जनकस्येति । महामुनिर्विश्वामित्रः जनकस्य वचः श्रुत्वा रामाय धनुर्दशय इति पार्थिवं जनकं हर्षतः उवाच । ह इति हर्षद्योतकम् ॥ १।६७।१ ॥
तत इति । ततः विश्वामित्राज्ञापनानन्तरं स राजा जनकः गन्धमाल्यविभूषितं दिव्यं धनुरानीयतामिति सचिवान् हर्षतो व्यादिदेश आज्ञापयामास । ह इति हर्षद्योतकम् ॥ १।६७।२ ॥
जनकेनेति । जनकेन समादिष्टाः आज्ञप्ताः अमितौजसः सचिवाः पुरं प्राविशन् । तद्धनुः पुरतः अग्रतः कृत्वा निर्जग्मुः जनकसपीपं प्रापुः ॥ १।६७।३ ॥
आनयनप्रकारं वर्णयन्नाह नृणामिति । व्यायतानां दीर्घशरीराणां महात्मनां प्रशंसनीयप्रयत्नकानां नृणां पञ्चाशत् शतानि पञ्चसहस्रसङ्ख्याकाः जना इत्यर्थः । अष्टचक्रामष्टसङ्ख्याकचक्रविशिष्टां तां धनुरधिष्ठानभूतां मञ्जूषां ते पुण्यस्थाने कथञ्चन अतिप्रयत्नतः समूहुः ऽतश्चौरामृतपुच्छेषु क्रोडेम्लेच्छे च कुत्रचित् । अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभिःऽ ॥ १।६७।४ ॥
तामिति । यत्र यस्यां तन्माहेश्वरं धनुरस्ति तामायसीं लोहनिर्मितां मञ्जूषामादाय ते आज्ञप्ताः नृपतिमन्त्रिणः सुरोपमं जनकमूचुः ॥ १।६७।५ ॥
तद्वचनमेवाह इदमिति । हे मिथिलाधिप राजेन्द्र हे राजन् सर्वानुरागविषयीभूत यदीच्छसि तर्हि सर्वराजभिः सर्वराजैः पूजितमिदं धनुर्वरमेनं राघवं दर्शय ॥ १।६७।६ ॥
तेषामिति । नृपो जनकः तेषां स्वमन्त्रिणां वचः श्रुत्वा कृताञ्जलिः प्रणयसूचकबद्धयुगलकरः सन् महात्मानं विश्वामित्रं तौ प्रसिद्धौ उभौ युगलौ रामलक्ष्मणौ च अभाषत ॥ १।६७।७ ॥
तद्वचनमेवाह इदमिति । हे ब्रह्मन् जनकैरभिपूजितं प्रतिदिनमर्चितमिदं धनुर्वरं महावीर्यैः पूरितुं सज्यीकर्तुं धनुश्चालनादियोग्यधैर्यं वर्धयितुं वा ऽशक्तैः राजभिस्तथा पूजितमेवासीत् । चशब्द एवार्थे ॥ १।६७।८ ॥
इदानीं कैमुतिकन्यायेन सर्वेषां धनुर्ग्रहणाद्यशक्तत्वं वर्णयन्नाह नेत्यादिश्लोकद्वयेन । एतद्धनुः सुरादयो न प्रपूरयितुं शक्ताः इति शेषः । अतो ऽस्य धनुषः प्रपूरणे नम्रतां प्रापणे आरोपणे सज्यीकरणे
समायोगे शरमौर्वीसंयोजने वा वेपने प्रत्यञ्चाप्रकम्पने वा तोलने धनुर्भारविज्ञानाय हस्ताभ्यां चालने वा मानुषाणां क्व गतिः । चापिशब्दौ वार्थौ ॥ १।६७।९,१० ॥
तदिति । हे मुनिपुङ्गव हे एतन्महामाग एतेषामत्रत्यानां महान्भागो भाग्यं यस्मात्तत्सम्बोधनम् । धनुषां श्रेष्ठमानीतमस्मदीयरैत्र प्रापितं तदेतत् धनुः अनयो राजपुत्रयोर्दर्शय राजपुत्रयोरित्यत्र दृशेश्चेति कर्मत्वाप्रवृत्तिस्तु सम्बन्धसामान्यविवक्षया । किञ्च राजपुत्रयोः राजपुत्रदर्शनार्थं यदानीतं तदेतत् दर्शय ॥ १।६७।११ ॥
विश्वामित्र इति । धर्मात्मा स विश्वामित्रः जनकभाषितं श्रुत्वा हे वत्स हे राम त्वं धनुः पश्येति राघवमब्रवीत् ॥ १।६७।१२ ॥
महर्षीति । महर्षिवचनात् विश्वामित्राज्ञातः रामः यत्र यस्यां तद्धनुस्तिष्ठति तां मञ्जूषामपावृत्य उद्घाट्य धनुर्दृष्ट्वा अथाब्रवीत् मङ्गलवचनमकथयत् ॥ १।६७।१३ ॥
