रात्रिव्यतीतानन्तरकालिकं वृत्तमाह तत इति । ततः तद्रात्रिव्यतीतानन्तरं प्रभाते प्रातःकाले महर्षिभिः कृतकर्मा वाक्यज्ञो जनकः पुरोहितं शतानन्दं वाक्यमुवाच ॥ १।७०।१ ॥
तद्वचनमेवाह भ्रातेति । महातेजाः अतितेजस्वी वीर्यवान् अतिपराक्रमः अतिधार्मिकः कुशध्वज इति ख्यातः मम भ्राता इक्षुमतीं नदीं तज्जलं पिबन् सन् शुभां मङ्गलस्वरूपां वार्याफलकपर्यन्तां वार्यः शत्र्वागमवारणयोग्यः दृढप्राकारः तत्र युक्ताः ये आफलकाः पयन्त्रविशेषाः तैर्युक्तः पर्यन्तः तटो यस्यास्तां पुण्यसङ्काशां पुण्यानां पुण्यजनककर्मणां सङ्काशः प्रकाशो यस्यां पुष्पकं विमानमिव विपुलस्थलीकामित्यर्थः । साङ्काश्यां साङ्काश्याभिधां पुरीमध्यवसत् । द्वयोरेकत्रान्वयः ॥ १।७०।२,३ ॥
तमिति । तं कुशध्वजमहं द्रष्टुमिच्छामि यतो मे यज्ञगोप्ता एतद्यागसामग्रीसम्पादकत्वादिनैतद्यागस्य रक्षकः महातेजाः कुशध्वजो मतो ऽभिमतः अतः सो ऽपि मया सह इमां प्रत्यक्षीभूतां प्रीतिं सीतारामविवाहजनितानन्दं भोक्ता अनुभविता ॥ १।७०।४ ॥
एवमिति । शतानन्दस्य सन्निधौ एवमनेन प्रकारेण वचने वाक्ये उक्ते जनकेन कथिते सत्येव अव्यग्राः कार्यसाधने व्यग्रतारहिताः केचित् प्रेषणोचितपुरुषाः आगताः तान् जनकः समादिशत् कुशध्वजानयनार्थमाज्ञापयत् । तुशब्द एवार्थे ॥ १।७०।५ ॥
शासनादिति । नरेन्द्रस्य जनकस्य शासनात् एव नरव्याघ्रं कुशध्वजमानेतुं शीघ्रवाजिभिः झटितिगमनशीलाश्वैः प्रययुः तत्र दृष्टान्तः विष्णुमुपेन्द्रमानेन्तुमिन्द्राज्ञया यथा तत्पुरुषा इति शेषः । तुशब्द एवार्थे ॥ १।७०।६ ॥
साङ्काश्यामिति । ते जनकप्रेषिताः पुरुषाः साङ्काश्यां सङ्काश्यनिर्मितनगरीं समागम्य सम्प्राप्य कुशध्वजं ददृशुः वृत्तं जनकोक्तवृतान्तं जनकस्य चिन्तितं च यथावन्न्यवेदयंश्च ॥ १।७०।७ ॥
तदिति । महाबलैर्दूतश्रैष्ठैर्वर्णितं तद्वृत्तं श्रुत्वैव नृपतिः कुशध्वजः नरेन्द्रस्य जनकस्याज्ञया दूतोक्ताज्ञापनेन जगाम मिथिलामिति शेषः । तुशब्द एवार्थे ॥ १।७०।८ ॥
स इति । महात्मानं शतानन्दं धर्मवत्सलं जनकं च स कुशध्वजो ददर्श स कुशध्वजः शतानन्दं धार्मिकं राजानं जनकं चाभिवाद्य प्रणम्य राजार्हं राजोचितं परममुत्कृष्टं दिव्यमासनमध्यरोहत तयोराज्ञया तत्रोपाविशदित्यर्थः । अपिश्चार्थे ॥ १।७०।९ ॥
उपेति । अमितौजसौ वीरौ उपविष्टौ तावुभौ भ्रातरौ सुदामनं सुदामनाख्यं मन्त्रिश्रेष्ठं प्रेषयामासतुः । प्रेषणप्रकारमाह गच्छेति । हे मन्त्रिपते अमितप्रभमिक्ष्वाकुं त्वं शीघ्रमेव गच्छ समन्त्रिणं मन्त्रिसहितं दुर्धर्षं दशरथमात्मजैः सहानयस्व । श्लोकद्वयमेकान्वयि । तुशब्द एवार्थे ॥ १।७०।१०,११ ॥
