००१ रामगुणवर्णनम्

॥ श्रीः ॥

आदिकवि श्रीवाल्मीकिमहामुनिप्रणीतं रामायणम् ।

रामायणशिरोमणिः । अयोध्याकाण्डम् ।

स्वस्ति श्रीरघुनाथः शर्म ददाति ।

यत्तनुभासा सकलं जगद्विभाति ॥ १ ॥

जयति जानकीजानिर्जननी या तु ।

श्रीमिथिलेशकुमारी जगतः पातु ॥ २ ॥

वेणीमाधवचरणो जयतितराम् ।

मुदं लभे यत्कृपया पातुतराम् ॥ ३ ॥

आञ्जनेयमतिवन्दे मतिं ददातु ।

श्रीरामायणतिलकं पूतिं यातु ॥ ४ ॥

समाप्य बालकाण्डस्य टीकां वाल्मीकिनिर्मितेः ।

करोम्ययोध्याकाण्डस्य रामायणशिरोमणिम् ॥ ५ ॥

बालकाण्डे सप्रसङ्गं रामप्रादुर्भूतिविवाहादि निरूप्य ब्रह्मादिप्रार्थितरामप्रतिज्ञातरावणवधादि वर्णयितुं रामराज्याभिषेकसमयं निरूपयन्नाह– गच्छतेत्यादिभिः । तदा पित्राज्ञाकाले मातुलकुलं गच्छता भरतेन अनघः अघसंसर्गशून्यः नित्यशत्रुघ्नः नित्यशत्रवो रागद्वेषादयः तन्निवारकः प्रीतिपुरस्कृतः भरतातिप्रीतिविषयीभूतः शत्रुघ्नो नीतः ॥ २।१।१ ॥

स इति । अश्वपतिना अश्वानां स्वामिना मातुलेन युधाजिता सत्कारैः सत्कारयोग्यपदार्थैः सत्कृतः पुत्रस्नेहेन पुत्रविषयकानुरागेणेव लालितः स भरतः भ्रात्रा शत्रुघ्नेन सह तत्र केकयराजगृहे न्यवसत् ॥ २।१।२ ॥

तत्रेति । कामतः इच्छाविषयीभूतपदार्थैस्तर्प्यमाणौ संतोष्यमाणावपि तत्र मातुलकुले निवसन्तौ वासं कुर्वन्तौ वीरौ वीरत्वविशिष्टौ भ्रातरौ तौ शत्रुघ्नभरतौ वृद्धं वयसाधिकं दशरथं नृपं स्मरतामस्मरताम् अडभाव आर्षः ॥ २।१।३ ॥

राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतेजस्कः राजा दशरथः महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ प्रोषितौ देशान्तरगतौ निरवधिकप्रीतिविषयभूतौ उभौ भरतशत्रुघ्नौ सुतौ सस्मार सर्वसम्पत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भावः । उभाविति स्मृतिविषये तारतम्याभावोक्तिः ॥ २।१।४ ॥

स्मरणे हेतुमाह– सर्व इति । स्वशरीराद्विनिवृताः विनिष्क्रान्ताः चत्वारो बाहव इव चत्वारः पुरुषर्षभाः पुरुषश्रेष्ठाः सर्वे रामादयः तस्य दशरथस्य इष्टाः प्रिया एव बभूवुरिति शेषः ॥ २।१।५ ॥

तेषामिति । तेषां चतुर्णां मध्ये पितुः रतिकरः प्रीतिनिष्पादकः रामस्तु भूतानां प्राणिनां मध्ये स्वयंभूर्ब्रह्मेव गुणवत्तरः अतिशयगुणवान्बभूव ॥ २।१।६ ॥

रामस्य गुणवत्तरत्वे हेतुमाह– स इति । उदीर्णस्य उद्भवविशिष्टस्य रावणस्य वधार्थिभिर्देवैः ब्रह्मादिभिः अर्थितः प्रार्थितः सनातनः नित्यः अविष्णुः विष्णुविष्णुः साकेताधीशः मानुषे लोके जज्ञे प्रादुर्बभूव उदीर्ण उद्भवः इत्यमरः ॥ २।१।७ ॥

