०६६ शिवधनुर्दर्शनम्

राजवृत्तमाह तत इति । ततः विश्वामित्रगमनोत्तरकालिकसान्ध्यकर्मपूर्वकशयनानन्तरं विमले अन्धकाररहिते प्रभाते कृतकर्मा समापितसान्ध्यवन्दनादिक्रियः नराधिपो जनकः सराघवं राघवसहितं महात्मानं विश्वामित्रमाजुहाव आह्वानेन स्वसमीपं प्रापयामास ॥ १।६६।१ ॥

तमिति । तदा विश्वामित्रागमनकाले एव धर्मात्मा जनकः शास्त्रदृष्टेन शास्त्रबोधितेन कर्मणा क्रियया तं विश्वामित्रं महात्मानौ राघवौ चार्चयित्वा वाक्यमुवाच । हशब्द एवार्थे ॥ १।६६।२ ॥

तद्वचनमेवाह भगवन्निति । हे भगवन् ते तव स्वागतमस्तु हे अनघ तव अहं किं करोमि मां भवान् आज्ञापयतु हि यतो ऽहं भवता आज्ञाप्यः आज्ञापनार्हः ॥ १।६६।३ ॥

एवमिति । एवमनेन प्रकारेणैव महात्मना जनकेनोक्तः वाक्यविशारदो धर्मात्मा मुनिश्रेष्ठो विश्वामित्रो वाक्यं प्रत्युवाच । तुशब्द एवार्थे ॥ १।६६।४ ॥

तद्वाक्यमेवाह पुत्राविति । क्षत्रियौ नित्यं क्षत्रियत्वजातिविशिष्टौ लोकविश्रुतौ सर्वलोकविख्यातौ यदेतत् श्रेष्ठं धनुः त्वयि त्वत्सन्निधौ तिष्ठति तत् द्रष्टुकामौ इमौ दशरथस्य पुत्रौ आगच्छतामिति शेषः ॥ १।६६।५ ॥

एतदिति । कृतकामौ प्रकटितधनुर्दर्शनविषयकेच्छावन्तौ नृपात्मजौ एतद्भवत्स्थापितं धनुर्दर्शय “दृशेश्च” इति कर्मत्वम् । अस्य धनुषो दर्शनात् इष्टमभीप्सितं यथा यथावत् प्रतियास्यतः प्राप्स्यतः ॥ १।६६।६ ॥

एवमिति । एवमनेन प्रकारेणैवोक्तो जनकः महामुनिं विश्वामित्रं प्रत्युवाच । तत्प्रतिवचनमेवाह यदर्थं यत्कारणात् इह तिष्ठति धनुरिति शेषः तत्कारणं तुना प्राप्तिप्रकारश्च श्रूयताम् ॥ १।६६।७ ॥

देवरात इति । हे भगवन् निमेर्निमिवंशोद्भवस्य सुकेतोरित्यर्थः राज्ञो यो ज्येष्ठपुत्रः देवरात इति ख्यातो महीपतिः राजा तस्य महात्मनः हस्ते न्यासो निक्षेपभूतः अयं चापः दत्तः दैवेः समर्पितः । किञ्च निमिपुत्रस्य मिथेरेव देवरात इति नामान्तरम् । ऽनिमेः षष्ठऽ इति पाठे तु निमिं परित्यज्य षष्ठ इत्यर्थः अत एव देवरातस्य सप्तमत्वेपि न क्षतिः । यद्वा न्यासः नितरामासमन्ताद्भावेन अस्यन्ते रिपवो येन सः शत्रुनाशक इत्यर्थः अन्यत्पूर्ववत् । युक्तश्चायमर्थः अन्यस्वामिके वस्तुनि स्वातन्त्र्यानुपपत्तेः अत एव तद्धनुर्भञ्जनादिविषयिणी प्रवृत्तिर्नृपतेः सङ्गच्छते ॥ १।६६।८ ॥

दानमेव सकारणं प्रतिपादयन्नाह दक्षेत्यादिभिः । पूर्वं पूर्वस्मिन् काले दक्षयज्ञवधे दक्षयागविध्वंसं कर्तुं वीर्यवान् रुद्रः रोषात् क्रोधात् सलीलमेव धनुः आयम्य आकृष्य त्रिदशान् देवान् इदमब्रवीत् तुशब्द एवार्थे । वधे इति हिंसार्थकवधधातुप्रकृतिकक्विबन्तप्रकृतिकचतुर्थ्यन्तम् सा च “क्रियार्थोषपद " इति विहिता । सलीलमित्यनेन श्रमाभावः सूचितः ॥ १।६६।९ ॥

