०७७ दशरथाद्ययोध्यागमनम्

गते इति । रामे परशुरामे गते सति प्रशान्तात्मा महायशाः दाशरथी रामः अप्रमेयाय अन्यैरयं वरुण इति तस्मिन्काले प्रमातुमशक्याय वरुणाय हस्ते स्वकरे स्थितं धनुः वैष्णवचापं ददौ ॥ १।७७।१ ॥

अभिवाद्येति । ततः चापदानानन्तरं रघुनन्दनो रामः वशिष्ठप्रमुखान् ऋषीन् पितरं चाभिवाद्य विकलं वीनां पक्षिणां कलं स्वस्वनीडगमनं यस्मिन् तं सायङ्कालं दृष्ट्वा प्रोवाच ॥ १।७७।२ ॥

तद्वचनमेवाह जामदग्न्य इति । जामदग्न्यो रामो गतः अतो नाथेन त्वया पालिता चतुरङ्गिणी सेना अयोध्याभिमुखी सती प्रयातु सायङ्कालं दृष्ट्वापि चतुरङ्गिणी प्रयात्वित्युक्त्या अयोध्यादर्शनाभिलाषातिशयः सूचितः ॥ १।७७।३ ॥

रामस्येति । राजा दशरथः रामस्य तद्वचः श्रुत्वा राघवं सुतं बाहुभ्यां सम्परिष्वज्य मूर्ध्नि आघ्राय प्रमुमुदे इति शेषः ॥ १।७७।४ ॥

गत इति । तदा रामोक्तिकाले रामः परशुरामो गतः इति श्रुत्वैव आहृष्टः परमहर्षं प्राप्तः प्रमुदितः प्रमुत् प्रकृष्टो हर्षः इता जनान् प्रापिता येन सः नृपो दशरथः पुत्रमात्मानं च पुनर्जातं मेने अत एव तां सेनां चोदयामास गन्तुं प्रेरयामास ततः प्रेरणानन्तरमेव पुरीमयोध्यामाशु जगाम ॥ १।७७।५ ॥

पताकेति । पताकाध्वजिनीं पताकया ध्वजवस्त्रेण युक्तो यो ध्वजः पताकादण्डः तद्वतीं रम्यां तूर्योद्घुष्टनिनादितां तूर्यजनितशब्दपूरिताम् ॥ १।७७।६ ॥

सिक्तैः राजपथैः रम्यां रमणीयां प्रकीर्णकुसुमोत्करां प्रकीर्णाः विस्तृताः कुसुमोत्कराः पुष्पसमूहा यस्यां तां राजप्रवेशसुमुखैः राजप्रवेशेन शोभनानि प्रफुल्लितानि मुखानि येषां तैः मङ्गलपाणिभिः पौरैः सम्पूर्णां जनौघैः समलङ्कृतामयोध्यायां राजा प्राविशत् ॥ १।७७।७ ॥

पौरैरिति । पौरैः अयोध्यापुरोद्भवैः पुरवा सिभिः स्वाभीष्टसिद्ध्यर्थं तत्पुरनिवसनशीलैश्च द्विजैः दूरं प्रत्युदग्तः श्रीमद्भिः पुत्रैरनुगतः युक्तः महायशाः राजा दशरथः हिमवत्सदृशं प्रियं गृहं प्रविवेश ॥ १।७७।८,९ ॥

ननन्देति । स्वजनैः कामैः इच्छाविषयीभूतपदार्थैः सुपूजितः राजा गृहे ननन्द ॥ १।७७।१० ॥

कौशल्येति । सुमध्यमा कौशल्यादिः अन्या कौशल्यादिभिन्ना या राजयोषितः ताश्च वधूप्रतिग्रहे

वधूनां स्नुषाणां प्रतिग्रहः आचारपूर्वकस्वस्वगृहनयनं तत्र युक्ताः संसक्ता अभवन्निति शेषः ॥ १।७७।११ ॥

तत इति । ततः वधूप्रतिग्रहसंसक्त्यनन्तरं यशस्विनीं महाभागां सीतामूर्मिलां च उभे कुशध्वजसुते च नृपयोषितः कौशल्यादयः जगृहुः ॥ १।७७।१२ ॥

मङ्गलेति । मङ्गलालापनैः स्वस्तिवचनोच्चारणैः होमैश्च शोभिताः क्षौमवाससः पट्टवस्त्रवत्यः ताः सर्वाः देवतायतनानि प्रत्यपूजयन् ॥ १।७७।१३ ॥

अभीति । तदा पूजनकाले अभिवाद्यान् अभिवादनार्हान् अभिवाद्य भर्तृभिः सहिता एव मुदिताः सर्वा राजसुताः रहो रेमिरे । चशब्द एवार्थे ॥ १।७७।१४ ॥

कृतेति । कृतदाराः प्राप्तभार्याः कतास्त्राः प्राप्तमन्त्रास्त्रशस्त्राः सधना नित्यधनविशिष्टाः ससुहृज्जनाः पितरं शुश्रूषमाणाः नरर्षभाः रामादयः वर्तयन्ति वर्तन्ते णिजर्थो ऽविवक्षितः ॥ १।७७।१५ ॥

कस्यचिदिति । अथ अनन्तरं कस्यचित्कालस्यापगमे सतीति शेषः । रघुसत्तमो राजा दशरथः केकयीपुत्रं सुतं स्वपुत्रं भरतमब्रवीत् ॥ १।७७।१६ ॥

तद्वचनमेवाह अयमिति । हे पुत्रक हे वीर त्वा त्वामानेतुमागतः केकयराजस्य पुत्रः तव मातुलो ऽयं युधाजित् वसति । अत्र गच्छेत्यनुक्त्या पुत्रवियोगासहिष्णुत्वं राज्ञः सूचितम् ॥ १।७७।१७ ॥

