०७१ जनककुलवर्णनम्

एवमिति । कृताञ्जलिः प्रणयसूचकबद्धयुगलकरः जनकः एवं ब्रुवाणं वशिष्ठं प्रत्युवाच । तद्वचनमेवाह हे मुनिश्रेष्ठ परिकीर्तितं कथ्यमानं नः अस्माकं कुलं त्वं श्रोतुमर्हसि ते भद्रम् ॥ १।७१।१ ॥

तत्र हेतुं वदन्नाह प्रदान इति । हे मुनिश्रेष्ठ हे महामते प्रदाने कन्याप्रदानसमये कुलजातेन सत्कुलोद्भवेन पुंसा कुलं निरबशेष्ात एव वक्तव्यं तत्तस्माद्धेतोः निबोध उद्यमानमस्मत्कुलं शृणु हिरेवार्थे ॥ १।७१।२ ॥

राजेति । स्वेन कर्मणा त्रिषु लोकेषु विश्रुतः परमधर्मात्मा सर्वसत्त्ववतां वरः श्रेष्ठः निमिः राजा अभूत् ॥ १।७१।३ ॥

तस्येति । तस्य निमेः पुत्रः मिथिर्नामाभूत् । प्रथमः अस्मत्पूर्वजः जनकः अस्मासु जनकशब्दव्यवहारप्रयोजकः मिथिपुत्रकः राजा जनको ऽभूत् । प्रशंसायां कन् । जनकादपि उदावसुः अभूत् ॥ १।७१।४ ॥

उदावसोरिति । उदावसोस्तु धर्मात्मा नन्दिवर्धनो जातः । नन्दिवर्धनसुतः नन्दिवर्धनपुत्रस्तु शूरः सुकेतुर्नाम जातः नामतः प्रसिद्धमेतत् । वैशब्दस्त्वर्थे ॥ १।७१।५ ॥

सुकेतोरिति । सुकेतोरपि धर्मात्मा महाबलो देवरातो जातः । राजर्षेर्देवरातस्य तु बृहद्रथः स्मृतः । इतिस्त्वर्थे ॥ १।७१।६ ॥

बृहद्रथस्येति । शूरः प्रतापवान् महावीरः महावीरनामा बृहद्रथस्य पुत्रो ऽभूत् । धृतिमान् सत्यविक्रमः महावीरस्य पुत्रः सुधृतिः सुधृतिनामाभूत् ॥ १।७१।७ ॥

सुधृतेरिति । धर्मात्मा धर्मबुद्धिः अत एव सुधार्मिकः सुधृतेरपि पुत्रः धृष्टकेतुः राजर्षेर्धृष्टकेतोस्तु पुत्रः हर्यश्व इति विश्रुत ॥ १।७१।८ ॥

हर्यश्वस्येति । श्रुतो विख्यातः हर्यश्वस्य पुत्रो मरुरभूत् । मरोः पुत्रः प्रतीन्धकः धर्मात्मा प्रतीन्धकस्य सुतः राजा कीर्तिरथः श्रुतः ॥ १।७१।९ ॥

पुत्र इति । कीर्तिरथस्यापि पुत्रः देवमीढ इति स्मृतः देवमीढस्य विबुधः स्मृतः विबुधस्य पुत्रः महीध्रकः स्मृतः ॥ १।७१।१० ॥

महीध्रकेति । महाबलः राजा महीध्रकसुतः कीर्तिरातो व्यजायत । राजर्षेः कीर्तिरातस्य पुत्रो महारोमा व्यजायत ॥ १।७१।११ ॥

महारोम्ण इति । महारोम्णस्तु स्वर्णरोमाव्यजायत । राजर्षेः स्वर्णरोम्णस्तु ह्रस्वरोमा व्यजायत ॥ १।७१।१२ ॥

तस्येति । धर्मज्ञस्य महात्मनस्तस्य ह्रस्वरोम्णो राज्ञः पुत्रद्वयं जातं ज्येष्ठः तत्र पूर्वजो ऽहं वीरः कुशध्वजो ममानुजो भ्राता ॥ १।७१।१३ ॥

मामिति । नराधिपः पिता स ह्रस्वरोमा ज्येष्ठं मां राज्ये ऽभिषिच्य भारं राज्यपालनादि कुशध्वजं च मयि समावेश्य वनं गतः । तुश्चार्थे ॥ १।७१।१४ ॥