तद्वचनमेवाह यस्मादिति । हे सुराः भागार्थिनो मे भागं यस्मात् नाकल्पयत अकल्पयन्त तस्मान्महार्हाण्यतिपूजनीयानि वो युष्माकं वराङ्गनि शिरांसि धनुषा शातयामि ॥ १।६६।१० ॥

तत इति । ततः रुद्रवचनश्रवणानन्तरं हे मुनिपुङ्गव विमनसः सर्वे देवाः देवेशं प्रसादयन्त प्रासादयन्त अतस्तेषां देवानामुपरि भवः प्रीतो ऽभवत् ॥ १।६६।११ ॥

प्रीतीति । महात्मनां सर्वेषां सुराणां प्रीतियुक्तः तद्विषयकप्रीतिविशष्टः सः रुद्रः ददौ देवविध्वंसनायोत्थापितं धुनरिति शेषः । अर्धं पृथक् । तदिति । हे विभो हे विश्वामित्र महात्मनः देवदेवस्य महादेवस्य न्यासभूतं नितरामासः शत्रुविद्धंसानुकूलो व्यापारः तं भूतं प्राप्तं शत्रुसंहारकमित्यर्थः । तदेतद्धनूरत्नं धनुःश्रेष्ठमस्माकं पूर्वके देवराते तदा धनुःप्राप्तेरुत्तरकाले आन्यस्तमपुनर्ग्रहाय स्थापितं तस्मै शिवाज्ञापितदेवैर्दत्तमित्यर्थः । एतदनुरोधेन ऽप्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुःऽ

इत्येकविंशाध्यायपठितकूर्मवचनघटकीभूतददावित्यस्य देवैर्दापयामासेत्यर्यः अन्तर्भावितणिजर्थः । ऽचापं शम्भोर्दयादत्तं कन्याशुल्कीकृतं मयाऽ इति पाद्मपद्यघटकीभूतदत्तमित्यस्य दापितमित्यर्थः ॥ १।६६।१२,१३ ॥

धनुरागमनप्रकारं संवर्ण्य तत्स्थापनप्रयोजनं बोधयितुमाह अथेति । क्षेत्रं कृषतः चयनार्थं क्षेत्रकर्षणं कुर्वतः मे मम लाङ्गलात् लाङ्गलावयवपद्धतिभूसम्बन्धादुत्थिता प्रादुर्भूता कन्येति शेषः । अथानन्तरं क्षेत्रं शोधयता क्षेत्रतृणाद्यपसरणं कुर्वता मम मया लब्धा दर्शनमात्रतः स्वकन्यात्वेन स्वीकृतेत्यर्थः अत एव सीता इति नाम्ना विश्रुता प्रख्याता सा आसीदिति शेषः । तथाच शास्त्रम् षड्गवेन कृषति । वृषभेण कृषतिऽ इत्यादि । ऽसीतालाङ्गलपद्धतिःऽ इति कोश्ाः लाङ्गलशब्देन तदवयवपद्धतिभूसम्बन्धलाभस्तु लक्षणया बोध्यः ॥ १।६६।१४ ॥

भूतलादिति । भूतलादुत्थिता प्रादुर्भूता सा ममात्मजा तु व्यवर्धत विशेषेण प्राकृतविलक्षणबलसौन्दर्यादिना वृद्धिं प्राप्नोत् इति हेतोः अयोनिजेयं मे कन्या वीर्यशुल्का प्राकृतविलक्षणपराक्रममूल्या सती स्थापिता ॥ १।६६।१५ ॥

भूतलादिति । हे मुनिपुङ्गव भूतलादेव उत्थितां प्रादुर्भूतां वर्धमानां ममात्मजां तां सीतां राजानः आगत्य मत्समीपं प्राप्य वरयामासुः । तुशब्द एवार्थे ॥ १।६६।१६ ॥

