००२ रामभिषेकचर्चा

आहूतराजाद्यागमनौत्तरकालिकं वृत्तमाह– तत इत्यादिभिः । ततः आहूतराजाद्यागमनानन्तरं परिषदं राजादिसमूहमामन्त्र्य हितं सर्वोपकारकमत एव उद्धर्षणं सर्वहर्षजनकमेवमिदं वचः प्रथितं सर्वश्रोतव्यं यथा स्यात्तथोवाच ॥ २।२।१ ॥

वचनप्रकारमेवाह– दुन्दुभीत्यादिश्लोकद्वयेन । दुन्दुभिर्भेरी तत्स्वरसदृशेन अनुनादिना प्रतिध्वनिनिष्पादनशीलेन स्वरेण स्वस्य आत्मीयराज्यस्य रः समर्पणं यस्मिन् तेन राजलक्षणयुक्तेन अत एव कान्तेन कमनीयेन अनुपमेन उपमारहितेन रसयुक्तेन आनन्दजनकेन स्वरेण अनुनादयन् सभामण्डलं पूरयन् सन् राजा सर्वानुरागनिष्पादको नृपतिश्चक्रवर्ती नृपानुवाच । द्वयोरेकत्रान्वयः ॥ २।२।२३ ॥

तद्वचनमेवाह– विदितमित्यादिभिः । मे एतद्राज्यं मम पूर्वकैः सुतवत् यथा यथावत्परिपालितमेतद्भवतां विदितम् । एतदित्युभयान्वयि ॥ २।२।४ ॥

स इति । श्रेयसा अतिकल्याणेन योक्तुं संयोजयितुम् ॥ २।२।५ ॥

रामेणावश्यं प्रजाः पालनीया इत्यत्र हेतुं प्रतिपादयन्नाह– मयेत्यादिभिः । पूर्वैः मनुप्रभृतिभिराचरितं पन्थानमनुगच्छता अनुसरता मयापि प्रजाः नित्यं यथाशक्ति

शक्तिमनतिक्रम्याभिरक्षिताः ॥ २।२।६ ॥

इदानीं स्वकर्तृकप्रजापालनेच्छा नास्तीत्यत्र हेतुं वदन्नाह– इदमित्यादिश्लोकचतुष्टयेन । कृत्स्नस्य लोकस्य हितं चरता मया पाण्डुरस्य श्वेतस्य आतपत्रस्य छत्रस्य छायायामिदं शरीरं जरितं प्रतीयमानजरां प्रापितम्, एतेनेदानीं राज्यश्रीभोगाकाङ्क्षा नास्तीति व्यञ्जितम् ॥ २।२।७ ॥

तदेव भङ्ग्यन्तरेण बोधयन्नाह– प्राप्येति । बहूनि षष्टिं वर्षसहस्राणि आयूंषि प्राप्य जीवतः इह लोके वर्तमानस्य अत एव जीर्णस्य प्रतीयमानजीर्णताविशिष्टस्य अस्य शरीरस्य विश्रान्तिमभिरोचये इच्छामि ॥ २।२।८ ॥

राजेति । राज्ञां मनुप्रभृतीनां ये प्रभावाः सर्वदिग्वजयकारकशौर्यादयस्तैर्जुष्टामत एवाजितेन्द्रियैर्दुर्वहां लोकस्य गुर्वीं धर्मधुरं धर्मपूर्वकरक्षणभारं वहन् सन् परिश्रान्तो ऽस्मि हिर्हेतौ ॥ २।२।९ ॥

स इति । सन्निकृष्टानात्महितकारकान् ॥ २।२।१० ॥

रामस्य राज्ययोग्यत्वं प्रतिपादयन्नाह– अन्विति । ज्येष्ठो ममात्मजः सर्वैर्गुणैर्मामनुजातः । “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्द्वितीया । अत्राप्युपमानोपमेयभाव इषुवत्सविता गच्छतीतिवद्बोध्यः ॥ २।२।११ ॥

तमिति । पुष्येण युक्तं चन्द्रमिव पुण्यनक्षत्रयुक्तचन्द्रसदृशकार्यसाधकमित्यर्थः । किंच चन्द्रमिव प्रकाशमानं युक्तं निखिलशक्तिविशिष्टं पुष्येण नक्षत्रेण यौवराज्ये नियोक्तास्मीत्यर्थः ॥ २।२।१२ ॥

अन्विति । येन नाथेनैव त्रैलोक्यमूर्ध्वमध्याधोलोको नाथवत्तरमस्ति स एव अनुरूपः नाथत्वयोग्यो रामो वो नाथः स्यात् । अपिवैशब्दावेवार्थौ ॥ २।२।१३ ॥