औपकार्यामिति । अथ तदाज्ञापनवचनश्रवणानन्तरं स सुदामनः औपकार्यां महाराजाधिराजदशरथशिबिरसन्निवेशं गत्वा रघूणां कुलवर्धनं दशरथं ददर्श एनं दशरथं शिरसा अभिवाद्य इदं वचनमब्रवीच्च । औपकार्याशब्दः स्वार्थष्यञन्तः ॥ १।७०।१२ ॥
तद्वचनमेवाह अयोध्येति । हे अयोध्याधिपते हे वीर सः भवत्सबन्धी मिथिलाधिपो वैदेहः सोपाध्यायपुरोहितं त्वां द्रष्टुं व्यवसितः कृतनिश्चयो ऽस्तीति शेषः ॥ १।७०।१३ ॥
मन्त्रीति । सर्षिगणः सबन्धुः राजा मन्त्रिश्रेष्ठवचः श्रुत्वैव यत्र जनको वर्तते तत्रागमत् । तथाशब्द एवार्थे ॥ १।७०।१४ ॥
स इति । मन्त्रिसहितः सोपाध्यायः सबान्धवो वाक्यविदां श्रेष्ठो राजा दशरथः वैदेहं जनकमिदं वाक्यमब्रवीत् ॥ १।७०।१५ ॥
तद्वाक्यमेवाह विदितमिति । हे महाराज जनक इक्ष्वाकुकुलदैवतमिक्ष्वाकुकुलदेवः समर्थः ऋषिः सर्वज्ञो वशिष्ठः सर्वेषु कृत्येषु वक्तास्तीति ते विदितम् ॥ १।७०।१६ ॥
ततः किमित्यत आह विश्वामित्रेति । विश्वामित्राभ्यनुज्ञातः सर्वैर्महर्षिभिः सह विद्यमान इति शेषः । धर्मात्मा एष वशिष्ठः मे वंशं यथाक्रमं क्रममनतिक्रम्य वक्ष्यति वंशमिति शेषः । विश्वामित्राभ्यनुज्ञात इत्यनेन तयोरतिमैत्रीति सूचितम् ॥ १।७०।१७ ॥
तूष्णीमिति । दशरथे तूष्णीम्भूते सति वाक्यज्ञो भगवानृषिर्वशिष्ठः सपुरोहितं वैदेहं वाक्यमुवाच ॥ १।७०।१८ ॥
तद्वाक्यमेवाह अव्यक्तेत्यादि यावत्सर्गसमाप्ति । अव्यक्तप्रभवः न व्यक्तः कैश्चिद् ज्ञातः प्रभवो जन्मकारणीभूतमात्रादिर्यस्य स स्वयम्भूरित्यर्थः । किञ्च आद्वासुदेवाद्व्यक्तं प्राकट्यं यस्य तदव्यक्तं कमलं तस्मात्प्रभवः प्राकट्यं यस्य अयोनिज इत्यर्थः । किञ्च अव्यक्तं प्रधानं प्रभवति प्रकटितगुणवत्त्वेन प्रकटयति स प्रधानगुणक्षोभहेतुरित्यर्थः । किञ्च अव्यक्तं परमात्मतनुप्रकाशभूतं परं ब्रह्म तस्मात् प्रभवो यस्य सः प्रजासर्जनार्थं गृहीतरजोगुणकं परमात्मप्रकाशभूतं परब्रह्मैवेत्यर्थः । अत एव शाश्वतः स्वतः सिद्धः अत एव नित्यः ध्वंसाप्रतियोगी अत एवाव्ययः परिणामरहितः यो ब्रह्मा तस्मान्मरीचिः मरीच्यभिधप्रजापतिः सञ्जज्ञे । मरीचेः कश्यपः सुतः सञ्जज्ञे । ऽअव्यक्तं शङ्करे विष्णावव्यक्तं महदादिषु । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवत्ऽ इति कोशः ॥ १।७०।१९ ॥
विवस्वानिति । कश्यपात् विवस्वान् जज्ञे वैवस्वतः विवस्वतः सुतो मुनः स्मृतः कथितः मनुः पूर्वं प्रजापतिरभवदिति शेषः । मनोः सुतस्तु इक्ष्वाकुरभवत् ॥ १।७०।२० ॥
तमिति । तमिक्ष्वाकुमयोध्यायां पूर्वकं पौर्वकालिकं प्रथममित्यर्थः । राजानं त्वं विद्धि जानीहि । इक्ष्वाकोस्तु कुक्षिरित्येव विश्रुतः श्रीमान् सुतः आसीत् ॥ १।७०।२१ ॥
