जनकर्कृकवृत्तकथनानन्तरकालिकं वृत्तमाह तमिति । वशिष्ठसहितो महामुनिर्विश्वामित्रः उक्तवन्तं कथितवाक्यं वीरं वैदेहं तं नृपं वचनमुवाच ॥ १।७२।१ ॥
तद्वचनमेवाह अचिन्त्यानिति । हे नरपुङ्गव इक्ष्वाकूणां विदेहानां च कुलानि अचिन्त्यानि अतिशुद्धत्वेन विवाहार्थं सन्देहानर्हाणि अप्रमेयाणि इयत्तारहितप्रभावविशिष्टानि च अतः एषां वंशद्वयोद्भवानां तुल्यः अन्यः कश्चन नास्ति एषामेव परस्परं सादृश्यमिति तात्पर्यम् तेनावश्यमयं विवाहः कर्तव्य इति व्यञ्जितम् ॥ १।७२।२ ॥
वंशयोः सादृश्यमुक्त्वा कन्यावरयोः सादृश्यं बोधयन्नाह सदृश इति । हे राजन् या सीतास्ति तया ऊर्मिलया च रूपसम्पदा रूपेण सम्पदा च सदृशस्तुल्ययोः रामलक्ष्मणयोः धर्मसम्बन्धो धर्महेतुको विवाहः सदृशः वंशद्वयविवाहानुरूपः अत एव ह हर्षावहः ॥ १।७२।३ ॥
वक्तव्यमिति । हे नरश्रेष्ठ जनक वक्तव्यं वचनार्हं मम वचनं त्वया श्रूयताम् । किन्तद्वचनमित्यत आह हे राजन् धर्मज्ञ एष राजा कुशध्वजो यतो यवीयान् कनिष्ठस्ते भ्राता अतो हे नरश्रेष्ठ भुवि रूपेण अप्रतिममसृशं धर्मात्मनो ऽस्य कुशध्वजस्य सुताद्वयं पत्न्यर्थं वरयामहे ॥ १।७२।४,५ ॥
कस्य पत्न्यर्थमित्यत आह भरतस्येति । हे राजन् तयोः प्रसिद्धयोर्महात्मनोः धीमतः कुमारस्य भरतस्य शत्रुघ्नस्य च अर्थे ते सुते वरये ॥ १।७२।६ ॥
चतुर्णामपि विवाहयोग्यतेत्याह पुत्रा इति । रूपयौवनशालिनः लोकपालसमाः देवाः ब्रह्मादयः तुल्यपराक्रमा येषामत एव लोकपालाः ब्रह्मादयः समा येषां ते सर्वे एते दशरथस्य पुत्राः सन्तीति शेषः । एतेनैष्वेव भवत्सुताविवाहयोग्यतेति परिसङ्ख्यासङ्कारो ध्वनितः ॥ ७२।७,८ ॥
विश्वामित्रेति । तदा विश्वामित्रोक्तिकाले वसिष्ठस्य मते विद्यमानं त्रिश्वामित्रवचो वचनं श्रुत्वा प्राञ्जलिर्जनको मुनिपुङ्गवौ वसिष्ठविश्वामित्रौ वाक्यमुवाच ॥ १।७२।९ ॥
तद्वाक्यमेवाह कुलमिति । यद्यस्मात् येषां नो ऽस्माकं कुलसम्बन्धं सदृशमिक्ष्वाकुवंशानुरूपं मुनिपुङ्गवौ युवां स्वयमाज्ञापयतस्तस्मात् तेषां नः इदं कुलं धन्यं मन्ये ॥ १।७२।१० ॥
एवमिति । इमे कुशध्वजसुते पत्न्यौ सहितौ नित्यसाहित्यविशिष्टौ उमौ शत्रुघ्नभरतौ भजेताम् एवं वो मद्रं भवतु ॥ १।७२।११ ॥
एकेति । हे महामुने चतसृ़णां राजपुत्रीणाम् पाणीन् महाबलाः चत्वारो राजपुत्राः एकाह्ना एकस्मिन्नेव दिने इत्यर्थः गृह्णन्तु । समासान्तविधेरनित्यत्वाट्टजनभावः न तिस्रितिनिषेधाप्रवृतिस्त्वत एव ज्ञापकात् ॥ १।७२।१२ ॥
वैवाहिकदिवसनियममाह उत्तरे इति । हे ब्रह्मन् यत्र ययोः भगः प्रजापतिरर्यमा च स्थितः ताभ्यां फल्गुनीभ्यां पूर्वफल्गुन्युत्तरफल्गुनीभ्यां विशिष्टयोर्दिवसयोरुत्तरे उत्तरफल्गुनीविशिष्टे दिवसे वैवाहिकं विवाहं मनीषिणो ज्योतिःशास्त्राभिज्ञाः प्रशंसन्ति । विनापि चं समुच्चयः । विशिष्टयोर्दिवसयोरित्यध्याहृतम् ॥ १।७२।१३ ॥
