०७६ जामदग्न्यपराजयः

श्रुत्वेति । जामदग्न्यस्य परशुरामस्य तद्वाक्यं श्रुत्वा पितुर्गौरवात् पितृनिष्ठगुरुत्वात् यन्त्रिता नियमिता कथा भाषण यस्य पितृभिया मितभाषणविशिष्ट इत्यर्थः । किञ्च गौरवात् स्वनिष्ठसर्वगुरुत्वं संस्मृत्य यन्त्रितकथो दाशरथिः पितुः समीपे विद्यमानं रामं परशुराममथाब्रवीत् मङ्गलवाक्यमकथयत् ॥ १।७६।१ ॥

तद्वाक्यमेवाह कृतवानिति । हे भार्गव हे ब्रह्मन् पितुः आनृण्यम् अवश्यकर्तव्यपितृविघातिवधरूपमृणापनयनबुद्धिमास्थितस्त्वं यत्कर्म पितृविघातिवधरूपक्रियां कृतवानसि तत् अहं श्रुतवानस्मि अतः वयमनुरुन्ध्यामहे त्वत्कर्म अतिप्रशस्तत्वेन वदाम इत्यर्थः ॥ १।७६।२ ॥

वीर्येति । हे भार्गव क्षत्रधर्मेण स्थितमत एव अशक्तं ब्राह्मणोद्देश्यकातिभाषणसम्बन्धिसामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासि अतो मे तेजः पराक्रमं चाद्य त्वं पश्य । विनापि चं समुच्चयः ॥ १।७६।३ ॥

इतीति । क्रुद्धः क्रुधं स्वाश्रितकोपं जहाति हापयतीति राघवः स रामः इत्युक्त्वा भार्गवस्य हस्ताल्लघुपराक्रमः सन् वरायुधं चापं शरं च प्रतिसङ्गृह्य गृहीत्वा धनुः आरोप्य शरं सज्यं ज्यासंयुक्तं चकार ह प्रसिद्धमेतत् । सार्धश्लोक एकान्वयी ॥ १।७६।४ ॥

जामदग्न्यमिति । ततः सज्यीकरणानन्तरं क्रुद्धः स्वाश्रितकोपनिवर्तको रामः जामदग्न्यं रामं वचो ऽब्रवीत् ॥ १।७६।५ ॥

तद्वचनमेवाह ब्राह्मण इति । ब्राह्मणो ऽसि इतिहेतुना विश्वामित्रकृतेन विश्वामित्रात् अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन जातत्वेन च हेतुना त्वं में पूज्यो ऽसि जस्माद्धेतोः हे राम परशुराम प्राणहरं शरं ते तुभ्यं मोक्तुं न शक्तो ऽस्मीति शेषः ॥ १।७६।६ ॥

इमामिति । राम हे परशुराम यत् यदि त्वमिच्छसि तर्हीमां प्रसिद्धां त्वद्गतिं त्वत्कर्तृकं कामचारगमनं तपोबलसमर्जितान् तपोबललभ्यान् अप्रतिमान् प्राकृतोपमारहितान् लोकान् त्वन्निवासान् वा हनिष्यामि अपिना उभयविनाशमिच्छसि चेत्तर्ह्युभयं हनिष्यामि एतेन ब्राह्मणानिष्टं न करोमीति स्वमर्यादा व्यञ्जिता । एको वाशब्दस्तर्हीत्यर्थे ॥ १।७६।७ ॥

ननु विकल्पितं सर्वं नेच्छामीत्यत आह नेति । परपुरञ्जयः वीर्येण बलदर्पविनाशनः दिव्यो ऽयं वैष्णवः शरः मोघः निष्फलः नैव पतति एतेन यत्रास्य शरस्य पातः सफलस्तद्वक्तव्यमिति सूचितम् ॥ १।७६।८ ॥

रघुनाथोक्त्यनन्तरकालिकं वृत्तमाह वरेति । वरायुधधरं सज्यीकृतवैष्णव धनुर्बाणधारिणं रामं रघुनाथं द्रष्टुं सर्षिगणाः सर्वशः सुराः पितामहं ब्रह्माणं पुरस्कृत्य तत्र रघुनाथसमीपे समेताः प्राप्ताः पितामहं पुरस्कृत्येत्युक्त्या सुराणां रामबाणभीतत्वं सूचितं तेन रामबाणस्य तेजो ऽतिशयः सूचितः ॥ १।७६।९ ॥

गन्धर्वेति । महपूज्यं अद्भुतमाश्रर्यं तद्रघुनाथस्य कर्म द्रष्टुं गन्धर्वादयश्च समेता इति पूर्वेणान्वयः ॥ १।७६।१० ॥

