प्रतिज्ञाकारणानन्तरकालिकं वृत्तमाह अथेति । हे राम महामुनिः विश्वामित्रः अथ तपोनिश्चयानन्तरं हैमवतीमुत्तरां दिशं त्यक्त्वा पूर्वां दिशमनुप्राप्य सुदारुणं तपस्तेपे ॥ १।६५।१ ॥
तपःप्रकारं वर्णयन्नाह मौनमिति । हे राम अनुत्तमं सर्वोत्कृष्टं मौनं व्रतं वर्षसहस्रस्य सहस्रवर्षसम्बन्धीत्यर्थः । मौनं व्रतं कृत्वा अप्रतिममनुपमं परमदुष्करं तपश्चकार ॥ १।६५।२ ॥
पूर्ण इति । हे राम यो विश्वामित्रो निश्चयं कृत्वा अव्ययं तप आतिष्ठत तं काष्ठभूतमपराधादिसहनेन काष्ठसदृशं बहुभिर्विघ्नैराधूतमवधूतत्वेनेष्यमाणं महामुनिं विश्वामित्रं वर्षसहस्रे पूर्णे तुशब्देनापूर्णे ऽपि स क्रोधः अन्तरं नाविशत् । सार्धश्लोक एकान्वयी ॥ १।६५।३,४ ॥
तस्येति । हे रघूत्तम तस्य विश्वामित्रस्य वर्षसहस्रस्य व्रते पूर्णे सति महाव्रतो विश्वामित्रो ऽन्नं
भोक्तुमारब्धवान् तस्मिन्काले भोजनप्रारम्भसमये द्विजातिर्भूत्वा इन्द्रस्तं विश्वामित्रं सिद्धमन्नमयाचत ॥ १।६५।५ ॥
तस्मै इति । तदा याचनसमये विप्राय विप्ररूपाय तस्मै याचमानाय सर्वं सिद्धमन्नं दत्त्वा अन्ने निःशेषिते सति निश्चितः निर्गतं चितं सञ्चयो यस्यान्नान्तरसञ्चयरहित इत्यर्थः । किञ्च निश्चितः याचको न प्रत्याख्येय इति निश्चयं प्राप्तः । अत एव अभुक्त्वैव विद्यमानो भगवान् अतिसामर्थ्यविशिष्टः महातपाः मौनं व्रतमुपास्थितो विश्वामित्रः विप्रं न किञ्चिदवदत् ॥ १।६५।६,७ ॥
तथेति । मुनिपुङ्गवो विश्वामित्रः अनुड्वासमुच्छ्वासरहितं मौनं पुनश्चकार आरेभे । अथ तादृशमौनव्रतप्रारम्भानन्तरं वर्षसहस्रं नोच्छ्वासन् उच्छ्वासरहितः सन्नेव तथैव वक्रोच्चारादिरहित एवासीत् । ह प्रसिद्धमेतत् । वैशब्द एवार्थे ॥ १।६५।८ ॥
तस्येति । अनुच्छ्वसमानस्य उच्छ्वासराहित्यं प्राप्नुवतस्तस्य विश्वामित्रस्य मूर्ध्नि धूमो व्यजायत येन धूमेन सम्भ्रान्तमुद्वेगं प्रापितं त्रैलोक्यमादीपितं सन्तापितमेवाभवत् । इवशब्द एवार्थे ॥ १।६५।९ ॥
तत इति । ततः विश्वामित्रमूर्धोत्थितधूमदर्शनानन्तरं तस्य विश्वामित्रस्य तपसा तपोजनितेन तेजसा मोहिताः वैचित्यं प्राप्ताः अत एव मन्दरश्मयः हीनतेजसः अत एव कश्मलोपहताः दुःख्ाव्याप्तचित्ताः सर्वे देवर्षिगन्धर्वाः पन्नगोरगराक्षसाश्च पितामहं ब्रह्माणमब्रुवन् । अथशब्दश्चार्थे । सार्धश्लोक एकान्वयी ॥ १।६५।१० ॥
बहुभिरिति । हे देव बहुभिः कारणैस्तपोभ्रंसनहेतुभिः लोभितः क्रोधितश्च महामुनिर्विश्वामित्रस्तपसा स्वतपःप्रभावेणैव अभिवर्धते एव लोभादयस्तस्मिन्न याता इत्यर्थः । चशब्द एवार्थे ॥ १।६५।११ ॥