कौशल्येति । अमिततेजसा पुत्रेण तेन रामेण कौशल्या शुशुभे । तत्र दृष्टान्तः देवानां वरेण

वज्रपाणिना इन्द्रेण अदितिर्यथा इषुवत्सविता गच्छतीतिवदुपमानोपमेयभावः ॥ २।१।८ ॥

रामस्य गुणानेव वर्णयन्नाह– स इत्यादिभिः । रूपोपपन्नः समातिशयरहितरूपविशिष्टः वीर्यवान् समातिशयरहितप्रभावविशिष्टः अनसूयकः असूयारहितः । किंच अनिति पालयति सर्वमित्यनो विष्णुः पचाद्यच् तत्र सूः प्रेरणा यस्य सः प्रेरणार्थकषूधातोर्भावक्विबन्तः सूरिति उपलक्षणतया शिवब्रह्मविष्णुप्रेरक इत्यर्थः । उः शंभुः यः सर्वत्र प्राप्तिमान् विष्णुः याधातुप्रकृतिकघञर्थकप्रत्ययान्तप्रकृतिकार्शआद्यजन्तो य इति “यकारस्तु प्रजापतिः” इत्यभिधानात् यो ब्रह्मा च तयोरेकशेषे याविति ततः उश्च यौ च उयाः शंभुविष्णुब्रह्माणस्तेषां कं सुखं यस्मात् स उयकः । “कं सुखे ऽपि प्रकीर्तितम्” इति कोशः । शंभुविष्ण्वादिभ्यो ऽपि सुखदाता अनसूश्चासौ उयकश्च अनसूयकः भूमौ सर्वस्मिन् स्थले अनुपमः वास्तवोपमारहितो ऽपि सूनुः दशरथनित्यसुतः स रामः गुणैः सत्यप्रतिज्ञत्वादिभिः दशरथोपमः प्रतीयत इति शेषः ॥ २।१।९ ॥

स इति । नित्यं प्रशान्तात्मा स रामः मृदु यथा स्यात्तथा पूर्वं भाषते पुरुषं केनचित् हास्यादिना रूक्षमुच्यमानो ऽपि परुषमुत्तरं न प्रतिपद्यते ब्रवीतीत्यर्थः ॥ २।१।१० ॥

कथंचिदिति । कथंचित् केनापि प्रकारेण कृतेन एकेनाप्युपकारेण तुष्यति आत्मवत् स्वदिव्यदेहवत् स्वीकरोति चेति शेषः । अत एव तया स्वदेहवत्तया स्वीकृतस्येति शेषः । अपकाराणां शतमपि न स्मरति ॥ २।१।११ ॥

शीलेति । अस्त्रयोग्यान्तरेषु अस्त्रोपलक्षितास्त्रशस्त्राभ्यासयोग्यकालमध्येष्वपि शीलवृद्धादिविशेषणविशिष्टैः सज्जनैः सह कथयन् उचितमुच्चारयन्नेव नित्यमास्त तेना ऽन्यदैवमिति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ २।१।१२ ॥

रूक्षभाषणादिसाधकसामग्रीसत्त्वे ऽपि रूक्षभाषणादि न करोतीत्याह– बुद्धिमानिति । बुद्धिमान् सर्ववचनविषयकप्रशस्तबुद्धिविशिष्टः मधुराभाषी मधुरमाभाषते तच्छीलः पूर्वभाषी नीचं प्रत्यपि पूर्वभाषणशीलः प्रियंवदः प्रियमेव वदति नत्वप्रियमित्यर्थः वीर्यवान्महापराक्रमवानपि महता स्वेन स्वकीयेन वीर्येण विस्मितः गर्वितो न ॥ २।१।१३ ॥

नेति । अनृतकथः अनृता मृषा कथा कथनं यस्य स न मिथ्यावादिप्रतियोगिकभेदविशिष्ट इत्यर्थः । विद्वान् निखिलविषयकज्ञानवान् वृद्धानां ज्ञानादिना वृद्धिं प्राप्तानां प्रतिपूजकः अत एव प्रजाभिरनुरक्तः प्रजानिष्ठानुरागविषयीभूतः सन्प्रजा अपि अनुरज्यते अनुरञ्जयति प्रजाविषयकानुरागवान् भवतीत्यर्थः ॥ २।१।१४ ॥