वृद्ध इति । वृद्धे पितरि स्वर्याते प्राप्ते सति देवसङ्काशं भ्रातरं कुशध्वजं स्नेहात्पश्यन् सन् धर्मेण धुरं राज्यभारमहमावहम् ॥ १।७१।१५ ॥

कस्येति । अथ अनन्तरं कस्यचित्कालस्यापगमे सति वीर्यवान् राजा सुधन्वा साङ्काश्यात् साङ्काश्याभिधात् पुरात्स्वनगरात् अवरोधकः सन्नेव मिथिलामगमत् । तुशब्द एवार्थे ॥ १।७१।१६ ॥

स इति । स मत्पुरावरोधक एव सुधन्वा अनुत्तमं शैवं धनुः पद्माक्षी सीता कन्या च मह्यमेव दीयतामिति वचनं प्रेषयामास दूतद्वारा कथयामासेत्यर्थः । चवैशब्दावेवार्थौ ॥ १।७१।१७ ॥

तस्येति । हे भगवन् तस्य याचितपदार्थद्वयस्य अप्रदानान्मया सह युद्धमासीत्सुधन्वन इति शेषः । विमुखः पराजितः स राजा सुधन्वा मयैव रणे हतः । तु शब्दएवार्थे ॥ १।७१।१८ ॥

निहत्येति । हे मुनिरेष्ठ नराधिपं तं सुधन्वानं निहत्य साङ्काश्ये सुधन्वनगरे शूरं भ्रातरं कुशध्वजमहमभ्यषिञ्चम् ॥ १।७१।१९ ॥

हे महामुने एष कुशध्वजः कनीयान् मे भ्राता अहं ज्येष्ठः । प्रासङ्गिकं समाप्य प्रकृतमाह ददामीति । हे मुनिपुङ्गव परमप्रीतः स्वेप्सितप्राप्त्यातिप्रमोदविशिष्टो ऽहं ते तुभ्यं वध्वौ स्नुषे ददामि तव समीपे वध्वौ सुते इति वा ॥ १।७१।२० ॥

दानकर्मीभूते विभजन्नाह सीतामिति । सीतां रामाय ददामि ऊर्मिलां तु लक्ष्मणाय ददामि ते भद्रम् । वैत्वर्थे । अर्धं पृथक् भङ्ग्यन्तरेण पुनस्तदेव राजानं प्रत्याह वीर्यशुल्कामिति । रघुनन्दन हे दशरथ वीर्यशुल्कां सुरसुतोपमां मम सुतां सीतां द्वितीयामूर्मिलां च परमप्रीतो ऽहं त्रिर्ददामि अत्र संशयो नैव यतः परमप्रीतो ऽहं ददामि अतस्ते वध्वौ । एवशब्दो हेत्वर्थे । सार्धश्लोक एकान्वयी ॥ १।७१।२१,२२ ॥

विवाहोचितक्रियाप्रवृत्त्यै रजानं प्रार्थयन्नाह रामेति । हे राजन् रामलक्ष्मयोर्गोदानं तदुपलक्षितसमावर्तनोचितं कर्म कारयस्व ततो ऽनन्तरं वैवाहिकं विवाहोचितं पितृकार्यं च कुरु । ह अतीव हर्षः ॥ १।७१।२३ ॥

विवाहोचितमुहूर्तं बोधयन्नाह मघेति । हे महाबाहो हे राजन् अद्यास्मिन् समये मघानक्षत्रमस्ति अततृतीयदिवसे तस्मिन् विवाहोचिते उत्तरे फल्गुन्यामुत्तराफल्गुनीनक्षत्रे वैवाहिकं विवाहं कुरु विनयादित्वात् स्वार्थे ठक् । अत्र ऽभगो यत्र प्रजापतिःऽ इति वक्ष्यमाणानुरोधेन फल्गुन्यां पूर्वफल्गुनीनक्षत्रे उत्तरे श्रेष्ठे इत्यर्थो भट्टैर्व्याख्यातः तस्यात्र त्यागस्तु पूर्वफल्गुन्याः वैवाहिकत्वाभावात् ऽभगो यत्र प्रजापतिःऽ इत्यनेन यथा न विरोधस्तथा तत्रैव वक्ष्यामः अत्र राजकर्तृकवंशकथनात् हर्षातिशयः सूचितः ॥ १।७१।२४ ॥

रामेति । रामलक्ष्मणयोरर्थे सुखोदयं दानं कार्यम् ॥ १।७१।२५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकसप्ततितमः सर्गः ॥ १।७१ ॥