तेषामिति । हे भगवन् कन्यां वरयतां सर्वेषो तेषां पृथिवीक्षितामग्रे इयं सुता वीर्यशुल्का इति हेतोः इमां सुतां कन्यामहं न ददामि दास्यामीत्युक्तं मयेति शेषः ॥ १।६६।१७ ॥

तत इति । ततः मदुक्तिश्रवणानन्तरं हे मुनिपुङ्गव सर्वे नृपतयः समेत्यैकीभूय मिथिलामभ्युपागम्य प्राप्य वीर्यं कन्यामूल्यभूतपराक्रमं जिज्ञासवः ज्ञातुमिच्छवः आसन्निति शेषः । तदा तद्वीर्यजिज्ञासुत्वकाले वीर्यं जिज्ञासमानानां तेषां राज्ञामग्रे शैवं धनुरुपाहृतमानीय स्थापितम् एतेन उत्थाप्य धनुस्थापनमेव कन्याशुल्कमिति ध्वनितम् । तस्य धनुषो ग्रहणे उत्थाप्य धारणे तोलने धनुर्भारविज्ञानाय हस्तेन चालने वा नैव शेकुः समर्था बभूवुः नृपतय इति शेषः । अपिरेवार्थे । द्वयोः सम्मिलितान्वयः ॥ १।६६।१८,१९ ॥

तेषामिति । हे मुन हे तपोधन वीर्यवतां पराक्रमगर्ववतां तेषां नृपतीनां वीर्यमल्पं ज्ञात्वा नृपतयः प्रत्याख्याताः भवद्भ्यः कन्यां न दास्यामीत्युक्ताः । तत् मद्वर्णितं सर्वं निबोध जानीहि ॥ १।६६।२० ॥

तत इति । हे मुनिपुङ्गव ततो मत्कर्तृकप्रत्याख्यानश्रवणानन्तरं वीर्यसन्देहं मूल्यभूतस्वस्वपराक्रमातिवृद्धिमागताः तद्विषयकज्ञानं प्राप्ताः सर्वे राजानः परमकोपेन मिथिलामरुन्धन् ॥ १।६६।२१ ॥

आत्मानमिति । हे मुनिपुङ्गव आत्मानमवधूतं धनुर्गौरवेण पराभूतं विज्ञाय महता रोषेण आविष्टा युक्तास्ते नृपतयः मिथिलां पुरीं पीडयन् अपीडयन् । आगमशास्त्रस्यानित्यत्वादड्विरहः । एतेन तैर्युद्धमासीदिति व्यक्तम् ॥ १।६६।२२ ॥

तत इति । ततः तद्रोधनकालानन्तरं संवत्सरे पूर्णे सति सर्वशः साधनानि निखिलयुद्धसामग्र्यः क्षयं जातानि ततः साधनक्षयात् हे मुनिश्रेष्ठ भृशं दुःखितो ऽहं तपसा सर्वान् देवगणान् प्रसादयं प्रासादयम् । अड्विरहो ऽनित्यत्वात् । ततः प्रसादनाद्धेतोः परमप्रीताः सुराः चतुरङ्गबलं ददुः । द्वयोः सम्मिलितान्वयः ॥ १।६६।२३,२४ ॥

तत इति । ततः तद्बलेन हन्यमाना अत एव भग्ना अवीर्या अल्पवीर्यवन्तः वीर्यसन्दिग्धाः इदं वीर्यं मायाकृतं सत्यं वेति सन्देहवन्तः सामात्याः अमात्यसहिताः पापकारिणः नृपतयो दिशो ययुः ॥

१।६६।२५ ॥

तदिति । हे मुनिशार्दूल हे सुव्रत तदेतत्परमभास्वरं धनुः रामलक्ष्मणयोरपि दर्शयिष्याम्येव । चशब्द एवार्थे ॥ १।६६।२६ ॥

दर्शने हेतुं वदन्नाह यदीति । हे मुने अस्य धनुष आरोपणं रामः यदि कुर्यात् तर्हि अयोनिजां दाशरथेरेव योग्यां सीतां सुतामहं दाशरथये दद्याम् । दाशरथय एवेति प्रत्यासत्त्या लब्धम् षष्ठीमहिम्ना योग्यामित्यध्याहृतम् सम्प्रदानत्वाविवक्षया षष्ठी वा ॥ १।६६।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्षष्टितमः सर्गः ॥ १।६६ ॥