श्रुत्वेति । तदा राजोक्तिकाले दशरथस्य एतद्वचनं श्रुत्वा शत्रुघ्नसहितः केकयीसुतो भरतः गमनाय अभिचक्राम ॥ १।७७।१८ ॥

आपृच्छ्येति । वीरः नरश्रेष्ठः शत्रुघ्नसहितो भरतः पितरमक्लिष्टकारिणं रामं च मातृ़श्च आपृच्छ्यैव ययौ ॥ १।७७।१९ ॥

युधाजिदिति । भरतं शत्रुघ्नं च प्राप्पय प्रहर्षितो वीरो युधाजित्स्वपुरं प्राविशत् तेन तस्य पिता तुतोष । हो हेतौ ॥ १।७७।२० ॥

गत इति । भरते गते सति महाबलो रामो लक्ष्मणश्च देवसङ्काशं पितरं तदोचितकाले पूजयामासतुः ॥ १।७७।२१ ॥

पितुरिति । पितुः आज्ञां पुरस्कृत्यैव प्रियाणि मनोहराणि हितानि अपकारकाणि सर्वशः पौरकार्याणि धर्मात्मा रामो नित्यं चकार । एकश्चकार एवार्थे एकश्चकारो नित्यार्थः ॥ १।७७।२२ ॥

मातृभ्य इति । परमयन्त्रितः शास्त्रानुरोधित्वादतिसङ्कुचितवृत्तिः रामः मातृकार्याणि काले काले कृत्वा गुरूणां गुरुकार्याणि महान्त्यपि कृत्यानि अन्ववैक्षत विचार्याकरोदित्यर्थः ॥ १।७७।२३ ॥

एवमिति । रामस्य शीलवृत्तेन दशरथः प्रीतः एवं नैगमा ब्राह्मणाः प्रीताः तथा सर्वे विषयवासिनः प्रीताः ॥ १।७७।२४ ॥

तेषामिति । सत्यपराक्रमः स्वयं भवति प्रादुर्भूततां प्राप्नोतीति स्वयम्भूः रामः लोके भूतानां प्रादुर्भावं प्राप्तानां मध्ये अतियशाः गुणवत्तरश्च बभूव । इवश्चार्थे ॥ १।७७।२५ ॥

राम इति । रामः सीतयैव साकं बहून् ऋतून् विजहार । चशब्द एवार्थे ॥ १।७७।२६ ॥

विहाराकारमाह मनस्वीति । तस्यां सीतायामेव गतं नित्यं संलग्नं मनो यस्य अत एव मनस्वी निश्चलचित्तो रामः तस्याः तया सीतया हृदि समर्पितः संस्थापित इवेत्यर्थः । पितृकृताः पित्रा समर्पिताः प्रिया अतिप्रीतिविषयीभूता रामस्य दाराः सीतापि रामस्पय रामेण इत्यनेन प्रकारेण हृदि समर्पितेति लिङ्गविपरिणामेनात्रान्वयः । तुशब्दो ऽप्यर्थे ॥ १।७७।२७ ॥

गुणादिति । गुणात् परस्परमतिशयसौशील्यसौन्दर्यादेः रूपगुणान् परस्परनिष्ठरूपस्वरूपगुणाच्च प्रीतिः परस्परं प्रेम भूयो ऽत्यन्तमभिवर्धते अत एव भर्ता रामः तस्याः सीतायाः हृदये द्विगुणं द्वयोरुक्तगुणयोः समाहारः परिवर्तते । गुणवत्त्वेनैव रूपेण परिवर्तते चशब्देन सापि तस्य हृदि गुणवत्त्वेनैव रूपेण परिवर्तते इत्यर्थः ॥ १।७७।२८ ॥

अन्तर्गतमिति । विशेषेण विशिष्टगुणादिना विशिष्टा सीता किञ्च या विशेषेण लक्ष्म्यादितो ऽपि परतया विद्यमाना मैथिली मिथिलोद्भवा जनकात्मजा सीता रूपे देवताभिः समा श्रीरिव रूपिणी कविभिर्वण्यत इति शपः । सा हृदा बुद्ध्या अन्तर्गतं हृदये निवेशितमप्यभिप्रायं तस्य रामस्य समीपे व्यक्तं यथा भवति तथा भूयो ऽत्यन्तमाख्याति कथयति । हृत् आश्रितसन्तापनाशको ऽयं रामो ऽपि आख्याति । सार्धश्लोक एकान्वयी ॥ १।७७।२९ ॥

तयेति । अभिकामया अभितः कामो यस्यास्तयोत्तमराजकन्यया तया सीतया समेयिवान् रामो ऽतीव शुशुभे तत्र दृष्टान्तः अतिकामया श्रिया अमरेश्वरो विभुर्विष्णुरिव ॥ १।७७।२९ ॥

श्रीमन्मैथिलराजराजतनयासंसेव्यमानं विभुं

सीतापद्ममुखालिमार्यमयतामाज्यात्मजं यः स्वभाः ।

सर्वव्यापकसच्चिदात्मकमयं ब्रह्माव्ययं तं मनो

नित्यं येन तदीयनित्यचरणान् द्रक्ष्यामि मे चक्षुषा ॥ १ ॥

वाल्मीकिरामायणबालाकण्डे टीका समाप्ता सविधे त्रिवेण्याः ।

रामायणादिर्हि शिरोमणिः सा श्रीरामहर्षाय सदैव भूयात् ॥ २ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥

इति श्रीरामायणे बालकाण्डं समाप्तम् ।

फ़्