सेति । सानुक्रः अनुक्रेण स्वीयपालनविषयकनिरन्तरयत्नेन सहितः अशः स्वतनुप्रकाशद्वारा सर्वत्र पूर्णः किंच सानुक्रोशो दयासहितः जितक्रोधः जितः क्रोधः स्वापकारिष्वपि कोपो येन सः ब्राह्मणप्रतिपूजकः ब्राह्मणसत्कारकारकः दीनानुकम्पी दीनविषयकदयावान् धर्मज्ञः निखिलधर्मबोधकः नित्यं प्रग्रहवान् अधर्मनिग्रहवान् शुचिः सकलपावनहेतुः ॥ २।१।१५ ॥

कुलेति । कुलोचिता इक्ष्वाकुकुलयोग्या मतिर्यस्य सः अत एव क्षात्रं क्षत्रियविहितं पालनमेव स्वधर्मं बहु अधिकं मन्यते । आधिक्ये हेतुमाह– ततः पालनरूपक्षात्रस्वधर्मान्महत्स्वर्गफलं साकेतप्राप्तिं परया प्रीत्या मन्यते ॥ २।१।१६ ॥

नेति । अश्रेयसि कल्याणविरुद्धे कर्मणि यो न रतः यश्च विरुद्धकथारुचिर्न उत्तरोत्तरयुक्तौ वादादिषु स्वपक्षनिर्वाहकोत्तरोत्तरयत्ने वाचस्पतिरिव वक्ता । इषुवत्सविता गच्छतीतिवदुपमानोपमेयभावः ॥ २।१।१७ ॥

अरोग इति । अरोगः नित्यं सकारणरोगसंसर्गरहितः तरुणः नित्यतारुण्यविशिष्टः वाग्मी

प्रशस्तवचनवान् वपुष्मान्प्राकृतविलक्षणत्वेनातिप्रशस्तशरीरः देशकालवित् लौकिकवैदिककर्मोचितदेशकालयोर्वेदिता पुरुषसारान् महात्मनो जानातीति पुरुषसारज्ञः साधुः परकार्यसाधनशीलः विनिर्मितः विशेषेण अन्यनिर्मितविलक्षणत्वेन निर्मितं निर्मितिर्यस्य सः अघटितघटनापटीयानित्यर्थः । लोके सर्वभुवनेषु एकः परप्रतापादिना ऽद्वितीय एव ॥ २।१।१८ ॥

स इति । श्रेष्ठैर्गुणैर्युक्तः पार्थिवात्मजः स रामः प्रजानां बहिश्चरः प्राण इव गुणतः गुणैः प्रियो बभूव ॥ २।१।१९ ॥

सर्वेति । सर्वविद्याव्रतेषु विद्योपयोगिनिखिलव्रतेषु स्नातो निपुणः अत एव यथावत्साङ्गवेदवित् इष्वस्त्रे शस्त्रास्रविद्यायां भरताग्रजो रामः पितुः श्रेष्ठो बभूव “सम्यग्विद्या” इति भूषणपाठः ॥ २।१।२० ॥

कल्याणेति । कल्याणाभिजनः कल्याणानि आश्रितानां मङ्गलानि अभिजनयति उत्पादयति सः साधुः आश्रितानां सरलस्वभावसंपादकः अदीनः सर्वकाले दैन्यरहितः सत्यवाक् सत्यप्रतिज्ञः ऋजुः सरलस्वभावः धर्मार्थदर्शिभिर्द्विजैः वृद्धैश्च अभिविनीतः शिक्षितपरनीतिमार्गः ॥ २।१।२१ ॥

धर्मेति । धर्मकामार्थानां तत्त्वं तत्सूक्ष्माकारं जानाति स अर्थशब्देन परमार्थभूतमोक्षस्यापि ग्रहणान्न न्यूनता स्मृतिमान् अभावाप्रतियोगिस्मृतिविशिष्टः प्रतिभानवान् प्रतिभानं प्रतिवस्तुप्रकाशनं तद्वान् अत एव लौकिके लौकिकाचरणे समये सम्यक् अयः शुभावहो विधिर्वैदिकविधिः तस्याचारे आचरणे च कृतः प्रकटितः कल्पः सामर्थ्यं येन अत एव विशारदः सर्वत्र निपुणः ॥ २।१।२२ ॥