नेति । अस्य विश्वामित्रस्य सूक्ष्ममल्पमपि किञ्चिद्वृजिनमस्मत्कृतविघ्नजनितदुःखं नैव दृश्यते अत एव अस्य मनसा यदभीप्सितं तद्यदि न दीयते तर्हि सचराचरं चराचरसहितं त्रैलोक्यं तपसा विनाशयति विनाशयिता । हिशब्द एवार्थे । अथशब्दो हेत्वर्थे तुशब्दस्तर्हीत्यर्थे । सार्धश्लोक एकान्वयी ॥ १।६५।१३ ॥
त्रैलोक्यविनाशहेतुं वर्णयन्त आहुः व्याकुला इत्यादिभिः । सर्वाः दिशः व्याकुलाः अन्धकारादिव्याप्ताः अत एव किञ्चिदपि न प्रकाशते सर्वे सागराः क्षुभिताः क्षोभं प्राप्ताः सर्वे पर्वतास्तु विशीर्यन्ते स्फुटिता भवन्तीत्यर्थः । एकश्चो हेतौ द्वितीयो ऽप्यर्थे तृतीयस्त्वर्थे । सर्वे इत्युभयान्वयि ॥ १।६५।१४ ॥
प्रकम्पते इति । पृथिवी प्रकम्पते भृशाकुलः अत्यन्ताकुलताविशिष्टः वायुश्च वाति अत एव नास्तिकः नास्ति कं सुखं यस्य सः अत्यन्तव्याकुलत्वेन सुखरहित इत्यर्थः नरः सर्वो जनो जायते अतो हे ब्रह्मन् न प्रतिजानीमः एतद्दुःखप्रतिक्रयां न निश्चिनुमः । चस्त्वर्थे ॥ १।६५।१५ ॥
समिति । संप्रक्षुभितमानसमत्यन्तक्षोभविशिष्टमानसविशिष्टं त्रैलोक्यं सम्मूढं कर्तव्याकर्तव्यविवेकरहितमस्तीति शेषः । अतो हे देव हे भगवन् महामुनिः विश्वामित्रो नाशे जगत्क्षये यावद्बुद्धिं निश्चयं न कुरुते तावदेवाग्निरूपः प्रलयाग्निसदृशरूपविशिष्टः अत एव महाद्युतिः विश्वामित्रः प्रसाद्यः प्रसादयितुं योग्यः । सार्धश्लोक एकान्वयी । इवशब्द एवार्थे । मानसमित्येतदग्रे ऽभास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसाऽ इति श्लोकार्धमपि भट्टटीकाङ्कितपुस्तकेषु दृश्यते ॥ १।६५।१६ ॥
प्रसादनविलम्बे दोषं वदन्त आहुः कालेति । यथा येन प्रकारेणाखिलं त्रैलोक्यं पूर्वं
कालाग्निना दह्यते तथा ऽनेनापि धक्ष्यते इति शेषः । किञ्च अयथा यथोक्तप्रसादनाभावे कालाग्निना कालाग्निसदृशेन विश्वामित्रेण अखिलं सर्वं पूर्वं पौर्वकालिकं त्रैलोक्यं दह्यते धक्ष्यति “वर्तमानसामीप्ये” इति भविष्यति लट् ॥ १।६५।१७ ॥
नन्वदेयवस्त्वभिलाषश्चेदयं तददाने कथं प्रसादं प्राप्स्यतीत्यत आहुः देवेति । यद्यस्मिन् ब्रह्मऋषित्वे ऽस्यमनोभिलाषस्तद्दीयतां देवराज्यं चिकीर्षेत चेत्तदपि दीयताम् । ततो देवप्रार्थनानन्तरं पितामहपुरोगमाः सर्वे सुरगणाः महात्मानं विश्वामित्रं मधुरं वाक्यमब्रुवन् । पूर्वोत्तरार्धोत्तरपूर्वार्धयोरेकत्रान्वयः ॥ १।६५।१८ ॥
तद्वचनमेवाह ब्रह्मर्षे इति । हे ब्रह्मर्षे ते तव अत्रागमनं स्वागतं शोभनमागनमस्तु लडर्थे लोट् । तत्र हेतुः यतस्तपसा त्वत्कर्तृकतपश्चरणेन वयं सुतोषिताः स्म । विसर्गाभाव आर्ष इति भट्टः । किञ्च स्मेत्येवार्थकमव्ययम् । तपसैव तोषिता इत्यर्थः ॥ १।६५।१९ ॥
