तद्भाषणमेवाह रामेत्यादिभिः । हे राम हे दाशरथे हे वीर ते तवैव वीर्यमद्भुतमीश्वराणामप्याश्चर्योत्पादकं श्रूयते । तत्र हेतुमाह यतः धनुषो ऽभेद्येश्वरचापस्य भेदनं त्वत्कर्तृकद्वैधीकरणं निखिलेन जनेन कथितमिति शेषः । किञ्च निखिलेन निश्शेषतो मया श्रुतम् । चशब्दो हेत्वर्थे ॥ १।७५।१ ॥
तदिति । अद्भुतं ईश्वराणामप्याश्चर्यसम्पादकमत एव चिन्तचितुमशक्यं तत् प्रसिद्धं धनुषः अभेद्येश्वरचापस्य त्वया भेदनं त्वत्कर्तृकद्वैधीकरणं श्रुत्वा अपरं विदारितेश्वरधनुःप्रतियोगिकभेदविशिष्टं शुभं तत् प्रसिद्धं धनुर्गृह्य गृहीत्वा अहं अनुप्राप्तः । त्वयेत्यत्र “उभयप्राप्तौ कर्मणि” इति नियमात्षष्ठ्यभावः ॥ १।७५।२ ॥
अपरधनुरानयने प्रयोजनं वदन्नाह तदिति । तत्तस्मादीश्वरधनुर्भेदनसामर्थ्यवत्त्वादेव हेतोः
घोरसङ्काशं भयङ्करप्रकाशविशिष्टं जामदग्न्यमिदं महद्धनुः स्वशरेण पूरय तेन स्वबलं दर्शयस्व च एतेनैतत्कृतमहेश्वरधनुर्भङ्गे परशुरामस्य विश्वासाभावः सूचितः तेनैतत्कृत्यस्यासाध्यत्वं व्यञ्जितम् तेनेश्वरेश्वरेच्छायाः ईश्वरबुद्धिमोहकत्वं व्यक्तम् तेन रघुनाथस्य स्वनिष्ठेश्वरनियन्तृत्वगुणप्रकटनेच्छा व्यक्ता । च शब्दो हेत्वर्थे ॥ १।७५।३ ॥
तदिति । अस्य मदानीतस्य धनुषः प्रपूरणे ते तव अहं न जहाति कदाचित् त्यजति नित्यस्थायीत्यर्थः । तत्प्रसिद्धं बलं दृष्ट्वा वीर्यश्लाघ्यं वीर्यप्रशंसाहेतुभूतं द्वन्द्वयुद्धमहं तव प्रदास्यामि । पूर्वपठिताहशब्दः नञ्पूर्वकहाधातुप्रकृतिक आतोनुपसर्ग इतिविधिबोधितकप्रत्ययान्तः श्लाघ्यमिति भावण्यदन्तम् ॥ १।७५।४ ॥
तस्येति । तदा परशुरामसम्भाषणकाले तस्य परशुरामस्य तत् व्यामोहविशिष्टं वचनं श्रुत्वा अदीनः त्रैकालिकदीनताभावविशिष्टः प्राञ्जलिः प्रणयसूचकबद्धयुगलकरः विषण्णवदनः मोहहारकेश्वरव्यामोहदर्शनेनोदासीनचित्तः राजा दशरथः वाक्यमब्रवीत् ॥ १।७५।५ ॥
तद्वाक्यमेवाह क्षत्रेत्यादिभिः । क्षत्ररोषात् क्षत्रियकृतपितृवधजनितक्षत्रियविषयकक्रोधं परित्यज्य प्रशान्तस्त्वमसीति शेषः । अतो महातपा ब्राह्मणस्त्वं बालानां मम पुत्राणामभयमेव दातुमर्हसि लीलयापि भयं दातुं नार्हसीत्यर्थः । चशब्द एवार्थे ॥ १।७५।६ ॥
त्वत्कर्तृकभयदानं सर्वथा ऽनुचितमिति बोधयन्नाह भार्गवाणामित्यादिश्लोकत्रयेण । स्वाध्यायव्रतशालिनां भार्गवाणां कुले जातः प्रादुर्भूतस्वं सहस्राक्षे तत्समीपे प्रतिज्ञाय इतः प्रभृति शस्त्रग्रहणं न करिष्यामीति प्रतिज्ञां कृत्वा शस्त्र निःक्षिप्तवानसि ॥ १।७५।७ ॥
स इति । सः कृतप्रतिज्ञस्त्वं धर्मपरो भूत्वा अत एव कश्यपाय वसुन्धरां दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः कृतमहेन्द्राचलनिवासः अभव इति शेषः ॥ १।७५।८ ॥