निभृत इति । नितरां भृताः सेविता मात्रादयः इत्यर्थः येन सः संवृतः प्राकृतैरज्ञात इत्यर्थः । आकारः प्राकृतविलक्षणस्वरूपं यस्य सः गुप्तमन्त्रः गुप्तः फलोत्पत्तेः पूर्वं ज्ञातुमशक्यो मन्त्रो यस्य सः सहायवान्प्रशस्तमन्त्रिविशिष्टः न मोघौ निष्फलौ क्रोधहर्षौ यस्य सः फलपर्यवसानकक्रोधाभासप्रसादौ समये स्वीकरोतीत्यर्थः । त्यागसंयमयोः दानग्रहणयोः कालं वेत्ति सः ॥ २।१।२३ ॥

दृढेति । दृढमपरिच्युतं भक्तिः पित्रादिसेवा यस्य सः स्थिरा ध्वंसाप्रतियोगिनी प्रज्ञा यस्य सः असद्ग्राही असज्जनसंग्रहकर्ता न दुर्वचाः दुष्टं वचो यस्मिन्स न निस्तन्द्रीः आलस्यसंसर्गरहितः अप्रमत्तः अनवधानतारहितः स्वदोषपरदोषवित् न्याय्यकाले स्वदोषपरदोषयोः वित् यथावद्बोधयिता । अन्तर्भावितणिजर्थः ॥ २।१।२४ ॥

शास्त्रज्ञ इति । शास्त्रं शास्त्रानुसारिणी शिक्षा तज्जानाति बोधयति सः कृतज्ञः कृतमन्यकर्तृकस्वोपकृतिं जानाति अन्येभ्यो ऽपि बोधयति सः पुरुषान्तरकोविदः पुरुषदर्शनमात्रेण तदभिप्रायज्ञानसामर्थ्यवानित्यर्थः । प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणो वक्ता । तत्र प्रग्रहो निग्रहः ॥ २।१।२५ ॥

सदिति । सतां महात्मनां संग्रहः स्वीकारः अनुग्रहणं तत्सेवनं तयोः समाहारः तस्मिन्नासक्त इति शेषः । निग्रहस्य दण्डदानस्य स्थानवित् देशकालयोर्वेदिता आयकर्मणि करादिग्रहक्रियायाम् उपायज्ञः यत्नज्ञानवान् सूर्यः किरणैर्जलमिव अनायासतः करादिग्रहणकर्तेत्यर्थः । संदृष्टव्ययकर्मवित् संदृष्टं शास्त्रानुसारि यत् व्ययकर्म तद्वेदिता “कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः । पादैर्भागैस्त्रिभिर्वापि व्ययः कार्यो नृपैरिह” इति शास्त्रम् ॥ २।१।२६ ॥

श्रैष्ठ्यमिति । शास्त्रसमूहेषु विद्वत्समाजेषु व्यामिश्रकेषु नाटकाद्युपयुक्तसंस्कृतमिश्रप्राकृतभाषादिवक्तृषु च श्रैष्ठ्यं प्राप्तः अर्थधर्मौ संगृह्य संचीय सुखतन्त्रः अर्थधर्माविरोधेन सुखभोगी अलसः आलस्यवान् न ॥ २।१।२७ ॥

वैहारिकाणामिति । वैहारिकाणां विहारप्रयोजनानां शिल्पानां गीतवाद्यचित्रकर्मादीनां विज्ञाता

अभिज्ञः अर्थविभागवित् अर्थानां धनादीनां विभागं शास्त्रोक्तविभजनं वेत्ति सः । तथाच शास्त्रम् “धर्माय यशसे ऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च शोभते” इति । वारणवाजिनाम् आरोहे आरोहणे विनये शिक्षणे च युक्तो निपुणः तत्र वारणो गजः ॥ २।१।२८ ॥

धनुरिति । धनुर्वेदविदां धनुर्वेदान् धनुरादिस्वरूपादिबोधकानि शास्त्राणि विदन्ति तेषां मध्ये श्रेष्ठः लोके सर्वभवने अतिरथसंमतो ऽतिरथैः पूजितः अभियाता संग्रामाभिमुखगमनशीलः हर्ता रिपुसेनानिवर्तकश्च सेनानयविशारदः सेनानये व्यूहरचनायां विशारदः निपुणः ॥ २।१।२९ ॥