जडीकृत इति । वरधनुर्धरे रामे दाशरथौ तदालोके परशुरामतेजसि जडीकृते आलोकनिष्ठजडीभवनानुकूलव्यापारवति सति निर्वीर्यो हतपराक्रमः असौ जामदग्न्यो रामः रामं दाशरथिमुदैक्षत तेजसो जडीभवनं विध्वंस एवेति भावः ॥ १।७६।११ ॥

तेजोभिरिति । तेजोभिः रघुनाथप्रभावैर्हतवीर्यत्वाद्धेतोः जडीकृतो जामदग्न्यः कमलपत्राक्षं रामं मन्दं मन्दमेवोवाच । हशब्द एवार्थे ॥ १।७६।१२ ॥

तद्वचनमेवाह कश्यपायेति । पूर्वं कश्यपाय वसुन्धरा मया यथा यथावद्दत्ता अत एव मे विषये देशे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ॥ १।७६।१३ ॥

स इति । हे काकुत्स्थ सः कश्यपेनोक्तो ऽगुरुवचः कुर्वन् सन् यदाप्रभृति मे मया कश्यपस्य कृता कश्यपाय समर्पितेत्यर्थः इयं पृथिवीति शेषः तदाप्रभृति अस्यां पृथिव्यां निशां न वसे वसामि ह प्रसिद्धमेतत् ॥ १।७६।१४ ॥

तदिति । हे राघव हे राम तत्तस्माद्धेतो इमां कामचारां गतिं गमनं हन्तुं त्वं नार्हसि अतः पर्वतोत्तमं महेन्द्रं मनोजवं यथा स्यात्तथा गमिष्यामि ॥ १।७६।१५ ॥

लोका इति । हे राम मया तपसैव निर्जिताः समर्जिता ये ऽप्रतिमा लोकाः तान् शरमुख्येन जहि कालस्य पर्ययो विलम्बो मा भूत् । तुशब्द एवार्थे ॥ १।७६।१६ ॥

त्वं मया तत्त्वतो ज्ञातो ऽसीति बोधयन्नाह अक्षयमिति । न क्षयो विनाशः आश्रितानां यस्मात् तं मधुहन्तारं मधुं दैत्यं हन्ति विष्णुना घातयति तं विष्णोर्नियन्तारमित्यर्थः । किञ्च मधुहं मधौ चैत्रे जिहीते प्रादुर्भावं प्राप्नोति तं तारं तारः प्रणवः अस्ति बोधकत्वेनास्येति तारः तं, किञ्च तारं भवसागरपारकर्तारं सुरोत्तमं ब्रह्मादित्रिदेवेभ्यः श्रेष्ठं दानिश्रेष्ठ वा त्वामहं जानामि अतो हे परन्तप अस्य वैष्णवस्य धनुषः परामर्शात् ग्रहणसज्यीकरणार्षणादेः ते स्वस्त्यस्तु ॥ १।७६।१७ ॥

एत इति । समागताः एते सर्वे सुरगणाः अप्रतिमकर्माणमुपमारहितकर्मविशिष्टमत एव आहवे अप्रतिद्वन्द्वं त्वां निरीक्षन्ते ॥ १।७६।१८ ॥

नेति । हे काकुत्स्थ इयं पराभूतिः मम व्रीडा तद्धेतुर्भवितुं नार्हति यद्यस्माद्धेतोः त्रैलोक्यनाथेन सर्वस्वामिना त्वया अहं विमुखीकृतः ॥ १।७६।१९ ॥

शरमिति । हे राम हे सुव्रत अप्रतिममुपमारहितं शरं मोक्तुं त्वमर्हसि शरमोक्षे सति पर्वतोत्तमं महेन्द्रमहं गमिष्ये ॥ १।७६।२० ॥

तथेति । जामदग्न्ये रामे तथा ब्रुवति सत्येव प्रतापवान् श्रीमान् दाशरथिः रामः उत्तमं शरं चिक्षेप ॥ १।७६।२१ ॥

स इति । जामदग्न्यः स परशुरामः रामेण हतान् तपसार्जितान् लोकान् दृश्य दृष्ट्वा पर्वतोत्तमं

महेन्द्रमाशु जगाम ॥ १।७६।२२ ॥

तत इति । ततः परशुरामगमनानन्तरं वितिमिराः अन्धकाररहिताः सर्वाः दिशः तथोपदिशश्च आसन्निति शेषः । अत एव मुदान्विताः सर्षिगणाः सुराः रामं प्रशशंसुः ॥ १।७६।२३ ॥

राममिति । ततः महेन्द्राचलप्राप्त्यनन्तरं प्रभुर्जामदग्न्यो रामः दाशरथिं रामं प्रशस्य तद्दयालुत्वादिप्रशंसां कृत्वा प्रदक्षिणं प्रकृष्टा सर्वोत्तमा दक्षिणा आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वा आत्मगतिमात्मनः स्वस्य गतिं प्राप्य रघुनाथनियम्यत्वं जगाम प्राप ॥ १।७६।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्सप्ततितमः सर्गः ॥ १।७६ ॥