कुक्षेरिति । अथ अनन्तरं विकुक्षिरितिविश्रुतः श्रीमान् कुक्षेरात्मज आसीत् । विकुक्षेस्तु महातेजाः प्रतापवान् बाणः पुत्र आसीत् ॥ १।७०।२२ ॥
बाणस्येति । बाणस्य तु महातेजाः प्रतापवान् अनरण्यो यज्ञे । अनरण्यात्तु पृथुर्जज्ञ । पृथोस्तु त्रिशङ्कुर्जज्ञे । अपिस्त्वर्थे ॥ १।७०।२३ ॥
त्रिशङ्कोरिति । महायशा धुन्धुमारः त्रिशङ्कोः पुत्रो ऽभवत् । महातेजाः महारथो युवनाश्वो
धुन्धुमारादभवत् ॥ १।७०।२४ ॥
युवनाश्वेति । पृथिवीपतिर्मांधाता तु युवनाश्वसुत आसीत् । श्रीमान् सुसन्धिस्तु मान्धातुः सुत उदपद्यत अभवत् ॥ १।७०।२५ ॥
सुसन्धेरिति । सुसन्धेस्तु द्वौ पुत्रौ जातौ । तावेवाह ध्रुवसन्धिरेकः प्रसेनजिद् द्वितीयः । ध्रुवसन्धेस्तु यशस्वी प्रशस्तयशोविशिष्टः भरतो नाम आसीत् नामतः प्रसिद्धमेतत् । अपिस्त्वर्थे ॥ १।७०।२६ ॥
भरतादिति । भरतात्तु महातेजाः असितः नाम जायत अजायत । आगमशास्त्रस्यानित्यत्वादड्विरहः । यस्य असितस्य शत्रवः शातनकर्तारः एते हैहयादिशशबिन्द्वन्ताः प्रतिराजानः प्रतिपक्षभूता नृपतयः उदपद्यन्त तान् हैहयादीनेव युधि सङ्ग्रामे प्रतियुद्ध्यन् सः असितः राजा प्रवासितः राज्यान्निःसारित एव आसीदिति शेषः । तुहिशब्दावेवार्थौ द्वयोरेकत्रान्वयः ॥ १।७०।२७ ॥
प्रवासनोत्तरकालिकासितवृत्तमाह हिमवन्तमित्यादिभिः । तदा प्रवासनकाले अल्पबलः अल्पसेनाविशिष्टः भार्याभ्यां सहितः राजा असितः हिमवन्तमुपागम्य प्राप्य कालधर्मं पञ्चत्वमुपेयिवान् प्राप ॥ १।७०।२८ ॥
असितवृत्तं समाप्य तत्पत्नीवृत्तमाह द्वे इत्यादिभिः । अस्य असितस्य द्वे भार्ये गर्भिण्यौ बभूवतुः इति श्रुतिः प्रसिद्धिरित्यर्थः । तयोर्मध्ये एका पत्नी गर्भविनाशार्थमेव सपत्न्यै सगरं गरसहितं भक्षणद्रव्यं ददौ । चशब्द एवार्थे ॥ १।७०।२९ ॥
तत इति । ततः सगरभक्ष्यभक्षणानन्तरमेव महाभागा परमभाग्यवती पद्मपत्राक्षी उत्तमं सुतं काङ्क्षन्ती एका भक्षितविषा सा कालिन्दी पत्नी यः आभिरतः आसमन्तात्सर्वव्यापि भं दीप्तिरस्यास्तीत्याभी रघुनाथः तत्र रतः हिमवन्तमुपाश्रितः हिमवति विद्यमान इत्यर्थः । भार्गवो भृगुवंशोद्भवश्च्यवनो नाम मुनिर्बभूव तं तत्र तस्मिन्नेव रम्ये हिमवति शैलवरे विद्यमानं देववर्चसं भार्गवमृषिमभ्युपागम्य अभ्यवादयत् प्राणमत् ॥ १।७०।३०,३१ ॥
स इति । स एव ऋषिर्विप्रः पुत्रेप्सुं तामभिवादनकर्त्रीं पुत्रजन्मनि पुत्रजन्महेतवे अभ्यवदत् अकथयत् । चशब्द एवार्थकः । श्लोकत्रयमेकान्वयि । चशब्दावेवार्थौ पाठक्रमादर्थक्रमो बलीयान् ॥ १।७०।३२ ॥
