०७३ सीतारामविवाहः

यस्मिन्निति । यस्मिन्दिवसे राजा दशरथः उत्तमं गोदानं चक्रे तस्मिन्नेव दिवसे समुपेयिवान् आगतः वीरः केकयराजस्य साक्षादेव पुत्रः भरतमातुलो युधाजित् राजानं दशरथं दृष्ट्वा कुशलं पृष्ट्वा चेदं वचनमब्रवीत् । श्लोकद्वयमेकान्वयि तुशब्दावेवार्थौ ॥ १।७३।१,२ ॥

तद्वचनमेवाह केकय इति । केकयाधिपतिः । राजा स्नेहात्कुशलं भवत्कुशलमहमाकाङ्क्षे इत्यादिवचनमब्रवीत् । येषां केकयानां अस्माकं त्वं कुशलकामो ऽसि तेषां सम्प्रतीदानीमनामयं कुशलमस्ति । ऽपटोलपत्रं पित्तघ्नं नाडी तस्य कफावहाऽ इतिवत् सर्वनाम्ना विशेषणीभूतकेकयपरामर्शः ॥ १।७३।३ ॥

स्वस्रीयमिति । हे रघुनन्दन हे राजेन्द्र महीपतिर्मत्पिता मम स्वस्रीयं मद्भगिनीपुत्रं भरतं द्रष्टुकामस्तदर्थं तदानयनार्थमहमयोध्यामुपयातः प्राप्तः ॥ १।७३।४ ॥

श्रुत्वेति । हे महीपते विवाहार्थं त्वया तुशब्देन विश्वामित्रेण सह मिथिलामुपयातान्प्राप्तांस्तवात्मजानयोध्यायां श्रुत्वैव अहं न जहाति चित्तं तत्रैव सर्वदा तिष्ठतीत्यर्थः तं स्वसुः सुतं द्रष्टुकामो ऽहं त्वरया अभ्युपयातः । सार्धश्लोक एकान्वयी तुशब्द एवार्थे नञ्पूर्वकजहातेः कर्तरि कः । न हीयते चित्तेन त्यज्यते ऽसावित्यर्थे तु कर्मणि को बोध्यः अत एवाहमित्यनेन न पौनरुक्त्यम् ॥ १।७३।५ ॥

अथेति । अथ युधाजित्सम्भाषणानन्तरं राजा दशरथः उपस्थितं प्राप्तं पूजनार्हं प्रियातिथिं युधाजितं दृष्ट्वा परमसत्कारैरपूजयत् ॥ १।७३।६ ॥

तत इति । ततः कृतयुधाजित्सत्कृत्यनन्तरं महात्मभिः पुत्रैः सह तां रात्रिमुषित आसीदिति शेषः ॥ १।७३।७ ॥

प्रभाते इति । तदा तस्मिन्प्रभाते काले पुनः उत्थाय कर्माणि कृत्वा ऋषीन्पुरस्कृत्य तत्त्वविद्दशरथः यज्ञवाटमुपागमत् ॥ १।७३।८ ॥

युक्ते इति । युक्ते विवाहयोग्ये विजये मुहूर्ते सति सर्वाभरणभूषितैः भ्रातृभिः सहितः कृतकौतुकमङ्गलः कृतं कौतुकमङ्लं यस्य सः रामः वशिष्ठमपरान्महर्षीनपि पुरतः अग्रे कृत्वोपागमदिति पूर्वेणान्वयः ॥ १।७३।९ ॥

वशिष्ठमिति । भगवान्समर्थो वशिष्ठः वैदेहमेत्य प्राप्य इदमब्रवीत् ॥ १।७३।१० ॥

तद्वचनमेवाह राजेति । हे राजन् कृतकौतुकमङ्गलैः पुत्रैः सहितः नरवरश्रेष्ठो राजा दशरथः दातार कन्यादानकर्तारं भवन्तमभिकाङ्क्षते द्रष्टुमिति शेषः ॥ १।७३।११ ॥

अभिकाङ्क्षणे हेतुं वदन्नाह दात्रिति । दातृप्रतिग्रहीतृभ्यामेव सर्वार्थाः दानसन्तानाः सम्भवन्ति अतः उत्तमं वैवाह्यं विवाहं कृत्वा स्वधर्मं परमदातृत्वं प्रतिपद्यस्व प्राप्नुहि । हिशब्द एवार्थे ब्राह्मणादित्वात्स्वार्थे ष्यञ् ॥ १।७३।१२ ॥

इतीति । महात्मना वशिष्ठेन इति अनेन प्रकारेणोकतः परमोदारः महातेजाः परमधर्मवितृ जनकः वाक्यं प्रत्युवाच ॥ १।७३।१३ ॥

