च्य तेषामुपशृण्वतां सतामेव वशिष्ठं वामदेवं चकारेणान्यानपि ब्राह्मणानिदमब्रवीत् । “प्रत्यर्चितान्” इति भट्टपाठः ॥ २।३।३ ॥

तद्वचनाकारमाह– चैत्र इति । पुष्पितकाननः पुष्पविशिष्टकाननविशिष्टः अत एव श्रीमान् अतिशोभाविशिष्टः पुण्यः अयं चैत्रो मासः अस्तीति शेषः अतः रामस्य यौवराज्याय सर्वं सामग्रीजातमुपकल्प्यताम् ॥ २।३।४ ॥

राज्ञ इति । राज्ञः वाक्ये उपरते निवृत्ते सति महान् जनघोषः अभूत् । अर्धं पृथक्– शनैरिति । तस्मिन् जनघोषे शनैः प्रशान्ते सति राजा सर्वविषयकानुरागवान् जनाधिपो दशरथः ॥ २।३।५ ॥

मुनिशार्दूलं मुनिश्रेष्ठं वसिष्ठमब्रवीत् । तद्वचनाकारमाह– अभिषेकायेति । रामस्य अभिषेकाय अभिषेकं सपरिच्छदमुपकरणसहितं यत् कर्म तत्सर्वमद्य आज्ञापयितुमर्हसि ॥ २।३।६ ॥

तदिति । भूमिपालस्य तद्वाक्यं श्रुत्वा मुनिसत्तमो वशिष्ठः राज्ञः अग्रतः स्थितान् युक्तान् आज्ञापितसंपादने नियुक्तान्कृताञ्जलीन्मन्त्रिणः आदिदेश आज्ञापयामास ॥ २।३।७ ॥

तदिति । तदाज्ञापनप्रकारमाह– सुवर्णेति । सुवर्णादिनि सुवर्णप्रभृतीनि रत्नानि बलीन्पूजनद्रव्याणि सर्वौषधीः अभिषेकोचितौषधिजातानि ॥ २।३।८ ॥

शुक्लमाल्यानि श्वेतपुष्पाणि लाजांश्च पृथक् अमिश्रे मधुसर्पिषी अहतानि सदशानि तत्क्षणं तन्तुवाययन्त्रादुद्धृतानीत्यर्थः । वासांसि च रथादीनि च ॥ २।३।९ ॥

चतुरङ्गबलं रथाद्यङ्गसहितसैन्यं शुभलक्षणं गजं च उभे चामरव्यजने चमरीपुच्छनिर्मितव्यजनविशेषौ किंच चामरं च व्यजनं च ते अत्र चामरस्य द्वित्वविशिष्टत्वे ऽप्येकवचनं जात्यभिप्रायेण ॥ २।३।१० ॥

शतमिति । शातकुम्भानां सौवर्णानामग्निवर्चसां पावकतेजस्कानां कुम्भानां घटानां शतं हिरण्यश्रृङ्गं हिरण्यालङ्कृतश्रृङ्गविशिष्टम् ऋषभं वृषभं समग्रखण्डम् नखादिसहितमित्यर्थः । व्याघ्रचर्म च “ऋषभः स्वरभेदे स्यादष्टवर्गौषधे वृषे” इति विश्वः ॥ २।३।११ ॥

यदिति । एष्टव्यं नेयमन्यद्यत्किंचित्प्रसिद्धं चन्दनादि तदपि उपकल्प्यतां संपाद्यताम् । तदवधिं बोधयन्नाह– महीपतेः अग्न्यागारे प्रातः उपस्थापयत सामग्रीजातमिति शेषः ॥ २।३।१२ ॥

अन्तरिति । अन्तःपुरस्य राजगृहस्य नगरस्य च द्वाराणि घ्राणहारिभिः अतिसुगन्धविशिष्टैरित्यर्थः । चन्दनस्रग्भिः चन्दनैः स्रग्भिश्च धूपैश्च अर्च्यन्ताम् ॥ २।३।१३ ॥

प्रशस्तमिति । द्विजानां शतसाहस्रं प्रतीयते प्रकामं यथेच्छमलं पूर्णं भवेत् तत् दधिक्षीरोपसेचनं दधिक्षीराभ्यामुपसेचनं संस्कारो यस्य तत् प्रशस्तं गुणवत् आलस्याद्यपहारकमन्नं श्वः । अनागतदिवसे प्रभाते प्रातःकाले द्विजमुख्यानां द्विजमुख्येभ्यः सत्कृत्य प्रदीयतां घृतादयः पुष्कलाविपुला दक्षिणाश्च प्रदीयन्ताम् । श्लोकद्वयमेकान्वयि ॥ २।३।१४१५ ॥