ब्राह्मण्यमिति । हे कौशिक उग्रेण तपसा ब्राह्मण्यं स्वेप्सितब्रह्मर्षिपदं त्वं प्राप्तवानसि तव प्रार्थितं ब्रह्मर्षिपदं भवत्तपस्तोषितेन मया दत्तमित्यर्थः । अप्रार्थितमपि ददामीत्याह हे ब्रह्मन् समरुद्गणः मरुद्गणसहितो ऽहं ते तुभ्यं दीर्घमायुश्च ददामि । समरुद्गण इत्युक्त्या यावद्वायुसञ्चारमीदृक् ते ख्यातिर्भविष्यतीति सूचितम् ॥ १।६५।२० ॥
स्वस्तीति । हे सौम्य स्वस्ति वाञ्छितप्राप्तिजनितसुखं प्राप्नुहि ते तव भद्रं कल्याणम् । अतः यथासुखं सुखमनतिक्रम्य गच्छ स्वगृहमिति शेषः । अर्धं पृथक् पितामहेति पितामहवचः श्रुत्वा सर्वेषां ब्रह्मसहितानां त्रिदिवौकसां प्रणामं च कृत्वा मुदितो महामुनिर्विश्वामित्रः व्याजहार कथयामास ॥ १।६५।२१ ॥
तद्वचनमेवाह ब्राह्मण्यमिति । दीर्घं चिरकालिकमायुस्तथैव ब्राह्मण्यं ब्रह्मर्षिपदं च यदि मे मया प्राप्तं भवत्प्रसादाल्लब्धमित्यर्थः । तर्हि कारः प्रणवं कारयति प्रकटयति स्वनियम्यब्रह्मद्वारेति कारो रघुनाथः वषट्कारः वषडुपलक्षितस्वाहादेः कारः करणमुच्चारणमिति यावत् यस्मिन्स रामोद्देश्यकसाङ्गसकलयागः वेदाः उक्तोभयसूचकसाङ्गसामादयश्च मां वरयन्तु वशिष्ठादिष्विव मयि साक्षात्कारा भवन्त्वित्यर्थः । अथशब्दश्चार्थे ॥ १।६५।२२ ॥
भवद्दत्तवरे वशिष्ठस्यापि सम्मतिः स्यादिति बोधयन्नाह क्षत्रेति । हे देवताः क्षत्रवेदविदां धनुर्वेदादिज्ञातृ़णां ब्रह्मवेदविदां ब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपि श्रष्ठः ब्रह्मपुत्रो वशिष्ठः एवमनेन भवदुक्तब्राह्मण्येन रूपेण मां वदतु । एतेन परमाचार्यभूतवशिष्ठप्रसादमन्तरा रामप्रीतिर्न भवतीति ध्वनितम् । तेन रामप्रीतिकामैर्वसिष्ठो ऽवश्यं प्रसादयितव्य इति व्यक्तम् । तत्र प्रमाणम् “आचार्यवान् पुरुषो वेद” इत्यादि ॥ १।६५।२३ ॥
यदीति । परम उत्कृष्टः कामो मदिच्छाविषयीभूतः अयं मत्प्रार्थितो यदि कृतो भवद्भिः सम्पादितस्तर्हि हे सुरर्षभाः भवन्तो यान्तु । ततो विश्वामित्रप्रार्थनानन्तरं देवैः प्रसादितः प्रसन्नतां प्रापितः जपतां वरो ब्रह्मर्षिर्वसिष्ठः एवमस्तु इत्यब्रवीत् सख्यं च चकार विश्वामित्रेण सहेति शेषः । सार्धश्लोक एकान्वयी ॥ १।६५।२४ ॥
सख्यसम्पत्त्युत्तरकालिकं देवतावचनमाह ब्रह्मर्षिरिति । त्वं ब्रह्मर्षिः अत्र सन्देहो न वशिष्ठसख्यप्राप्त्या संशयो ध्वस्त इत्यर्थः अतस्तव सर्वं कार्यं सम्पत्स्यते सेत्स्यति इति सर्वा देवताः पुनरुक्त्वा यथागतमेव जग्मुः । चशब्दः पुनरर्थे अपिरेवार्थे ॥ १।६५।२५ ॥
धर्मात्मा विश्वामित्रो ऽपि उत्तमं ब्राह्मण्यं लब्ध्वा जपतां वरं ब्रह्मर्षिं वशिष्ठं पूजयामास । तपसि स्थितः अत एव कृतकामो विश्वामित्रः सर्वां महीं चचार यथेच्छं गमनं चकारेत्यर्थः ॥ १।६५।२६,२७ ॥