तद्वचनमेवाह इदमिति । दिव्यमिदं धनुर्वरं पाणिना इहास्मिन् समये संस्पृशामि किम् । ननु संस्पर्शेन किमित्यत आह स्पर्शानन्तरं तोलने पूरणे च यत्नवान् भविष्यामि । अपिश्चार्थे वाशब्दः प्रश्ने ॥ १।६७।१४ ॥
बाढमिति । राजा जनको बाढमिति अब्रवीत् मुनिश्च बाढं समभाषत मुनेर्वचनात्स रामो धनुर्मध्ये लीलया जग्राह ॥ १।६७।१५ ॥
पश्यतामिति । बहूनां नृसहस्राणां पश्यतां सतां धर्मात्मा स रघुनन्दनः तद्धनुः सलीलमेवारोपयत् । इवशब्द एवार्थे ॥ १।६७।१६ ॥
आरोपयित्वेति । महायशाः नरश्रेष्ठो रामः मौर्वीमारोपयित्वा आरोप्य तद्धनुः पूरयामास तद्धनुर्मध्ये बभञ्ज च । विनापि चं समुच्चयः ॥ १।६७।१७ ॥
तस्येति । दीर्यतः विदीर्णतां प्राप्नुवतः पर्वतस्य इव तस्य धनुषः निर्घातसमनिस्वनः अशनिध्वनिसदृशप्रतिध्वनिकारकः महान् शब्द आसीत् अत एव सुमहान् भूमिकम्पश्चासीत् ॥ १।६७।१८ ॥
निपेतुरिति । अत एव मुनिवरादीन् वर्जयित्वा तेन शब्देन मोहिताः सर्वे नरा निपेतुः ॥ १।६७।१९ ॥
प्रत्याश्वस्य इति । तस्मिन् जने प्रत्याश्वस्ते सति विगतसाध्वसः विगतं निवृत्तं साध्वसं धनुर्भङ्गाभावमूलकविवाहाभावजनतिभयं यस्य स प्राञ्जलिर्वाक्यज्ञो राजा मुनिपुङ्गवं विश्वामित्रं वाक्यमुवाच ॥ १।६७।२० ॥
तद्वाक्यमेवाह भगवन्निति । हे भगवन् दशरथात्मजो राजो मे दृष्टवीर्यः अवलोकितपराक्रमः । वीर्यमेवाह अत्यद्भुतं प्राकृतविलक्षणमत एव अचिन्त्यं चिन्तयितुमशक्यमत एव मया अतर्कितं तर्काविषयीभूतमिदं वीर्यमस्तीति शेषः ॥ १।६७।२१ ॥
स्वस्यातीव भाग्यवत्तां बोधयन्नाह जनकानामिति । मे सुता सीता दशरथात्मजं रामं भर्तारमासाद्य प्राप्य जनकानां कुले कीर्तिमाहरिष्यति ॥ १।६७।२२ ॥
ममेति । हे कौशिक मम प्राणैः प्राणेभ्यो बहुमता अतीप्सिता मे सुता सीता वीर्यशुल्केति मम प्रतिज्ञा सत्या यथा स्यात्तथा भवतो ऽनुमते सति शीघ्रं देया अतो हे ब्रह्मन् हे कौशिक त्वरिता वेगवन्तो मम मन्त्रिणो ऽयोध्यां रथैः शीघ्रं गच्छन्तु । श्लोकद्वयं सम्मिलितान्वयि ॥ १।६७।२३,२४ ॥
मन्त्रिप्रेषणप्रयोजनमाह राजानमिति । सर्वशो मन्त्रिणः प्रश्रितैर्नम्रैर्वाक्यैर्वीर्यशुल्कायाः मत्कन्यायाः प्रदानं विधिना दानं कथयन्तु अत एव राजानं राजराजं दशरथं मम पुरमानयन्तु । चो
हेतौ ॥ १।६७।२५ ॥
मुनीति । काकुत्स्थौ रामलक्ष्मणौ मुनिगुप्तौ विश्वामित्ररक्षितौ इत्यपि नृपाय सुशीघ्रगा दूताः कथयन्तु अतो ऽपि प्रीतियुक्तं राजानमानयन्तु । चकार इतीत्यर्थे वैशब्दः अप्यर्थे तुशब्दः अतो ऽपीत्यर्थे ॥ १।६७।२६ ॥
कौशिक इति । कौशिकस्तथेत्याह अत एव धर्मात्मा राजा जनकः यथा वृत्तं तथैव समाख्यातुं नृपं दशरथमानेतुं च कृतशासनान्मन्त्रिणः आभाष्य सम्बोध्य अयोध्यां प्रेषयामास । तुशब्दो हेत्वर्थे एकश्च एवार्थे । सार्धश्लोक एकान्वयी ॥ १।६७।२७ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तषष्टितमः सर्गः ॥ १।६७ ॥