०७४ परशुरामागमनम्

उपकार्यागमनानन्तरकालिकं वृत्तमाह अथेति । अथ उपकार्यागमनानन्तरं रात्र्यां व्यतीतायां सत्यां महामुनिर्विश्वामित्रः राजानौ तौ दशरथजनकौ आपृष्ट्वा आपृच्छय अनुमतिं गृहीत्वैव उत्तरपर्वतं जगाम । हिरेवार्थे ॥ १।७४।१ ॥

विश्वामित्र इति । विश्वामित्रे गते सति राजातिदीप्त्या उपलक्षितो राजा दशरथः मिथिलाधिपं वैदेहमापृच्छय पुरीमयोध्यामाशु अथ जगाम मङ्गलगमनं चकार ॥ १।७४।२ ॥

अथेति । अथ राजप्रस्थानानन्तरं बहु अत्यधिकं कन्याधनं कन्याविवाहोचितदेयद्रव्यादि विदेहानां राजा जनको ददौ । तदेव विशदयन्नाह पृथिवीपतिर्जनकः बहूनि गवां शतसहस्राणि मुख्यानां च बहूनि शतसहस्राणि ददौ क्षौमकोट्यम्बराणि च ददौ स्वलङ्कृतं दिव्यरूपं बहु हस्त्यश्वरथपादातं च ददौ । वचनविपरिणामेन बहुशब्दो ऽत्राप्यनुकृष्यते । श्लोकद्वयमेकान्वयि ॥ १।७४।३,४ ॥

ददाविति । तासां ताभ्यः स्वकन्याभ्यः अनुत्तमं कन्याशतं दासीदासं च ददौ । हिरण्यादींश्च ददौ । अत्र कर्मणां सम्प्रदानस्य च शेषत्वविवक्षया षष्ठ्यः ॥ १।७४।५ ॥

ददाविति । परमसंहृष्टः जनकः अनुत्तमं परमोत्कृष्टं कन्याधनं ददौ । अर्धं पृथक् । दानौत्तरकालिकं मिथिलाधिपवृत्तमाह दत्त्वेति । मिथिलेश्वरो राजा जनकः बहुविधमनेकप्रकारकं द्रव्यादि दत्त्वा पार्थिवं दशरथं समनुज्ञाप्य स्वनिलयं मिथिलाम् प्रविवेश ॥ १।७४।६ ॥

राजेति । सबलानुगः बलानुगसहितः अयोध्याधिपतिः राजापि सर्वान् ऋषीन् पुरस्कृत्य महात्मभिः पुत्रैः सह जगाम स्वपुरमिति शेषः ॥ १।७४।७ ॥

गच्छन्तमिति । सर्षिसङ्घं सराघवं रामसहितं गच्छन्तं नरव्याघ्रं तं दशरथं ततस्ततः एव घोराः क्रूराः पक्षिणो वाचः घोरवचनानि व्याहरन्ति भौमाः सर्वे मृगा अपि प्रदक्षिणमेव गच्छन्ति स्म । चशब्दो ऽप्यर्थे तुशब्द एवार्थे सार्धश्लोक एकान्वयी ॥ १।७४।८,९ ॥

तानिति । राजशार्दूलो राजश्रेष्ठो दशरथः तान् घोरशब्दकर्तृ़न् पक्षिणः प्रदक्षिणकर्तृ़न् मृगांश्च दृष्ट्वा वशिष्ठं पर्यपृच्छत । प्रश्नाकारं वदन्नाह असौम्या घोराः पक्षिणः घोराः मृगाश्च प्रदक्षिणाश्चरन्तीति शेषः । अपिरेवार्थे ॥ १।७४।१० ॥

किमिति । हृदयोत्कम्पि हृदयोत्कम्पनकारकमिदं सर्वं किं किमर्थमयमुत्पात इति न विद्म इत्यर्थः । अत एव मम मनो विषीदति । राज्ञ इति । राज्ञः दशरथस्यैतद्वाक्यं श्रुत्वा महानृषिवैशिष्ठः अस्य दृष्टोत्पातस्य यत्फलं तत् श्रूयतामिति मधुरां वाणीमुवाच ॥ १।७४।११ ॥

तद्वचनमेवाह उपेति । दिव्यं स्वप्नतुल्यं पक्षिमुखाच्च्युतं वचनमुपस्थितं समीपं प्राप्तं घोरं भयं बोधयतीति शेषः । दिव्यमिति स्वप्नार्थकदिविधातुप्रकृतिकण्यत्प्रत्ययान्तं सञ्ज्ञापूर्वकविधेरनित्यत्वाद्गुणाभावः । अर्धं पृथक् ॥ १।७४।१२ ॥