अप्रधृष्य इति । क्रुद्धैः सुरासुरैरपि संग्रामे अप्रधृष्यः प्रधर्षयितुमशक्यः अनसूयः सर्वविषयकासूयारहितः अजितक्रः अजितः पराभवितुमशक्यः क्रः कृतिर्यस्य सः । तत्र हेतुः अधः न धो धाता यस्य सः स्वसत्ताश्रित इत्यर्थः । दृप्तः गर्ववान् न मत्सरी द्वेषवान्न “मत्सरो ऽन्यशुभद्वेषे” इत्यमरः ॥ २।१।३० ॥

नेति । पार्थिवात्मजो रामः क्षमागुणैर्वसुधायाः तुल्यः बुद्ध्या बृहस्पतेस्तुल्यः वीर्ये शचीपतेस्तुल्यः इषुवत्सविता गच्छतीतिवदुपमानोपमेयभावः । अत एव भूतानामवज्ञेयः अनादरणीयो न कालवशा अनुगा अनुचरा यस्य स न कालानधीनानुचरवानित्यर्थः । एवमनेन प्रकारेण श्रेष्ठैः गुणैर्युक्तः अत एव त्रिषु ऊर्ध्वाधोमध्यवर्तिषु लोकेषु विद्यमानानां प्रजानां संमतः इष्ट आसीदिति शेषः । किंच वीर्ये समाधिकरहितपराक्रमे विद्यमानो रामः क्षमागुणैः त्रिषु लोकेषु विद्यमानायाः वसुधायाः संमतः पूजितः अत एव बृहस्पतेः शचीपतेश्च बुद्ध्या अतुल्यः तोलयितुमशक्यः कर्मणि यत् संज्ञापूर्वकविधेरनित्यत्वाद्गुणाभावः । नञर्थलाभस्तु वीर्यशब्दात्पूर्वमकारं छित्त्वा ॥ २।१।३१३२ ॥

तथेति । सर्वप्रजाकान्तैर्निखिलप्रजावाञ्छितैः तथा पितुः प्रीतिसंजननैः गुणैः अंशुभिः किरणैः दीप्तः सूर्य इव रामो विरुरुचे । किंच गुणैरुपलक्षितो राम इव अंशुभिर्दीप्तः सूर्यो विरुरुचे ॥ २।१।३३ ॥

तमिति । एवं वृत्तेन वृत्तान्तेन सम्पन्नं संयुक्तं लोकनाथोपमं तं रामं मेदिनी पृथिवी नाथं स्वस्वामिनमकामयत ऐच्छत् ॥ २।१।३४ ॥

एतैरिति । एतैरुक्तैः अनुपमैः उपमारहितैः बहुभिर्गुणर्युक्तं सुतं दृष्ट्वा परंतपो दशरथो राजा चिन्तां चिन्तनं चक्रे ॥ २।१।३५ ॥

चिन्तास्वरूपमाह– अथेति । मयि जीवति पालयति सत्येव रामो राजा कथं स्यात् । अथ सकलमङ्गलमूलभूता एषा रामराजभूतिरिव प्रीतिः मत्प्रीतिविषयीभूता एवं चिन्तेति शेषः । चिरजीविनः बहुकालं पालयतः वृद्धस्य ज्ञानवयोभ्यामधिकस्य राज्ञो दशरथस्य बभूव । किंच जीवति सत्येव राजा स्यात् एषा राजभूतिरेव दशरथस्य मम प्रीतिरभिलाषः कथं स्यात् पूर्येत ॥ २।१।३६ ॥

एषेति । अभिषिक्तं सुतं कदा ऽहं द्रक्ष्यामि एषा परा प्रीतिः अत्यभिलाषः अस्य राज्ञः हृदि सम्परि वर्तते ॥ २।१।३७ ॥