ननु स्वतन्त्रत्वात् स्वप्रतिज्ञामपहाय युद्धं करिष्याम्येवेत्यत आह ममेति । हे महामुने मम सर्वविनाशाय मत्सम्बन्धिशरीरादिनिखिलध्वंसाय त्वं सम्प्राप्तः । ननु द्वन्द्वयुद्धे सर्वविनाशः कथमित्यत आह रामे रामनिष्ठे एकस्मिन् अल्पे ऽपि हते भवत्कर्मकप्राणवियोगानुकूलव्यापारे सति वयं सर्वे न जीवामहे प्राप्तब्रह्महत्याप्रयुक्तापकीर्त्या विनष्टा इव भविष्याम इत्यर्थः । हतशब्दः गत्यर्थाकर्मकेति भावनिष्ठान्तः अकर्मकत्वं च कर्माविवक्षया ॥ १।७५।९ ॥
ब्रुवतीति । दशरथे एवं ब्रुवति सति प्रतापवान् जामदग्न्यः तद्वाक्यं दशरथवचनमनादृत्यैव राममेव अभ्यभाषत ॥ १।७५।१० ॥
तद्भाषणमेवाह इमे इति । दिव्ये देवलोकोद्भवे अत एव दृढे विनाशभयरहिते बहुबले बहुबलसाध्योत्थापने अत एव श्रेष्ठे अत एव लोकाभिपूजिते अत एव मुख्ये इमे द्वे धनुषी विश्वकर्मणा सुकृते देवार्थं निर्मिते अभवतामिति शेषः ॥ १।७५।११ ॥
अतीति । युयुत्सवे त्रिपुरासुरेण योद्धुमिच्छवे त्र्यम्बकाय शिवाय यदेकं धुनः सुरैरतिसृष्टं दत्तं हे नरश्रेष्ठ हे काकुत्स्थ तत्ित्रपुरघ्नं धनुस्त्वया भग्नम् ॥ १।७५।१२ ॥
इदमिति । दुर्धर्षमिदं द्वितीयं धनुः सुरोत्तमैर्विष्णोर्विष्णवे दत्तम् सम्बन्ध्ासामान्यविवक्षया षष्ठी । हे राम वैष्णवं परपुरञ्जयं तद्धनुः इदं मत्करस्थम् विद्धीति शेषः ॥ १।७५।१३ ॥
समानेति । हे काकुत्स्थ रौद्रेण धनुषा इदं वैष्णवं धनुः समानसारं तुल्यदृढताविशिष्टमेव । समानसारत्वे हेतुं वदन्नाह तदा त्रिपुरविजयोत्तरसमये एव शितिकण्ठस्य नीलकण्ठशिवस्य विष्णोश्च बलाबलनिरीक्षया बलाबलयोः परीक्षया हेतुना सर्वाः देवताः पितामहं ब्रह्माणं पृच्छन्तिस्म तुशब्दावेवार्थौ सार्धश्लोक एकान्वयी ॥ १।७५।१४ ॥
अभिप्रायमिति । सत्यवतां वरः पितामहो दवतानामभिप्रायं विज्ञायैव तयोर्विष्णुशिवयोर्विरोधं जनयामास । तुशब्द एवार्थे ॥ १।७५।१५ ॥
विरोध इति । परस्परजयैषिणोः शितिकण्ठस्य विष्णोश्च विरोधे सत्येव रोमहर्षणं महत् युद्धमभवत् । तुशब्द एवार्थे ॥ १।७५।१६ ॥
तदेति । तदा तयोर्युद्धसमये भीमपराक्रमं शैवन्धनुः हुङ्कारेणैव विष्णोरिति शेषः । जृम्भितं शैथिल्यं प्राप्तम् । अथ धनुर्विजृम्भणानन्तरं त्रिलोचनो महादेवः स्तम्भितः व्यापाररहित आसीदिति शेषः । एतेन सत्त्वगुणस्य तदानीं प्राबल्यं सूचितम् ॥ १।७५।१७ ॥
देवैरिति । तदा निर्व्यापारशिवस्थितिकाले सर्षिसङ्घैः ऋषिसङ्घसहितैः सचारणैः चारणसहितैः समागम्य हरिहरसमीपं प्राप्य स्थितैः देवैः प्रशमं शान्तिं याचितौ सुरोत्तमौ तौ विष्णुशिवौ तत्र शान्तियाचनसमये प्रशमं जग्मतुः । प्रशममित्युभयान्वयि । अत्र शिवस्तम्भनानन्तरं तत्प्रशान्तियाचनया तमोगुणोद्रेकसमये स्वीकृततमोगुणस्य विजयो भविष्यति पुनः सत्त्वगुणोद्रेकसमये स्वीकृतसत्त्वगुणस्य विजयो भविष्यतीत्यनवस्था स्यादिति देवाभिप्रायः सूचितः ॥ १।७५।१८ ॥