अनेनेति । अत एव श्रेयसा सर्वमङ्गलहेतुना अनेन रामेण इमां महीं संयोक्ष्ये ॥ २।२।१४ ॥

यदिति । मे मम अनुरूपः योग्यः अर्थो यस्मिन् तत् इदं रामाभिषेचनं यत् यदि मया साधु सुमन्त्रितं तदा भवन्तः अनुमन्यन्तामनुमतिं कुर्वन्तु । कथं केन प्रकारणे अहं करवाणीत्यपि वदन्त्विति शेषः । वाशब्द इत्यर्थे ॥ २।२।१५ ॥

यद्यपीति । यद्यपि एषा रामाभिषेकविषया मम प्रीतिरस्ति तथापि अन्यत् अतो भिन्नं हितं चेद्भवद्भिर्विचिन्त्यताम् । तत्र हेतुः मध्यस्थचिन्ता मध्यस्थानां निर्णायकत्वेन स्थापितानां चिन्ता

विचारः अन्या एकनिष्ठविचारतो विलक्षणा । तत्र हेतुः विमर्देन पूर्वपक्षोत्तरपक्षाभ्यां गृहीतत्वेन अभ्यधिकः उदयो यया सा । तुशब्द एवार्थे चेदित्यध्याहृतम् ॥ २।२।१६ ॥

इतीति । वृष्टिमन्तं महामेघं दृष्ट्वा बर्हिणो मयूरा इव नर्दन्तः प्रत्यनन्दन् ॥ २।२।१७ ॥

तत्रत्यराजप्रमोदमुक्त्वा तत्रस्थजनप्रमोदं वर्णयन्नाह– स्निग्ध इति । स्निग्धः स्नेहसूचकः अनुनादः प्रतिध्वनिजनकः हर्षसमीरितः सकलहर्षहेतुः जनौघैरुद्घुष्टः उच्चारितः सन्नादः शोभनशब्दः विमानमतिपूज्यसभामण्डपं कम्पयन्निव तत्र तस्यां सभायां संजज्ञे “मेदिनीम्” इति भट्टसंमतः पाठः ॥ २।२।१८ ॥

तस्येति । जनमुख्याः नृपतयः “बलमुख्याश्च” इति भट्टसंमतः पाठः ॥ २।२।१९ ॥

समेत्येति । मन्त्रयित्वा कर्तव्यं निश्चित्यैव । तुशब्द एवार्थे समतामेकविषयत्वं गताः प्राप्ता बुद्धयो येषां ते वृद्धं समृद्धम् । “ते मन्त्रयितुं” इति भट्टसंमतः पाठः ॥ २।२।२० ॥

तद्वचनमेवाह– अनेकेति । हे पार्थिव अनेकानि बहूनि वर्षसहस्राणि यस्य सः बहुवर्षसहस्राणि राज्यकर्तेत्यर्थः । वृद्धः सकलसम्पत्तिविशिष्टस्त्वमसि स त्वं पार्थिवं पृथिवीपालनयोग्यं रामं युवराजानमभिषिञ्चस्व युवराजत्वेनाभिषेकं कारयेत्यर्थः । सहस्रशब्दः स्वार्थिकाण्णन्तः युवराजानमित्यत्र समासान्तविधेरनित्यत्वाट्टजभावः संज्ञापूर्वकविधेरनित्यत्वात्परस्मैपदाभावः किंच स्वेति भिन्नं पदमात्मीयेत्यर्थः । स्वश्चासौ पार्थिवश्चेति कर्मधारयो वा ॥ २।२।२१ ॥

इच्छाम इति । छत्रावृत्ताननं युवराजत्वेनाभिषिक्तमित्यर्थः । द्रष्टुमिति शेषः ॥ २।२।२२ ॥

इतीति । मनःप्रियं स्वेप्सितं तद्वचनमेवाह– श्रुत्वेति । हे राजानः । मे वचनं श्रुत्वैव श्रवणोत्तरं विचारमकृत्वैव यत् यूयं राघवं रामं पतिं राजानमिच्छथ तदिदं किं किमर्थमयं मे संशयः अतो यूयं तत्त्वतो ब्रूत हेतुं वदतेत्यर्थः ॥ २।२।२३२४ ॥

संशयं प्रकटयन्नाह– कथमिति । महाबलं रामं युवराजमेव भवन्तः कथमिच्छन्ति अत्र हेतुं वदन्त्वित्यर्थः ॥ २।२।२५ ॥

ते इति । हे नृपते तव पुत्रस्य बहवो ऽसंख्येया कल्याणगुणाः सन्ति नृपोचिताः कल्याणगुणा इति वा ॥ २।२।२६ ॥