अभिषेकोपयोगिगुणानाह– वृद्धीति । यः सर्वभूतानुकम्पकः सर्वभूतविषयकदयावान् अत एव लोकस्य सर्वजनस्य वृद्धिकामः अत एव वृष्टिमान् पर्जन्य इव लोके मत्तो ऽपि प्रियतरः वीर्ये यमशक्रसमः मतौ बुद्धौ बृहस्पतिसमः धृत्यां क्षमायां महीधरसमः मत्तो ऽपि गुणवत्तरः अतिगुणवान् तमात्मजमिमां महीमधितिष्ठन्तमनेन वयसा दृष्ट्वा स्वर्गं सुखविशेषं यथा यथावत् अवाप्नुयाम् । श्लोकत्रयमेकान्वयि ॥ २।१।३८४० ॥

इतीति । अन्यपार्थिवदुर्लभैः राजान्तरैरप्राप्यैः एवंविधैस्तैर्वर्णितैर्गुणैर्लोकोत्तमैः अपरिमेयैः इयत्तारहितैः समुदितैः नारदादिभिर्वर्णितैः शिष्टैः अवशिष्टैश्च गुणैर्युक्तं तं राम समीक्ष्य सचिवैः सार्धं

निश्चित्य यौवराज्यं रामयुवराजत्वममन्यत निरचिनोत् । “युवराजम्” इति भूषणपाठः श्लोकद्वयमेकान्वयि ॥ २।१।४१४२ ॥

दिवीति । दिवि स्वर्गे अन्तरिक्षे तदधोदेशे भूमौ च घोरं भयङ्करमुत्पातजं भयं शरीरे आत्मनो जरां च संचचक्षे मया दृश्यते इति कथयामास । तत्र दिव्युत्पातः नक्षत्रादिपातः अन्तरिक्षात्पातो महावातादिः भूम्युत्पातो भूकम्पादिः उत्पातप्रकरणे जरां संचचक्षे इत्यनेन तद्दहे जराभावः सूचितः ॥ २।१।४३ ॥

पूर्णेति । पूर्णचन्द्राननस्य महात्मनो रामस्य संप्रियत्वं संप्रीतिमात्मनः स्वस्य शोकापनुदं शोकनाशकं बुबुधे ॥ २।१।४४ ॥

आत्मन इति । काले अभिषेकसमये प्राप्ते सति भक्त्या अतिप्रीत्योपलक्षितो धर्मात्मा स दशरथः आत्मनः प्रजानां च श्रेयसे कल्याणाय प्रियेण रामविषयकप्रजानिष्ठप्रीतिहेतुना त्वरितवान् अभिषेकाय त्वरां कृतवान् ॥ २।१।४५ ॥

नानेति । प्रधानान् नानानगरवास्तव्यान् अनेकनगरनिवासिनः पृथग्जानपदान् भिन्नभिन्नदेशाधीशांश्च मेदिन्यामयोध्याभूमौ समानिनाय ॥ २।१।४६ ॥

तानिति । वेश्मभिर्गृहदानैर्नानाभरणैश्च प्रतिपूजितान् तान् आनीतान् प्रजापतिर्ब्रह्मा प्रजा इव अलङ्कृतो राजा ददर्श ॥ २।१।४७ ॥

नेति । त्वरया अभिषेकविषयकशीघ्रतया हेतुना तौ मिथिलाकेकयाधिपती प्रियं प्रीत्युत्पादकाभिषेकं पश्चात् श्रोष्यतः इति बुद्ध्या केकयराजानं जनकं च न आनयामास । समासान्तविधरनित्यत्वाट्टजभावः ॥ २।१।४८ ॥

अथेति । नृपतौ राजनि अथोपविष्टे समङ्गलमुपवेशकर्तरि सति लोकसंमताः शेषा राजानः प्रविविशुः ॥ २।१।४९ ॥

अथेति । राजवितीर्णेषु राज्ञा दत्तेषु विविधेषु आसनेषु नियताः नियमिताः नृपाः खण्डमण्डलेश्वराः राजानमभिमुखाः सन्तो निषेदुः ॥ २।१।५० ॥

स इति । पुरालयैः राजसेवार्थमयोध्यायां कृतगृहैः उपोपविष्टैः नृपादिभिः वृतः स नृपतिः अमरैः सहस्रचक्षुरिव बभौ ॥ २।१।५१ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणावयोध्याकाण्डे प्रथमः सर्गः ॥ २।१ ॥