जृम्भितमिति । विष्णुपराक्रमैः तथा जृम्भितं तच्छैवं धनुर्दृष्ट्वा सर्षिगणाः देवा विष्णुमधिकं मेनिरे स्वीकृततत्सत्त्वगुणस्य तत्काले आधिक्यं स्वीचक्रुरित्यर्थः । अत एव त्रिपुरविजयकाले शिवबलस्याधिक्यदर्शने ऽपि नैतेषां संशयोत्पत्तिः शिखी नष्टः स्वर्गी ध्वस्त इतिवत् सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति न्यायादाधिक्यन्यूनतयोः तद्विशेषणीभूतगुणयोरेव पर्यवसानं ऽसत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैःऽ इत्याद्युक्त्या हरिहरयोरैक्यात् तत्तन्यूनाधिकतयोः वक्तव्यत्वस्याशक्यत्वात् अत एव एको ह वै रुद्रः । एको ह वै नारायणः" इति श्रुत्योर्न विरोधः ऽअहं ब्रह्मा च शर्वश्च जगतः कारणं परम् । धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् । यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषुऽ इत्यादिवचनं सङ्गच्छते । एतेन तमउद्रेकेण कदाचिद्रुद्रस्य पराजयो न दोषायेति केनचिदुक्तं प्रत्युक्तमिति भूषणकारोक्तमेव प्रत्युक्तम् त्रिपुरविजयकाले विष्णोरल्पबलवत्त्वे अस्यैव यत्नस्य तैरपि वक्तव्यत्वात्समानप्रमाणश्रुत्योरेकत्रानपेक्षितत्वकल्पनायाः अन्याय्यत्वात्प्रमाणाभावाच्च ॥ १।७५।१९ ॥
धनुरिति । सङ्क्रुद्धः सङ्क्रुद्धं सङ्ग्रामजनितातिकोपं जहाति सङ्ग्रामं त्यजति स महायशा रुद्रः विदेहेषु जातस्य राजर्षेर्देवरातस्य हस्ते एव ससायकं सायकसहितं धनुर्ददौ देवैर्दापयामास अन्तर्भावितणिजर्थो ददातिः । तुशब्दः एवार्थे ॥ १।७५।२० ॥
इदमिति । हे राम परपुरञ्जयमत एव सन्यासं सम्यक् न्यासः शत्रूणामेवैश्वर्यत्यागः यस्मात्तदुत्तममिदं वैष्णवं धनुस्तु भार्गवे ऋचीके विष्णुः प्रादात् । चस्त्वर्थे ॥ १।७५।२१ ॥
ऋचीक इति । महातेजा ऋचीकस्तु अप्रतिकर्मणः प्रतिक्रियारहितक्रियाविशिष्टस्य पुत्रस्पय स्वसुतस्य मम पितुर्महात्मनो जमदग्नेर्दिव्यं धनुर्ददौ सम्प्रदानस्य शेषत्वविवक्षया षष्ठी ॥ १।७५।२२ ॥
न्यस्तेति । न्यस्तशस्त्रे परित्यक्तास्त्रशस्त्रे तपोबलसमन्विते मे पितरि जमदग्नौ प्राकृतां बुद्धिमास्थितः अर्जुनः मृत्युं विदधे ॥ १।७५।२३ ॥
वधमिति । हे राम अप्रतिरूपं वधानर्हं सुदारुणं पितुर्वधं श्रुत्नवा रोषात् जातं जातं क्षत्रमब्रह्मण्यक्षत्रकुलमनेकशस्त्रिःसप्तवारमुत्पाटयन् सन् अखिलां हततत्तत्क्षत्रियस्वामिकां पृथिवीं प्राप्य यज्ञस्य प्रारब्धवधप्रायश्चित्तरूपयागस्य अन्ते अवसाने पुण्यकर्मणे महात्मने कश्यपाय दक्षिणां दत्त्वा महेन्द्रनिलयः कृतमहेन्द्राचलनिवासः तपोबलसमन्वितः अहं धनुषो भेदं भवत्कृतधनुर्भङ्गं श्रुतवान्
ततः धनुर्भङ्गश्रवणात् तदा धनुर्भङ्गोत्तरकाले द्रुतमागतो ऽहमस्मीति शेषः । श्लोकत्रयमेकान्वयि ॥ १।७५।२४२६ ॥
तदिति । हे राम तत् वर्णितप्रभावमुत्तममिदं वैष्णवं धनुः महत् अतिप्रशंसनीयं पितृपैतामहं क्षत्रधर्मं पुरस्कृत्य संस्मृत्येत्यर्थः गृह्णीष्व ॥ १।७५।२७ ॥
योजयस्वेति । हे काकुत्स्थ यदि त्वं शक्नोषि तर्हि धनुःश्रेष्ठं परपुरञ्जयं शत्रुपुरञ्जयकर्तारं शरं योजयस्व ततो योजनानन्तरं द्वन्द्वं द्वन्द्वयुद्धं दास्यामि एतेन युद्धमन्तरावकाशं न प्राप्स्यसीति ध्वनितम् ॥ १।७५।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चसप्ततितमः सर्गः ॥ १।७५ ॥