ननु के ते गुणा इत्यत आह– गुणानिति । देव हे राजन् गुणवतः प्राकृतविलक्षणगुणविशिष्टस्य देवकल्पस्य देवोपलक्षितसर्वसामर्थ्यदातुः धीमतः समाधिकरहितबुद्धिविशिष्टस्य रामस्य प्रियान् सर्वप्रीतिविषयीभूतान् आनन्दनान् सर्वानन्ददातृ़न् कृत्स्नान् अस्मज्ज्ञानविषयीभूतनिःशेषान् गुणान् अद्य प्रवक्ष्यामः तान् त्वं श्रृणु ॥ २।२।२७ ॥

गुणानेवाह– दिव्यैरित्यादिभिः । अत्र प्रकरणे ऽप्युपमानोपमेयभावः इषुवत्सविता गच्छतीतिवद्बोध्यः ॥ २।२।२८ ॥

राम इति । लोके अतलादिभूरादिवैकुण्ठादिषु सत्पुरुषो राम एव । च शब्द एवार्थे अत एव पौरुषे चाप्रतिद्वन्द्वः शरैनमित्यादिसङ्गच्छते ॥ २।२।२९ ॥

प्रजेति । चन्द्रस्येत्यादेस्तुल्य इत्यत्रान्वयः ॥ २।२।३० ॥

धर्मज्ञ इति । अनसूयकः किंचिद्विषयकासूयानाश्रयः उत्तरपद्यघटकीभूतानसूयकपदार्थस्तु सर्वकर्तृकवास्तवासूयाया अविषय इत्यर्थः । अत एवोभयोर्न पौनरुक्त्यम् । वस्तुतस्त्वनसूयकपदार्थः बालकाण्डे प्रथमसर्गे व्याख्यातः ॥ २।२।३१३२ ॥

बह्विति । बहुश्रुतादित्रयाणां उपासिता सत्कारकारी तेन उपासनेन ॥ २।२।३३ ॥

देवेति । देवादीनां सर्वास्त्रेषु देवादिज्ञानविषयीभूतनिखिलास्त्रोपलक्षितशस्त्रास्त्रादिषु विशारदो

निपुणः ॥ २।२।३४ ॥

गान्धर्व इति । गान्धर्वे गानप्रकारबोधकसंगीतशास्त्रज्ञाने भुवि वैकुण्ठादिभूमिषु श्रेष्ठः कल्याणः अतिशयकल्याणविशिष्टः आभी अतिप्रकाशवान् जनः तत्सखादिर्यस्य स बभूव ॥ २।२।३५ ॥

द्विजैरिति । धर्मार्थनैपुणैः श्रेष्ठैः द्विजैः ब्राह्मणैरित्यर्थः । अभिविनीतः सर्वकार्यविषयकशिक्षां प्राप्तः सौमित्रिसहितो रामः ग्रामार्थे विवादास्पदीभूतग्रामादिप्राप्त्यर्थं यदा संग्रामं व्रजति तदैव नगरस्य विवादकारणीभूतराजपुरस्य समीपं गत्वा प्राप्य अविजित्य स्वविजयमलब्ध्वा न निवर्तते राजपुरस्य समीपं प्राप्येत्युक्त्या विवादकारणीभूतराजानां रामसंग्रामस्थितौ सामर्थ्याभावः सूचितः तेन रामस्य प्रतापातिशयः सूचितः । नैपुणशब्दः स्वार्थाण्णन्तः वाशब्द एवार्थे सार्धश्लोक एकान्वयी ॥ २।२।३६ ॥

संग्रामादिति । स्वजनवत् स्वसखादिवत् नित्यं परिपृच्छति ॥ २।२।३७ ॥

पुत्रेष्विति । पुत्रादिषु आनुपूर्व्या ज्येष्ठादिक्रमेण निखिलेन कार्त्स्येन औरसान् पुत्रान् पितेव कुशलं परिपृच्छतीत्यनुकृष्यते तत्र प्रेष्याः भृत्याः ॥ २।२।३८ ॥

प्रश्नान्तरमाह– शुश्रूषन्ते इति । धर्मेषु दंशिताः अनवधानतारहिताः वः शिष्याः वो युष्मान् कच्चित् शुश्रूषन्ते इति एवं प्रकारेण पुरुषव्याघ्रो रामः सदा यथोचितसमये अभिभाषते पृच्छतीत्यर्थः ॥ २।२।३९ ॥

व्यसनेष्विति । मनुष्याणां भृत्यादिवर्गाणां व्यसनेषु प्राप्तेषु सत्सु भृशं दुःखितो भवति सर्वेषु उत्सवेषु च पितेव परितुष्यति ॥ २।२।४० ॥

सत्येति । सत्यवादी सत्यमेव वदति तच्छीलः स्मितपूर्वाभिभाषी स्मितपूर्वमभिभाषते तच्छीलः सर्वात्मना सर्वप्रयत्नेन धर्ममाश्रितः ॥ २।२।४१ ॥