तद्वाक्यमेवाह क इति । मे मम प्रतिहारो द्वारपालः कः स्थितः यन्निवारितो नेहायातीति शेषः । न प्रतिहारः कश्चिदिति चेत् तर्हि कस्याज्ञां सम्प्रतीक्षते इहागमनायेति शेषः । ननु विचारमन्तरा कथमत्रागमनं स्यादित्यत आह स्वगृहे विचारः को ऽस्ति स्वगृहागमनाय विचारो न कर्तव्पय इत्यर्थः । स्वगृहत्वं प्रतिपादयति इदं राज्यं यथावत्तवास्ति एतेन यदि राज्यं तव तर्हि गृहं तवेति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः ॥ १।७३।१४ ॥

स्वस्यातीव विवाहापेक्षितत्वं बोधयन्नाह कृतेति । हे मुनिश्रेष्ठ कृतकौतुकसर्वस्वाः कृतं कौतुकं कौतुकोपलक्षितविवाहोचितबद्धहस्तसूत्राद्येव सर्वस्वं याभिः ता वेदीमूलमुपागताः प्राप्ताः वह्नेरर्चिषा प्रकाशेनेव दीप्ता प्रकाशिता मम कन्याः सन्तीति शेषः ॥ १।७३।१५ ॥

सद्य इति । सद्यो ऽस्मिन् काले अस्यां वेद्यां प्रतिष्ठितः स्थितः त्वत्प्रतीक्षः त्वत्कर्मकप्रतीक्षावानहमस्मि अतः अविघ्नं यथा भवति तथा सर्वं विवाहसम्बन्धि कर्म क्रियतामेव किमर्थं विलम्ब्यते भवद्भिरिति शेषः । हिशब्द एवार्थे ॥ १।७३।१६ ॥

तदिति । तदा जनकोक्त्युत्तरकाले जनकेनोक्तं तद्वाक्यं दशरथः श्रुत्वा दूतमुखादवगत्य सर्वान् सुतान् ऋषिगणानपि प्रवेशयामास जनकगृहे इति शेषः ॥ १।७३।१७ ॥

तत इति । ततः दशरथागमनानन्तरं विदेहानां राजा जनकः वशिष्ठमिदमब्रवीत् । अर्धं पृथक् । तद्वाक्यमेवाह कारयस्वेति । हे ऋषे हे धार्मिक हे प्रभो लोकरामस्य रामस्य वैवाहिकीं सर्वां क्रियामृषिभिः सह त्वं कारयस्व ॥ १।७३।१८ ॥

तथेति । भगवान् ऋषिर्महातपा वशिष्ठः जनकं तथा इत्युक्त्वा धार्मिकं विश्वामित्रं शतानन्दं च पुरस्कृत्य प्रपामध्ये प्रपासदृशशैत्यादिविशिष्टमण्डपं तन्मध्ये एव विधिवत् वेदीं कृत्वा समन्ततः चतुर्दिक्षु गन्धपुष्पैः सुवर्णपालिकाभिश्च साङ्कुरैः छिद्रकुम्भैः करकैश्च अङ्कुराढ्यैः अङ्कुरपूर्णैः शरावैश्च सधूपकैर्धूपपात्रैश्च शङ्खपात्रै शङ्खान्येव पात्राणि तैश्च स्रुवैः आज्यहवनसाधनभूतपात्रविशेषैश्च स्रुग्भिः तत्पात्रविशेषैश्च अर्घ्याभिपूरितैः अर्घजलपूर्णैः लाजपूर्णैः पात्रैश्च पात्रीभिस्तत्रा पयुक्ताल्पपात्रैश्च संस्कृतैर्दध्यादिकृतसंस्कारविशिष्टैरक्षतैरपि तां वेदीमलञ्चकार । श्लोकचतुष्टयमेकान्वयि ॥ १।७३।१९२२ ॥

दर्भैरिति । समैर्न्यूनाधिकरहितैः शास्त्रोक्तपरिमाणविशिष्टैरित्यर्थः । दर्भैः विधिवन्मन्त्रपूर्वकमेव समास्तीर्य वेद्यां विधिमन्त्रपुरस्कृतं यथा स्यात्तथा अग्निमाधाय महातेजा ऋषिसत्तमो वशिष्ठः अग्नौ जुहाव । तुशब्द एवार्थे ॥ १।७३।२३,२४ ॥

तत इति । तदा हवनानन्तरकाले सर्वाभरणभूषितां सीतां समानीय राघवाभिमुखे रामसम्मुखे अग्नेः समक्षं संस्थाप्य ततः वैवाहिककर्मविस्तारकारयिता राजा जनकः कौशल्यानन्दवर्धनं राममब्रवीत् ॥ १।७३।२५ ॥

तद्वचनमेवाह इयमिति । मम सुता इयं सीता तव सहधर्मचरी सहैव धर्मं चरति सा स्यादिति शेषः । अतः एनां प्रतीच्छ स्वकीयात्वेन स्वीकुरु । स्वीकारप्रकारमाह पाणिना स्वकरेण पाणिमस्याः करं गृह्णीष्व ते भद्रम् । चो हेतौ ॥ १।७३।२६ ॥