सूर्ये इति । श्वः अव्यवहितागामिदिवसे सूर्ये अभ्युदितमात्रे सति स्वस्तिवाचनं भविता अतः ब्राह्मणाः निमन्त्र्यन्ताम् आसनानि च कल्प्यन्ताम् ॥ २।३।१६ ॥

आबध्यन्तामिति । पताकाः आबध्यन्ताम् । अर्धं पृथक्– सर्व इति । सर्वे तालावचराः तालैः

अवचरन्ति जीवन्ति तच्छीलिनः संगीतनिपुणा इत्यर्थः । स्वलङ्कृताः गणिकाश्च नृपवेश्मनः द्वितीयां कक्षामासाद्य प्राप्य तिष्ठन्तु ॥ २।३।१७ ॥

देवेति । देवायतनचैत्येषु देवायतनेषु देवालयेषु चैत्येषु चतुष्पथेषु च माल्ययोग्याः माल्योपलक्षितपूजनार्हाः देवताः सान्नभक्ष्याः अन्नभक्ष्यसहिताः सदक्षिणा दक्षिणासहिताः कृत्वा पृथक् पृथक् उपस्थापयितव्याः स्युः । तत्रान्नमोदनं भक्ष्यमपूपादि ॥ २।३।१८ ॥

दीर्घेति । दीर्घासिबद्धाः दीर्घासयो महाखङ्गास्तैर्बद्धाः संयुक्ताः संनद्धाः धृतकवचाः मृष्टवाससः स्वच्छवस्त्रयुक्ताः सर्वे योधाः महोदयं महाराजाङ्गणं प्रविशन्तु ॥ २।३।१९ ॥

एवमिति । तत्र राजभवने सुनिष्ठितौ विप्रौ तौ वसिष्ठवामदेवौ एवं क्रियाः व्यादिश्य आज्ञाप्य शेषमाज्ञापनादुर्वरितं स्वकर्तव्यं यत् कर्म तत् पार्थिवाय निवेद्य पृष्ट्वा चक्रतुः ॥ २।३।२० ॥

कृतमिति । जगत्पतिं राजानमभिगम्य यथोक्तवचनं भवदुक्तवचनमनतिक्रम्य कृतं सर्वं निष्पादितमिति हर्षयुक्तौ द्विजोत्तमौ अब्रूताम् । अत्र विप्राविति द्विवचननिर्देशेन राजाज्ञापनसमये वामदेवो ऽपि तत्र स्थित इति सूचितम् तत्र वसिष्ठमात्राज्ञापनं तु तत्प्राधान्यद्योतनाय ॥ २।३।२१ ॥

तत इति । ततः वसिष्ठवामदेवोक्तिश्रवणानन्तरं द्युतिमान् राजा भवता कृतात्मा कृते सुकृते आत्मा बुद्धिर्यस्य स रामः शीघ्रमानीयतामिति वचनं सुमन्त्रमब्रवीत् ॥ २।३।२२ ॥

स इति । सुमन्त्रस्तथेति प्रतिज्ञाय राजशासनात् तत्र रामं रथेन आनयाञ्चक्रे आनिनाय ॥ २।३।२३ ॥

अथेति । तत्र दशरथाधिष्ठितदेशे समासीनाः प्राच्यादयो भूमिपाः खण्डमण्डलेश्वराः आर्या दिशाधीशत्वादिप्राप्त्या श्रेष्ठाः म्लेछाः ये वनशैलान्तवासिनः वनशैलसमीपे वसनशीलाः ते च सर्वे वासवमिन्द्रं देवा इव तं दशरथं नृपमुपासाञ्चक्रिरे सिषेविरे “अन्तं स्वरूपे नाशे ना न स्त्री शेषे ऽन्तिके त्रिषु” इति मेदिनी । अर्धचतुष्टयमेकान्वयि ॥ २।३।२४२५ ॥

तेषामिति । मरुतां देवानां मध्ये प्रासादस्थो वासव इन्द्र इव तेषां प्राच्यादीनां मध्ये प्रासादस्थो राजर्षिर्दशरथः आयान्तमात्मजं रामं ददर्श ॥ २।३।२६ ॥