तद्भयमपि द्रुतं विनङ्क्ष्यतीति बोधयन्नाह मृगा इति । एते प्रदक्षिणगमनशीलाः मृगाः प्रशमयन्ति हृदयोत्कम्पि घोरपक्षिरावसूचितभयं निवर्तयन्तीत्यर्थः । अतः अयं कुशकुनदर्शनजनितः सन्तापस्त्यज्यताम् भवतेति शेषः । अर्धं पृथगन्वयि तेषामिति । तत्र मार्गे संवदतां तेषां दशरथादीनां संवदत्मु दशरथादिषु सर्वां पृथिवीं कम्पयन्महाद्रुमान् पातयँश्च वायुः प्रादुर्बभूव ह प्रसिद्धमेतत् । “षष्ठी चानादरे” इत्यनुशासनविहितात्र षष्ठी । अत एव तमसा अन्धकारेण सूर्यः संवृतः अत एव सर्वे जनाः दिशो नावेदिषुः अत एव भस्मना आवृतं सर्वं तद्बलं सम्मूढं कार्याकार्यविवेकरहितमेवासीदिति शेषः । चशब्दो हेत्वर्थकः श्लोकद्वयमेकान्वयि ॥ १।७४।१३,१४ ॥

वसिष्ठ इति । तदा प्रचण्डवायुप्रादुर्भावोत्तरकाले वशिष्ठः अन्ये ऋषयश्च ससुतो राजा च सशङ्का इव आसन् । तत्र तच्छङ्काकाले अन्यत् राजसाहित्यवद्भिन्नं सर्वं तत्रत्यप्रजाजातं विचेतनमास वचनविपरिणामेन आसन्नित्यस्यात्रापि सम्बन्धः ॥ १।७४।१५ ॥

तस्मिन्निति । तस्मिन् घोरे तमस्येव भस्मच्छन्ना भस्मोपलक्षितरजोभिराच्छादिता सा चमूः

सेनाजनः राजा दशरथश्च भीमसङ्काशं भयङ्करप्रकाशविशिष्टं जटामण्डलधारिणं राजविमर्दनं क्षत्रियध्वंसकं भार्गवं भृगुगोत्रोत्पन्नं जामदग्नेयं जमदग्निपुत्रं परशुरामं ददर्श । तुश्चार्थे इव एवार्थे सार्धश्लोक एकान्वयी ॥ १।७४।१६,१७ ॥

जामदग्नेयस्वरूपं वर्णयन्नाह कैलासमित्यादिभिः । कैलासमिव दुर्धर्षं कैलासदुर्धर्षत्वसदृशदुर्धर्षत्वविशिष्टं कालाग्निमिव दुःसहं तेजोभिरेव ज्वलन्तमत एव पृथग्जनैः तेजोवद्भिन्नप्राणिभिर्दुर्निरीक्ष्यम् । किञ्च जनैः तेजोभिः पृथक् दुर्निरीक्ष्यम् तेजोभ्यो ऽतिरिक्तत्वेन द्रष्टुमशक्यमित्यर्थः । अस्मिन्पक्षे तेजोभिरित्युभयान्वयि ॥ १।७४।१८ ॥

विद्युद्गणोपमं स्कन्धे परशुमासाद्य सन्धार्य धनुः शरमुख्यं च प्रगृह्य त्रिपुरघ्नं शिवमिवावलोक्यमानम् ॥ १।७४।१९ ॥

ज्वलन्तं पावकमिव भीमसङ्काशमतिप्रकाशं तं जामदग्नेयं जपहोमपरायणाः वशिष्ठप्रमुखाः सवेर् विप्रा मुनयः दृष्ट्वा सङ्गताः सम्मिलिताः सन्तः मिथः परस्परम् अथो सञ्जजल्पुः मङ्गलहेतुकजल्पनं चक्रुः । सार्धश्लोकत्रयमेकान्वयि ॥ १।७४।२० ॥

कच्चिदिति । यद्यपि पितृवधामर्षी क्षत्रियकृतपितृवधहेतुकामर्षविशिष्ट आसीदिति शेषः । तथापि क्षत्रं क्षत्रियवंशं नोत्सादयिष्यति नाशयिष्यति । कच्चिच्छब्दो यद्यपीत्यर्थे ॥ १।७४।२१ ॥

तत्र हेतुं वदन्नाह पूर्वमिति । पूर्वं पितृवधानन्तरकाले गतमन्युर्गतज्वरो ऽयमासीदिति शेषः । अतः भूयः क्षत्रस्योत्सादनमस्य न चिकीर्षितं खलु निश्चितमेतत् ॥ १।७४।२२ ॥

एवमिति । एवमुक्त्वा परस्परं सम्भाष्य अर्घ्यमादाय ऋषयो वसिष्ठप्रभृतयः राम रामेति मधुरं वाक्यं भीमदर्शनं भार्गवमब्रुवन् ॥ १।७४।२३ ॥

प्रतीति । ऋषिदत्तां वसिष्ठप्रभृतिसमर्पितां तां प्रसिद्धां पूजां प्रतिगृह्यैव प्रतापवान् जामदग्न्यो रामः दाशरथिं राममभ्यभाषत । तुशब्द एवार्थे ॥ १।७४।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुःसप्ततितमः सर्गः ॥ १।७४ ॥