एवमिति । हे राम महात्मनानेन विश्वामित्रेण एवमुक्तप्रकारेणैव ब्राह्मण्यं प्राप्तमजो हे राम एष विश्वामित्रो मुनिश्रेष्ठः एष विग्रहवत् शरीरधारि तपश्च । तुशब्द एवार्थे ॥ १।६५।२८ ॥
एषः नित्यं धर्मपरः एषः वीर्यस्य पराक्रमस्य परायणम् अर्धं पृथक् । शतानन्दवचःश्रवणानन्तरकालिकं वृत्तमाह शतानन्देति रामलक्ष्मणसन्निधौ शतानन्दवचः श्रुत्वा प्राञ्जलिर्जनकः कुशिकात्मजं वाक्यमुवाच ॥ १।६५।२९ ॥
तद्वाक्यमेवाह धन्य इति । हे धार्मिक हे ब्रह्मन् हे महामुने यस्य मे यज्ञं काकुत्स्थसहितः यो मुनिपुङ्गवस्त्वं प्राप्तवानसि तेन त्वया दर्शनेन सो ऽहं पावितः अस्मि अत एव अनुगृहीतो ऽस्मि अत एव धन्यो ऽस्मि ॥ १।६५।३०,३१ ॥
गुणा इति । हे ब्रह्मन् हे महातेजः तव सन्दर्शनात् त्वत्कर्मकसन्दर्शनतः बहुविधाः अनेकप्रकाराः गुणाः चित्तप्रसादप्रतिष्ठितत्वसुखादयः मया प्राप्ताः यतः सदः यागसभां प्राप्य महात्मना रामेण सदस्यैश्च सहितेन मया विस्तरेण कीर्त्यमानं शतानन्देन वर्ण्यमानं ते तव महत्तपः श्रुतं ते तव बहवो ऽनेकविधा गुणाः तपोजनितप्रभावाश्च श्रुताः । एकश्चो हेतौ ॥ ६५।३२,३३ ॥
तत्तपआदीनां महत्वं बोधयन्नाह अप्रमेयमित्यादित्रयेण । यद्यपि हे कुशिकात्मज तुभ्यं तव तपः अप्रमेयं प्रमातुमशक्यमत एव ते बलं चाप्रमेयमत एव नित्यं विद्यमानास्ते गुणाश्चाप्रमेयाः अत एव हे विभो हे मुनिश्रेष्ठ आश्चर्यभूतानां ते कथानां श्रृण्वतो मे तृप्तिर्नास्ति अत एव स्वागतं तवागमनमतिमङ्गलप्रदमित्यर्थः । तथापि रविमण्डलं लम्बते अस्तं गच्छति अतः कर्मकालः सम्प्राप्त इति शेषः । अतः हे जपतां श्रष्ठ मामनुज्ञातुं गृहगमनायाज्ञापयितुं त्वमर्हसि मां तु श्वः प्रभाते द्रष्टुमर्हसि एतेन त्वमपि स्वस्थानं गच्छेति बोधितम् । एवो यद्यपीत्यर्थे । अत्र विवेकिशिरोमणिजनकस्य समस्तकर्मकाण्डफलभूतमहात्मकथाविरामप्रार्थनया ऽध्व श्रमविशिष्टरामचिरकालस्थित्यसहिष्णुत्वं सूचितं तेन रामस्य सुकुमारातिशयः सूचितः । श्लोकत्रयं सम्मिलितान्वयि ॥ १।६५।३५,३६ ॥
एवमिति । तदा जनकप्रार्थनाकाले एवमनेन प्रकारेण उक्तः मुनिवरः प्रीतमनाः विश्वामित्रः पुरुषर्षभं पुरुषश्रेष्ठं प्रीतं जनकं प्रशस्य अथ विससर्ज मङ्गलविसर्जनं चकारेत्यर्थः ॥ १।६५।३७ ॥
विश्वामित्रोक्तिं संवर्ण्य जनकवृतमाह एवमिति । मिथिलाधिपः सोपाध्यायः सबान्धवः वैदेहो जनकः मुनिश्रेष्ठं विश्वामित्रमेवमुक्त्वा आशु प्रदक्षिणं चकार । आशु इत्यनेन गृहं गत्वा कदा इमां कथां वर्णयिष्यामीत्यभिलाषातिशयः सूचितः ॥ १।६५।३८ ॥
विश्वामित्र इति । धर्मात्मा सरामः रामसहितः सहलक्ष्मणः लक्ष्मणसहितः महर्षिभिः सह पूज्यमानः विश्वामित्रो ऽपि स्ववाटं स्ववासस्थानमभिचक्राम ॥ १।६५।३९ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चषष्टितमः सर्गः ॥ १।६५ ॥