राममेव विशेषयन्नाह– गन्धर्वेत्यादिभिः । गन्धर्वराजप्रतिमं गन्धर्वराजः प्रतिमा सौन्दर्यादिना सदृशो यस्य स तं लोके सर्वभुवने विख्यातं पौरुषं यस्य तं दीर्घौ बाहू यस्य तं महत् सत्त्वं बलं यस्य तं मत्तमातङ्गगामिनं मत्तगजगमनसदृशगमनशीलं चन्द्रकान्ताननं चन्द्रादप्यधिकं कान्तं मनोहरमाननं यस्य तमत एव अतीवप्रियं दर्शनं यस्य तं रूपाणि च औदार्याणि च ते एव गुणाः तैः क्रमेण दृष्टिचित्तापहारिणं धर्माभितप्ताः प्रजाः ह्लादयन्तं पर्जन्यं सजलमेघमिव समायान्तं रामं पश्यमानः पश्यन् नराधिपो राजा न ततर्प । अर्धषट्कमेकान्वयि ॥ २।३।२७२९ ॥

अवतार्येति । सुमन्त्रस्तु स्यन्दनोत्तमादवतार्य उत्तार्य पितुः समीपं गच्छन्तं रामं प्राञ्जलिः सन् पृष्ठतः अन्वगात् अन्वगच्छत् ॥ २।३।३० ॥

स इति । कैलासश्रृङ्गाभं तं प्रासादं नरपुङ्गवो राघवः स रामः नृपं द्रष्टुं तेन सुमन्त्रेण सह आरुरोह । सहेति तृतीययाध्याहृतम् ॥ २।३।३१ ॥

स इति । पितुः अन्तिके समीपे अभिप्रेत्य प्राप्य प्राञ्जलिः प्रणतः रामः स्वं नाम श्रावयन् सन् पितुश्चरणौ ववन्दे ॥ २।३।३२ ॥

तमिति । नृपो दशरथः पार्श्वे स्वसमीपे प्रियमात्मजं दृष्ट्वा समाकृष्य स्वसंमुखं प्रापय्य अञ्जलौ गृह्य गृहीत्वा सस्वजे ॥ २।३।३३ ॥

तस्मै इति । सम्यगभ्युद्यतं भृत्यैः प्रापितं मणिकाञ्चनभूषितं परमरुचिरं रमणीयमासनं तस्मै

रामाय राजा दिदेश ददौ उपवेष्टुमाज्ञापयामासेत्यर्थः ॥ २।३।३४ ॥

तदिति । तत् पित्रा दत्तं वरमासनं प्राप्य स्वयैव प्रभया दीप्त्या उदये विमलो रविः मेरुमिव राघवो रामः व्यदीपयत प्राकाशयत् ॥ २।३।३५ ॥

तेनेति । तत्र तस्मिन् समये तेन रामेण विभ्राजिता प्रकाशिता सा सभा विमलग्रहनक्षत्रा मलनिवर्तकग्रहादिसहिता इन्दुना विभ्राजिता शारदी शरत्कालिका द्यौरिव व्यरोचत ॥ २।३।३६ ॥

तमिति । आदर्शतलसंस्थितं दर्पणादौ प्रतिबिम्बितमलङ्कृतमात्मानमिव तं प्रियमात्मजं रामं पश्यमानः पश्यन् नृपतिस्तुतोष ॥ २।३।३७ ॥

स इति । देवेन्द्रं कश्यप इव पुत्रवतां वरः श्रेष्ठः स राजा सुस्थितं पुत्रं तं राममाभाष्य संबोध्य इदं वच उवाच ॥ २।३।३८ ॥

तद्वचनाकारमाह– ज्येष्ठायामिति । यतः मे ज्येष्ठायां सदृश्यां पत्न्यां गुणज्येष्ठः गुणैः श्रेष्ठः सदृशः मत्तुल्यरूपः ममात्मजः औरस इत्यर्थः । प्रियः सुतत्स्वमुत्पन्नः प्रादुर्भूतो ऽसि यतश्च त्वया इमाः प्रजाः स्वगुणैः अनुरञ्जिताः तस्मात् पुष्ययोगेन पुष्यस्य योगः संबन्धो यस्मिन् तेन तस्मिन् काले इत्यर्थः । यौवराज्यमस्मद्दत्तयुवराजत्वमवाप्नुहि प्राप्नुहि । तृतीया त्वत्राधिकरणस्य करणत्वविवक्षया । अर्धचतुष्टयमेकान्वयि ॥ २।३।३९४० ॥

