०६८ दशरथागतिः

जनकेनेति । जनकेन समादिष्टाः अते निरन्तरगमनविशिष्टाधिकरणीभूते मार्गे त्रिरात्रमुषिताः क्लान्तवाहनाः ते दूताः अयोध्यां पुरीं प्राविशन् । अत इत्यत्र निरन्तरगमनार्थकाद्धातोरधिकरणे कः । अत एव ते इत्यनेन न पौनरुक्त्यम् ॥ १।६८।१ ॥

ते इति । राजवचनात् राज्ञः जनकमन्त्रिणो भवत्सन्दर्शनार्थं समागता इति स्वदूतप्रार्थितदशरथस्य वचनात् शीघ्रं तानानयेत्याज्ञातः राजवेश्म प्रवेशिताः प्रतीहारैर्महाराजाधिराजदशरथगृहं प्रापिताः ते जनकदूताः देवसङ्काशं देवसदृशं वृद्धं विलक्षणैश्वर्यवत्त्वेन परमवृद्धिं प्राप्तं दशरथं नृपं ददृशुः ॥ १।६८।२ ॥

बद्धाञ्जलीति । बद्धाञ्जलिपुटाः विगतसाध्वसाः अतिहर्षप्रापकजनकसन्देशस्य वक्तव्यत्वेन विगतभयाः सर्वे दूताः प्रश्रितं नम्रतासूचकं मधुराक्षरं मनोहराक्षरविशिष्टं वाक्यं जनकसन्देशं राजानं दशरथमब्रुवन् ॥ १।६८।३ ॥

तद्वचनमेवाह मैथिल इति । हे महाराज साग्निहोत्रपुरस्कृतः पुरस्कृतो यो ऽग्निहोत्रस्तत्सहितः एव मैथिलः मिथिलोद्भवः जनकः जनानां कं सुखं यस्मात्स प्रजासुखदातेत्यर्थः । जनकः जनकाभिधो राजा सोपाध्यायपुरोहितमुपाध्यायपुरोहितसहितं सपुरःसरं पुरःसरा भृत्यास्तत्सहितं त्वां स्नेहसंसक्तया अतिस्नेहसम्मिलितयैव गिरा अव्ययं ध्वंसरहितं कुशलं मुहुर्मुहुरेव आपृच्छते अस्मद्द्वारेति शेषः । चशब्दावेवार्थौ । श्लोकद्वयमेकान्वयि ॥ १।६८।४,५ ॥

पृष्ट्वेति । अव्यग्रः व्यग्रतारहितः वैदेहः विदेहकुलोद्भवः मिथिलाधिपो जनकः कौशिकानुमते विश्वामित्रसम्मतौ सत्यां भवन्तं कुशलं पृष्ट्वा इदं वाक्यमब्रवीत् ॥ १।६८।६ ॥

तद्वाक्यमेवाह पूर्वमित्यादिषड्भिः । ममात्मजा वीर्यशुल्का समाधिकरहितपराक्रममूल्या इति प्रतिज्ञा मत्कर्तृकनियोगः पूर्वं विदिता अत एव कृतामर्षाः निर्वीर्याः अल्पपराक्रमाः राजानो विमुखीकृताः तत्तदगम्यधनुर्ग्रहणादिनैव मत्कन्या लभ्येति मत्प्रतिज्ञया दूरीकृता इत्यर्थः । आसन्निति शेषः । चशब्द इत्यर्थे ॥ १।६८।७ ॥

सेति । हे राजन् मदनुरागोत्पादक हे राजन् अतिप्रकाशविशिष्ट विश्वामित्रपुरःसरैः विश्वामित्रः पुरःसरः अग्रगन्ता येषां तैः यदृच्छया अस्मत्प्रारब्धवशेन आगतैस्तव पुत्रकैः अत्यनुकम्पितत्वत्सुतैः सा समाधिकरहितपराक्रममूल्या इयं मम सुता निर्जिता । अत्र पुत्रकैरिति बहुवचनेन रामलक्ष्मणौ परमपूज्याविति जनकराजनिश्चयः सूचितः ॥ १।६८।८ ॥

निर्जयप्रकारमाह तदिति । हे महाबाहो महात्मना रामेण तत् अन्यग्रहणाद्यशक्यं रत्नमुत्तमं दिव्यं धनुर्महत्यां जनसंसदि जनसभायामेव मध्ये भग्नम् । हिशब्द एवार्थे ॥ १।६८।९ ॥

अस्मा इति । महात्मने अस्मै रामाय वीर्यशुल्का सीता देया अवश्यं दातुं योग्या । तत्र हेतुः प्रतिज्ञां स्वकृतनियोगमहं तर्तुमिच्छामि तसमाद्धेतोः अनुज्ञातुं त्वमर्हसि आगमशास्त्रस्यानित्यत्वादिडभावः ॥ १।६८।१० ॥

सेति । हे महाराज सोपाध्यायः उपाध्यायसहितः पुरोहितपुरस्कृतः पुरस्कृतपुरोहितस्त्वं शीघ्रं राघवौ द्रष्टुमर्हसि अतः शीघ्रमागच्छ ते भद्रम् । शीघ्रमित्युभयान्वयि ॥ १।६८।११ ॥

प्रतिज्ञामिति । हे राजेन्द्र मम प्रतिज्ञां निर्वर्तयितुं संपालयितुं त्वमर्हसि तेनोभयोः पुत्रयोः प्रीतिं त्वमुपलप्स्यसे प्राप्स्यसि । एवो हेत्वर्थे ॥ १।६८।१२ ॥

एवमिति । विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः विदेहाधिपतिर्जनक एवं मधुरं वाक्यमब्रवीत् ॥ १।६८।१३ ॥

दूतेति । तत् दूतवाक्यं श्रुत्वा परमहर्षितः स राजा दशरथः वशिष्ठादीनब्रवीत् ॥ १।६८।१४ ॥

तद्वचनमेवाह गुप्त इति । कुशिकपुत्रेण गुप्तः रक्षितः कौशल्यानन्दवर्धनः असौ रामः भ्रत्रा लक्ष्मणेन सह विदेहेषु वसति ॥ १।६८।१५ ॥

दृष्टेति । महात्माना जनकेन दृष्टवीर्यः काकुत्स्थो रामो ऽस्ति अतो राघवे एव सुतायाः सम्प्रदानं कर्तुमिच्छति । एकस्तुशब्दो हेतौ अपर एवार्थे ॥ १।६८।१६ ॥

यदीति । महात्मनो जनकस्य वृत्तं यदि वो युष्मभ्यं रोचते तर्हि पुरीं मिथिलां वयं शीघ्रं गच्छामहे वृतान्तज्ञापनार्थमिति शेषः । तत्र हेतुः कालविपर्ययो विवाहसमयविलम्बो मा भूत् ॥ १।६८।१७ ॥

मन्त्रिण इति । सर्वैर्हर्हर्षिभिः सह मन्त्रिणो बाढमतिशोभनमेतदित्याहुः । अत एव सुप्रीतो राजा दशरथः श्व इतो ऽव्यवहितागामिदिवसे एव यात्रेति मन्त्रिणः अब्रवीत् । एकश्चशब्दो हेतौ द्वितीय एवार्थे ॥ १।६८।१८ ॥

मन्त्रिण इति । परमसत्कृताः अत एव प्रमुदिताः सर्वैर्गुणैर्मन्त्रिधर्मैः समन्विता युक्ता नरेन्द्रस्य सर्वमन्त्रिणः तां रात्रिमूषुः ॥ १।६८।१९ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे ऽष्टषष्टितमः सर्गः ॥ १।६८ ॥