एवमिति । एवं सौम्यं वच उक्त्वा कृताञ्जलिः राजा जनकः प्रत्युत्थाय उभौ मुनिवरौ वाक्यमब्रवीत् ॥ १।७२।१४ ॥
तद्वाक्यमेवाह पर इति । मह्यं परः अत्युत्कृष्टः धर्मः रामादिविवाहरूपः कृतः सम्पादित उपदिष्ट इत्यर्थः । अतः सदा इतःप्रभृति सर्वस्मिन् काले भवतोः शिष्यो ऽस्मि अत इमानि मत्समर्पितानि आसनमुख्यानि गुरूचितासनानि मुनिपुङ्गवौ युवाम् आस्येताम् । गुरुत्वादासनयोर्बहुत्वम् आसनबाहुल्याद्वा । ऽआस्यताम्ऽ इति भट्टसम्मतः पाठः । एकत्वमार्षमिति तैरुक्तम् ॥ १।७२।१५ ॥
यथेति । यथा दशरथस्य पुरी अयोध्या तथा दशरथस्य पुरी ममेयं मिथिला अतः प्रभुत्वे पुरीद्वयनिरूपितदशरथस्वामित्वे सन्देहः संशयो नास्ति अतः यथार्हं यथायोग्यं कर्तुमर्हथ यूयमिति शेषः पूजार्थं बहुवचनम् ॥ १।७२।१६ ॥
तथेति । वैदेहे जनके तथा ब्रुवति सति हृष्टो रघुनन्दनो राजा दशरथः महीपतिं जनकं प्रत्युवाच ॥ १।७२।१७ ॥
तत्प्रतिवचनमेवाह युवामिति । हे मिथिलेश्वरौ युवां भ्रातरौ असङ्ख्येयगुणौ अत एव ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिता अतिसत्कृतिं प्राप्ताः ॥ १।७२।१८ ॥
स्वस्तीति । त्वं स्वस्ति प्राप्नुहि स्वसुतादानेन मङ्गलं प्रापय अन्तर्भावितणिजर्थः । ते भद्रम् स्वमालयं निवासस्थानं गमिष्यामि । स्वालयगमने प्रयोजनमाह श्राद्धकर्माणि विधिवदेव विधास्ये इत्यब्रवीत् दशरथ इति शेषः । चशब्द एवार्थे किञ्च त्वं स्वस्ति प्राप्नुहि अहं ते दत्तं स्वमालयं गमिष्यामि ॥ १।७२।१९ ॥
तमिति । तदा तस्मिन् समये महायशाः राजा दशरथः तं नरपतिं जनकमापृष्ट्वा आपृच्छय तौ मुनीन्द्रौ वशिष्ठविश्वामित्रौ पुरस्कृत्य आशु जगाम ल्यबभाव आर्षः ॥ १।७२।२० ॥
स इति । स राजा दशरथः निलयं गत्वा विधानतः श्राद्धं कृत्वा प्रभाते उत्थाय काल्यं प्रातःकालकर्तव्यमुत्तमं गोदानाभिधं कर्म चक्रे ॥ १।७२।२१ ॥
तत्कर्माङ्गीभूतं गोदानं वदन्नाह गवामिति । राजा पुत्रात्यनुरागविशिष्टो नराधिपो दशरथः एकैकशः पुत्रानुद्दिश्य ब्राह्मणेभ्यो धर्मतः गवां शतसहस्राणि ददौ । एकैकश इत्यत्र उक्तार्थानामितिन्यायाप्रवृत्तिस्तु द्वौ ब्राह्मणावित्यादाविव द्विर्बद्धं सुबद्धं भवतीति स्वीकारात् आर्ष इत्युक्तिस्तु तदविचारमूलका ॥ १।७२।२२ ॥
गोदानप्रकारं वदन्नाह सुवर्णेति । पुत्रवत्सलः पुरुषर्षभो रघुनन्दनो दशरथः सुवर्णशृङ्गाः सम्पन्नाः सवत्साः वत्ससहिताः कांस्यदोहनाः या गावः तासां गवां चत्वारि शतसहस्राणि ददौ पुत्राणां गोदानमुद्दिश्य सुबहु वित्तमन्यच्च द्विजेभ्यो ददौ । द्वयोरेकत्रान्वयः ॥ १।७२।२३,२४ ॥
स इति । तदा गोदानोत्तरकाले कृतगोदानैः सुतैर्वृतः सन् स नृपतिः लोकपालैर्वृतः सौम्यः सोमः प्रजापतिरिवाभाति । सौम्यशब्दः स्वार्थष्यञन्तः ॥ १।७२।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्विसप्ततितमः सर्गः ॥ १।७२ ॥