तत इति । ततः तस्यां रात्र्यां व्यतीतायां सत्यां सोपाध्यायः उपाध्यासहितः सबान्धवो बान्धवसहितः हृष्टो राजा दशरथः सुमन्त्रमिदमब्रवीत् ॥ १।६९।१ ॥
तद्वचनमेवाह अद्येति । नानारत्नसमन्विताः अनेकविधरत्नयुक्ताः अत एव सुविहिताः अश्ववारादिभिः सुरक्षिताः सर्वे धनाध्यक्षाः कोशाधिकारिणः पुष्कलमधिकत्वादिना श्रेष्ठं धनमद्यादाय गृहीत्वाग्रे व्रजन्तु ऽश्रेयाञ्च्छ्रेष्ठश्च पुष्कलःऽ इत्यमरसिंहः ॥ १।६९।२ ॥
चतुरङ्गेति । चतुरङ्गलं रथाद्यङ्गसहितसैन्यं सर्वशः कृत्स्नमनुत्तममतिश्रेष्ठं यानयुग्यं यानं शिबिकाप्रभृति युग्यमश्वप्रभृति च ममाज्ञासमकालमेव शीघ्रं निर्यातु अपिशब्द एवार्थे । यानयुग्यमिति सेनाङ्गत्वादेकवचनान्तम् ॥ १।६९।३ ॥
वशिष्ठ इति । वशिष्ठादय एते द्विजा अग्रे एव प्रयान्तु दूताः जनकराजमन्त्रिणः मां त्वरयन्ति अतः कालात्ययो यथा न स्यात् तथैव मे स्यन्दनं योजयस्व । श्लोकद्वयमेकान्वयि । हिशब्द एवार्थे ॥ १।६९।४,५ ॥
वचनादिति । नरेन्द्रस्य महाराजाधिराजदशरथस्य वचनादेव चतुरङ्गिणी सेना ऋषिभिः सार्धमेव व्रजन्तं राजानं पृष्ठतो ऽन्वगात् । चशब्दद्वयमेवार्थकम् ॥ १।६९।६ ॥
गत्वेति । चतुरहं चतुर्दिनपर्यन्तं मार्गं गत्वा विदेहानभ्युपेयिवान् महाराजाधिराजदशरथ इति शेषः । श्रीमान् राजा जनकः श्रुत्वा दूतादिद्वारा तदागमनमवगत्यैव पूजां सत्कृतिसामग्रीमकल्पयत् समपादयत् । चशब्द एवार्थे ॥ १।६९।७ ॥
तत इति । ततः सामग्रीसंपादनानन्तरमेव वृद्धं विलक्षणैश्वर्यवत्त्वादिना वृद्धिं प्राप्तं राजानं परमानुरागविशिष्टं दशरथं नृपं आसाद्य प्राप्य मुदितः आगमनश्रुतिजनितहर्षविशिष्टः राजा जनकः परममवधिरहितं प्रहर्षं दर्शनजनितविलक्षणानन्दं ययौ प्राप । चशब्द एवार्थे ॥ १।६९।८ ॥
उवाचेति । नरश्रेष्ठः महाराजाधिराजजनकः मुदान्वितं नरश्रेष्ठं महाराजाधिराजदशरथमुवाच । तद्वचनमेवाह हे महाराज हे राघव रघुकुलप्रादुर्भूत दिष्ट्यास्मद्भाग्यवशेन त्वं प्राप्तो ऽसि ते स्वागतमस्तु ॥ १।६९।९ ॥
पुत्रयोरिति । वीर्यनिर्जितां वीर्येण प्रादुर्भूतसमाधिकरहितपराक्रमेण निर्जितामत्युत्कर्षं प्राप्तामुभयोः पुत्रयोः प्रीतिं कान्तिं त्वं लप्स्यसे द्रक्ष्यसि दिष्ट्या अस्मद्भाग्योदयेन महातेजा भगवान् अतिसामर्थ्यविशिष्टः ऋषिः सर्वज्ञो वशिष्ठः देवैः सह शतक्रतुरिन्द्र इव सर्वैर्द्विजश्रेष्ठैः सह प्राप्तः इह समागतः । सार्धश्लोक एकान्वयी ॥ १।६९।१० ॥
दिष्ट्येति । हे नरेन्द्रेन्द्र । मे विघ्नाः कन्याविवाहप्रतिबन्धकीभूतदुष्टनृपाः दिष्ट्या निर्जिताः दिष्ट्यैव वीर्यश्रेष्ठैर्महात्मभिः राघवैर्भवद्भिःसह सम्बन्धान्मे कुलं पूजितं भविष्यतीति शेषः । अतः श्वः आगामिनि प्रभाते हे नरश्रेष्ठ यज्ञस्य यागस्यान्ते ऋषिसम्मतं विवाहं निर्वर्तयितुं संसाधयितुं त्वमर्हसि । अर्धचतुष्टयमेकान्वयि ॥ १।६९।११,१२ ॥
तस्येति । नराधिपो दशरथः तस्य जनकस्य तद्वचनमृषिमध्ये श्रुत्वा वाक्यविदां श्रेष्ठं महीपतिं जनकं वाक्यं प्रत्युवाच ॥ १।६९।१३,१४ ॥
तद्वचनमेवाह प्रतीति । प्रतिग्रहः दातृवशः एतत् मया पुरा श्रुतमतः हे धर्मज्ञ यथा त्वं वक्ष्यसि तत्तथा वयं करिष्यामहे ॥ १।६९।१५ ॥
तदिति । सत्यवादिनो दशरथस्य धर्मिष्ठं यशस्यं च तद्वचनं श्रुत्वा विदेहाधिपतिर्जनकः परं विस्मयमतितेजःप्रतापैश्वर्यादिविशिष्टस्यातिविनयोक्त्यात्याश्चर्यमागतः प्राप्तः ॥ १।६९।१६ ॥
तत इति । ततः उक्तिप्रत्युक्तिश्रवणानन्तरं परस्परसमागमे सति महता हर्षेण युक्ताः सर्वे मुनिगणास्तां निशां सुखं यथा स्यात्तथा अवसन् ॥ १।६९।१७ ॥
अथेति । अथ महाराजद्वयसमागमानन्तरं महातेजा रामः पितुः पादौ उपस्पृशन्नुपस्प्रष्टुं
विश्वामित्रं पुरस्कृत्य लक्ष्मणेन समं ययौ । “लक्षणहेत्वोः क्रिययाः” इति शतात्र ॥ १।६९।१८ ॥
राजेति । राघवौ रघुवंशभूषणौ पुत्रौ निशाम्यावलोक्यैव परिहर्षितः परितः हर्षिता
हर्षं प्रापिताः पुत्रादयो येन सः जनकेनाभिपूजितः परमप्रीतो राजा दशरथः उवाच । चशब्द एवार्थे ॥ १।६९।१९ ॥
जनक इति । महातेजास्तत्ववित् जनको ऽपि यज्ञस्य क्रियां कृत्यं सुताभ्यां दुहितृभ्यां धर्मेण सदाचारहेतुभूतेनैव कृत्वा कारयित्वैव रात्रिमुवास ह प्रसिद्धमेतत् । चावेवार्थौ ॥ १।६९।२० ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनसप्ततितमः सर्गः ॥ १।६९ ॥