तद्वचनमेवाह तवेति । हे महाभागे सुमहाबलः अतिपराक्रमवान् महावीर्यः महाप्रतापः महातेजा अतितेजोयुक्तशरीरविशिष्टः श्रीमान् गरेण सहितः तव सुपुत्रः अचिरात् झटिति सञ्जनिष्यति अतो हे कमलेक्षणे त्वं मा शुचः गर्भध्वंसकविषभक्षणहेतुकशोकं मा कुरु विषवीर्यमेव नङ्क्ष्यतीति भावः । सार्धो ऽयं श्लोकः ॥ १।७०।३३ ॥
च्यवनवरप्रदानौत्तरकालिकं वृत्तमाह च्यवनमिति । पतिव्रता अत एव शोकातुरा राजपुत्री देवी च्यवनं नमस्कृत्यैव तस्मात् च्यवनवरप्रदानात् पुत्रं व्यजायत अजनयत् । तुशब्द एवार्थे ऽपतिना रहिताऽ इति पाठे नाभाव आर्ष इति भट्टाः ॥ १।७०।३४ ॥
स इति । गर्भजिघांसया यो गरः सपत्न्या तस्यै दत्तः तेनैव गरेण सह जातः अत एव सः सगरः सगरनामा ऽभवत् । तुशब्दो हेत्वर्थकः ॥ १।७०।३५ ॥
सगरस्येति । सगरस्यासमञ्जः पुत्रो ऽभवत् अथ अनन्तरमसमञ्जादंशुमान् अनन्तरमंशुमतो दिलीपः पुत्रः दिलीपस्य भगीरथः । तुशब्दो ऽनन्तरार्थकः ॥ १।७०।३६ ॥
भगीरथादिति । भगीरथात्ककुत्स्थः अनन्तरं ककुत्स्थात् तथा रघुः अनन्तरं रघोः पुत्रः तेजस्वी
प्रवृद्धः प्रवृद्धनामाभवत् । अनन्तरं पुरुषादकः स एव वशिष्ठशापवशात् राक्षसो ऽभवदित्यर्थः । तुशब्दश्चशब्दौ चानन्तरार्थकाः ॥ १।७०।३७ ॥
स एव कल्माषपादः कल्माषपादाभिधो ऽभवत् तत्र हेतुस्तु दत्तशापं वशिष्ठं प्रतिशप्तुमञ्जलौ जलं जग्राह अनन्तरं स्वपत्नीप्रार्थनया तज्जलं स्वपादे एव चिक्षेप तेन तस्य पादः कल्माषतां प्राप्त इति ग्रन्थान्तरादवगन्तव्यम् । अनन्तरं तस्मात्कल्माषपादात् शङ्खणो जातः । अनन्तरं शङ्खणस्य पुत्रः सुदर्शनो जातः सुदर्शनादग्निवर्णो जातः । हिचशब्दावनन्तरार्थकौ ॥ १।७०।३८ ॥
शीघ्रग इति । अग्निवर्णस्य सुतस्तु शीघ्रगः शीघ्रगस्य सुतः मरुः मरोः सुतस्तु प्रशुश्रुकः आसीत् प्रशुश्रुकादम्बरीषः आसीत् । चशब्दस्त्वर्थकः ॥ १।७०।३९ ॥
अम्बरीषस्येति । अम्बरीषस्य पुत्रः पृथिवीपतिर्नहुषो ऽभूत् । नहुषस्य तु पुत्रो ययातिः ययातिजस्तु नाभागो ऽभूत् । चश्ाब्दस्त्वर्थकः ॥ १।७०।४० ॥
नाभागादिति । नाभागात्तु अजो बभूव । अजाद्दशरथो ऽभवत् । अस्मादृशरथात् । भ्रातरौ रामलक्ष्मणौ जातौ ॥ १।७०।४१ ॥
वंशवर्णनप्रयोजनं वदन्नाह आदीति । आदयः सोमवंशापेक्षया ज्येष्ठा वंशः विशुद्धो येषां ते एव ते इति कर्मधारयः तेषां परमधर्मिणामधर्मसंसर्गशून्यानामत एव सत्यवादिनामिक्ष्वाकुकुलजातानां वीराणां राज्ञां सम्बन्धिनोः रामलक्ष्मणयोः अर्थे नृपो दशरथस्त्वत्सुते वरयेत् अतः हे नरश्रेष्ठ सदृशाभ्यां रामलक्ष्मणाभ्यां सदृशे स्वसुते दातुं त्वमर्हसि । द्वयोरेकत्रान्वयः ॥ १।७०।४२४३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्ततितमः सर्गः ॥ १।७० ॥