पतिव्रतेति । पतिव्रता महाभागा तव छाया इवानुगता सदा भविष्यतीति शेषः । राजा जनकः तदा तस्मिन्काले इत्युक्त्वा मन्त्रपूतं कन्यादानमन्त्रेण पूततां प्राप्तं जलं प्राक्षिपद्रामकरे दत्तवान् ॥ १।७३।२७ ॥

साध्विति । तदा जनककृतकन्यादानोत्तरकाले साधु साधु इति वदतां देवानामृषीणां च देवदुन्दुभिनिर्घोषैः देवसम्बन्धिदुन्दुभिनिःस्वनैः सह महान् पुष्पवर्षो ऽभूत् ॥ १।७३।२८ ॥

एवमिति । मन्त्रोदकपुरस्कृतां दानकालोचितमन्त्रयुक्तोदकेन पुरस्कृतां तां सीतां सुतामेवमुक्तप्रकारेण दत्त्वा हर्षेण अभिपरिप्लुतः व्याप्तः राजा जनकः अब्रवीत् ॥ १।७३।२९ ॥

तद्वचनमेवाह लक्ष्मणेति । हे लक्ष्मण त्वमागच्छ ते भद्रं मया मत्प्रेरणया उद्यतां भवन्तं स्वीकर्तुमुद्युक्तामूर्मिलां प्रतीच्छ स्वकीयात्वेन स्वीकुरु अत एव प्राणिं गृह्णीष्व स्वीकारसूचकपाणिग्रहणं कुरु कालस्य पर्ययः विरूम्बो मा भूत् ॥ १।७३।३० ॥

तमिति । तं लक्ष्मणमेवमुक्त्वा जनकः भरतमप्यभ्यभाषत । तद्भाषणमेवाह हे रघुनन्दन माण्डव्याः पाणिं पाणिना स्वहस्तेन गृहाण । चो ऽप्यर्थे ॥ १।७३।३१ ॥

शत्रुघ्नमिति । धर्मात्मा मिथिलेश्वरो जनकः शत्रुघ्नमप्यब्रवीत् । तद्वचनमेवाह हे महाबाहो श्रुतकीर्त्याः पाणिं पाणिना त्वमपि गृह्णीष्व । चो ऽप्यर्थे ॥ १।७३।३२ ॥

उपसंहरन्नाह सर्व इति । हे काकुत्स्थाः यतः सर्वे भवन्तः सौम्याः सर्वे सुचरितव्रताश्च ततः पत्नीभिः सहिताः सन्तु कालस्य पर्ययो मा भूत् ॥ १।७३।३३ ॥

जनकस्येति । जनकस्य वचो वचनं श्रुत्वा पाणीन् स्वस्वपत्नीकरान् पाणिभिः स्वस्वकरैः अस्पृशन् लक्ष्मणादय इति शेषः । ततः पाणिस्पर्शानन्तरं सहभार्याः भार्यासहिताः महात्मानः रघत्तमाः यथोक्तेन विधिना अग्निं वेदीं च राजानं च ऋषींश्च प्रदक्षिणं कृत्वा विधिपूर्वकं विवाहमवशिष्टविवाहक्रियां चक्रुः । श्लोकद्वयमेकान्वयि ॥ १।७३।३४ ॥

पुष्येति । दिव्यदुन्दुभिनिर्घोषादिभिः सह सुभास्वरा महती पुष्पवृष्टिः अन्तरिक्षादासीत् ॥ १।७३।३५ ॥

ननृतुरिति । रघुमुख्यानां विवाहे अप्सरःसङ्घाः ननृतुः गन्धर्वाश्च कलं मनोहरं जगुः । तत्पुष्पवृष्ट्यादि सर्वमद्भुतं विलक्षणमेवाभवत् । इवशब्द एवार्थे ॥ १।७३।३६ ॥

विवाहविधिमुपसंहरन्नाह ईदृश इति । तूर्योर्द्घृष्टनिनादिते तूर्योद्घुष्टं तूर्यशब्दः निनादितं तत्प्रतिध्वनिश्च तयोः समाहारः तस्मिन् ईदृशे वर्तमाने सत्येव अग्निं त्रिः परिक्रम्य महौजसः ते रामादयः भार्याः स्वस्वनित्यपत्नीः ऊहुः स्वस्ववामभागं निन्युः । तुशब्द एवार्थे ॥ १।७३।३७ ॥

अथेति । सभार्याः ते रघुनन्दनाः उपकार्यां पटरचितगृहमथ जग्मुः मङ्गलगमनं चक्रुः, सर्षिसङ्घः सबान्धवो राजा दशरथो़ ऽपि पश्यन् सदारपुत्रान् अवलोकमानः अनुययौ ॥ १।७३।३८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रिसप्ततितमः सर्गः ॥ १।७३ ॥