सम्यगिति । श्रेयसां कल्याणानां सम्यग्योक्ताप्रापक इत्यर्थः । विगृह्यकथारुचिः विगृह्यकथायां विरोधपूर्वकजल्पादौ रुचिर्न उत्तरोत्तरयुक्तौ वाचस्पतिः बृहस्पतिरेव वक्ता “न विगर्ह्यकथारुचिः” इति पाठे निन्द्यकथारुचिरित्यर्थ इति भट्टः ॥ २।२।४२ ॥

सुभ्रूरिति । शोभने भ्रुवौ यस्य सः आयतताम्राक्षः आयते विस्तृते ताम्रे अरुणे अक्षिणी यस्य सः ताम्रशब्दस्य कमलपरत्वे आयतकमलपत्रसदृशनेत्रवानित्यर्थः । अयं लोकाभिरामो राम इव शौर्यवीर्यपराक्रमैरुपलक्षितः साक्षात्स्वयं विष्णुः ॥ २।२।४३ ॥

प्रजेति । प्रजापालनसंयुक्तो ऽपि रागोपहतेन्द्रियः रागेण अत्यनुरागेण उपहतानि पराभूतानि इन्द्रियाणि यस्य स न अत एव एष रामः त्रैलोक्यं भोक्तुं पालयितुं शक्तः समर्थः इमां महीं भोक्तुं समर्थश्चेत्किंनु वक्तव्यम् ॥ २।२।४४ ॥

नेति । निरर्थः निष्प्रयोजनः अस्य रामस्य क्रोधः प्रसादश्च कदाचन नास्ति एष रामः नियमाद्वध्यान् हन्ति अवध्येषु अवध्येभ्यः न कृप्यति “नावध्ये खलु” इति भूषणपाठः ॥ २।२।४५ ॥

युनक्तीति । असौ रामः यत्र यस्मिन् जने तुष्यति तं जनं प्रहृष्टः सन् अर्थैस्तदीप्सितवस्तुभिर्युनक्ति संयोजयति । अर्धं पृथक्– दान्तैरिति । सर्वप्रजाकान्तैः निखिलजनेच्छाविषयीभूतैः अत एव नृणां प्रीतिसंजननैः प्रीत्युत्पादकैः दान्तैः यथोचितदण्डकारणीभूतैः गुणैः अंशुभिर्दीप्तः सूर्य इव रामो विरोचते शोभते “शान्तैः” इति पाठान्तरम् ॥ २।२।४६ ॥

तमिति । एवंगुणसम्पन्नं रामं मेदिनी पृथ्वीनाथं स्वपतिमकामयत ऐच्छत् ॥ २।२।४७ ॥

वत्स इति । ते वत्सः श्रेयसि सर्वकल्याणार्थं तव दिष्ट्या भाग्यवशेन जातः प्रादुर्भूतः दिष्ट्या भाग्यवशेनैव असौ राघवः मारीचः मरीचिपुत्रः कश्यप इव पुत्रगुणैर्युक्तः आसीदिति शेषः ॥ २।२।४८ ॥

बलमिति । देवादिषु विद्यमानः सर्वो जनः विदितात्मनो रामस्य बलादि आशंसते कथयति । सार्धश्लोक एकान्वयी ॥ २।२।४९ ॥

आभ्यन्तर इति । पौरजानपदः पुरभवो जनपदभवश्च आभ्यन्तरः सेवकः बाह्यः तद्भिन्नश्च जनवृद्धास्तरुण्यश्च स्त्रियः रामस्यार्थे सर्वान् देवान् नमस्यन्ति अतस्तेषां सेवकादीनामायाचितं प्रार्थितं त्वत्प्रसादात् त्वत्कृपया समृध्यतां सम्पद्यताम् अत एव हे देव हे राजोत्तम सर्वशत्रुनिबर्हणं रामं यौवराज्यस्थं पश्यामः द्रष्टा स्मः । “वर्तमानसामीप्य?” इति भविष्यति लट् तेषामित्यत्र “पुमान्स्त्रिया–” इत्येकशेषः । एतेन रामे सर्वेषां परमानुरागः सूचितः ॥ २।२।५१५३ ॥

तमिति । देवदेवोपमं देवदेवो विष्णुरुपमा उपमेयं यस्य तं सर्वस्य लोकस्य हिते निविष्टं संस्थितमुदारजुष्टं महद्भिः सेवितं ते आत्मजं रामं नो ऽस्माकं हिताय क्षिप्रमभिषेक्तुं त्वमर्हसि ॥ २।२।५४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे द्वितीयः सर्गः ॥ २।२ ॥