कामत इति । प्रकृत्या स्वभावेनैव कामतः अत्यन्तं गुणवान् सर्वसद्गुणसम्पन्नः इति हेतोः विनीतः पित्रादिषु नित्यं नतस्त्वमसि । एतेन त्वं नोपदेष्टव्यो ऽसीति सूचितम् । ननु तर्हि नोपदिशेत्यत आह– गुणवतीति । गुणवति निखिलसद्गुणविशिष्टे ऽपि त्वयि स्नेहात् पित्रुचितानुरागादेव ते हितं कर्तव्यं किंचित् वक्ष्यामि ॥ २।३।४१ ॥

तद्वचनाकारमाह– भूय इति । भूयो ऽधिकं विनयं विनीततामास्थाय जितेन्द्रियो नित्यं भव अत एव कामक्रोधसमुत्थानि व्यसनानि स्त्रीद्यूतादीनि त्यजस्व । तथाहि “स्त्रीद्यूतमृगयामद्यवाक्पारूष्योग्रदण्डताः । अर्थसंदूषणं चेति राज्ञां व्यसनसप्तकम्” इति । वचनान्तरमपि “मृगयाक्षो दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः” इति । अन्यच्च “पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डनं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः” इति ॥ २।३।४२ ॥

परोक्षयेति । परोक्षया चारादिद्वारा सकलदेशवृत्तान्तर्विचारशीलया प्रत्यक्षया सभादौ प्रत्यक्षीभूतजनवृत्तान्तविचारशीलया च वृत्त्या कोष्ठागारायुधागारैः कोष्ठाद्यागारेषु सन्निचयान् रत्नस्वर्णरजतवस्त्राभरणादीन् बहून् अधिकान् कृत्वा अमात्यप्रभृतीः सर्वाः प्रजा अनुरञ्जय प्रमोदय तत्र कोष्ठागाराणि धान्यगृहाणि आयुधागाराणि शस्त्रास्त्रगृहाणि । अर्धत्रयमेकान्वयि ॥ २।३।४३४४ ॥

प्रजानुरञ्जने प्रयोजनमाह– इष्टेति । इष्टाः स्वेप्सिताः अनुरक्ताः स्वविषयकानुरागयुक्ताः प्रकृतयः प्रजा यस्य सः यो मेदिनीं पृथ्वीं पालयति तस्य मित्राणि अमृतं लब्ध्वा अमराः देवा इव नन्दन्ति “तुष्टानुरक्तः” इति भूषणपाठ ॥ २।३।४५ ॥

तस्मादिति । तस्मादुक्तहेतोः हे पुत्र आत्मानं मनो नियम्य एवं मदुक्तं समाचर । अर्धं पृथक्– तदिति । रामस्य प्रियकारिणः सुहृदः तत् राजवचनं श्रुत्वा त्वरिताः सन्तः आगत्य कौशल्यायै शीघ्रं न्यवेदयन् ॥ २।३।४६ ॥

सेति । सा श्रुतरामाभिषेकवार्ता प्रमदोत्तमा कौशल्या प्रियाख्येभ्यः अभिषेकवार्ताकथयितृभ्यः हिरण्यादीनि व्यादिदेश प्रददौ ॥ २।३।४७ ॥

अथेति । अथ राजोपदेशश्रवणानन्तरं राजानमभिवाद्य प्रणम्य रथमारुह्य जनौघैः जनसमूहैः प्रतिपूजितः राघवो रामः द्युतिमत् अतिप्रकाशयुक्तं स्वं वेश्म ययौ ॥ २।३।४८ ॥

ते इति । तदा राजोक्तिकाले आलाभमासमन्ताद्भावेन लाभः रामाभिषेकप्राप्तिर्यस्मिन् तदेव इष्टमभिलषितं नृपतेः तद्वचः श्रुत्वा आशु शीघ्रं नरेन्द्रमामन्त्र्य प्रशस्य गृहाणि गत्वा अभिप्रहृष्टाः ते पौराः जनाः देवान् समानर्चुः रामाभिषेककामनया पूजयामासुः ॥ २।३।४९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे तृतीयः सर्गः ॥ २।३ ॥