०६४ रम्भा-शाप-प्राप्तिः

इन्द्रवचनमेवाह सुरेति । हे रम्भे इहास्मिन् समये काममोहसमन्वितं कामजनितवैचित्यविशिष्टं यथा भवति तथा कौशिकस्य लोभनं वञ्चनमिदं सुमहत् सुरकार्यं त्वया कर्तव्यम् ॥ १।६४।१ ॥

तथेति । हे राम धीमता सहस्राक्षेण तथा तेन प्रकारेण उक्ता व्रीडिता अशक्यकार्यकर्मकाप्रत्याख्यातव्येन्द्रज्ञापनेन लज्जिता सा रम्भा अप्सराः अप्सरसः प्राञ्जलिर्भूत्वा सुरेश्वरं प्रत्युवाच ॥ १।६४।२ ॥

तद्वचनमेवाह अयमिति । हे सुरपते हे देव घोरः अतितीक्ष्णस्वभावो ऽयं महामुनिर्विश्वामित्रः मयि घोरं क्रोधमुत्स्रक्ष्यते संशयः अस्मिन् विषये सन्देहो न कार्यः । ऽउत्सृजतेऽ इति भूषणकृत्पाठः ॥ १।६४।३ ॥

तत इति । हे देव ततस्तच्छापादेव मे भयमस्त्यतः प्रसादमकर्तव्यनियोगापनयनेन प्रसन्नतां कर्तुं त्वमर्हसि । हे राम भीतया तया रम्भया एवमनेन प्रकारेण सभयं यथा स्यात्तथोक्तः सहस्राक्षः इन्द्रः वेपमानां कृताञ्जलिं तां रम्भां तदा तत्प्रार्थनोत्तरसमये उवाच । सार्धः श्लोक एकान्वयी ॥ १।६४।४ ॥

तद्वचनमेवाह मेति । हे रम्भे त्वं मम शासनं कुरुष्व मा भैषीः भयं न प्राप्नुहि ते भद्रम् । भयाभावे हेतुं वदन्नाह कोकिल इति । माधवे वसन्ते रुचिरद्रुमे रमणीयतरौ हृदयग्राही चित्तापकर्षकः कोकिलः स्थास्यतीति शेषः । एतेन वसन्तर्तुरपि तदानीं स्थितः प्राप्स्यति वेति ध्वनितम् । अर्धद्वयमेकान्वयि ॥ १।६४।५ ॥

अहमिति । कन्दर्पसहितो ऽहं तव पार्श्वतः त्वत्समीपे स्थास्यामि अतः बहुगुणमनेकविधकटाक्षादिविशिष्टमत एव परमभास्वरं रूपं स्वशरीरं कृत्वा तपस्विनं तमृषिं कौशिकं हे रम्भे त्वं भेदयस्व तच्चित्तापकर्षणं कुरुष्वेत्यर्थः । सार्धश्लोक एकान्वयी ॥ १।६४।६,७ ॥

सेति । तस्येन्द्रया वचनं श्रुत्वा अत एवानुत्तमं रूपं कृत्वा ललिता अतिसौन्दर्यविशिष्टा शुचिस्मिता सा रम्भा विश्वामित्रं लोभयामास ॥ १।६४।८ ॥

कोकिलस्येति । व्याहरतः कूजतः कोकिलस्य वल्गुस्वनं मनोहरशब्दं स विश्वामित्रः शुश्राव । ततस्तच्छब्दश्रवणानन्तरमेनां रम्भां सम्प्रहृष्टेनात्यन्तहर्षविशिष्टेन मनसा उदैक्षत अपश्यत् ॥ १।६४।९ ॥

अथेति । अथ रम्भादर्शनानन्तरमेव तस्य कोकिलस्य शब्देन अप्रतिमेनोपमारहितेन रम्भाया गीतेन च दर्शनेन च मुनिर्विश्वामित्रः सन्देहं स्वतो ऽस्या आगमनं परतो वेति संशयपूर्वकविचारम् आगतः प्राप्तः । एकश्चशब्द एवाथे ॥ १।६४।१० ॥

सहस्राक्षस्येति । सहस्राक्षस्य तत् रम्भाप्रेषणादि कर्म विज्ञाय क्रोधसमाविष्टः कुशिकात्मजः मुनिपुङ्गवो विश्वामित्रः रम्भां शशाप । एतेन रम्भावियोगे इन्द्रस्या ऽप्यतिदुःखं भविष्यतीति हेतुर्ध्वनितः तेन रम्भाया इन्द्रप्राणप्रियात्वं व्यक्तम् ॥ १।६४।११ ॥

तच्छापमेवाह यदिति । हे रम्भे हे दुर्भगे कामक्रोधजयैषिणं मां यत्त्वं लोभयसे तस्मात् दशवर्षसहस्राणि शैली शिलामूर्तिः सती त्वं स्थास्यसि ॥ १।६४।१२ ॥

शापदानोत्तरं शान्तिप्राप्त्या तामनुगृह्णन्नाह तपोबलसमन्वितः अत एव महातेजाः स प्रसिद्धो ब्राह्मणो ब्रह्मपुत्रो वशिष्ठः हे रम्भे मत्क्रोधकलुषीकृतां मत्क्रोधाय कलुषीकृतं कलुषीकरणं

पापाचरणमिति यावत् यस्यास्ताम् । किञ्च मत्क्रोधेन कलुषीकृतां पापाचरणफलं प्रापितां त्वामुद्धरिष्यति त्वत्स्वरूपं प्रापयिता ॥ १।६४।१३ ॥

एवमिति । कोपं धारयितुं नियन्तुमशक्नुवन् महातपा विश्वामित्रः एवमुक्त्वा शप्त्वेत्यर्थः सन्तापं तपोध्वंसनहेतुकपश्चात्तापमागतः प्राप्तः ॥ १।६४।१४ ॥

तस्येति । तस्य विश्वामित्रस्य महता शापेन रम्भा तदा शाकाले शैली अभवत् । स कन्दर्पः चकारेण इन्द्रः महर्षेर्वचः श्रुत्वैव निर्गतः तदाश्रमात् पलायितः । एकश्च एवार्थे ॥ १।६४।१५ ॥

कोपेनेति । हे राम कोपेन तपोपहरणे कृते सति महातेजा अपि विश्वामित्रः अजितैः एतत्कर्तृकातिजयरहितैः इन्द्रियैः आत्मनः शान्तिं न लेभे ॥ १।६४।१६ ॥

बभूवेति । तपोपहरणे कृते सति अस्य विश्वामित्रस्य मनश्चिन्ता विचारः बभूव । चिन्तोत्तरकालिकं स्वनिश्चयमाह अहमेवं क्रोधं न गमिष्यामि प्राप्स्यामि अत एव कथञ्चनापि न वक्ष्ये दुर्वचनमिति शेषः । चो ऽप्यर्थे ॥ १।६४।१७ ॥

अथेति । अथानन्तरं संवत्सरशतानि वर्षशतत्रयपर्यन्तं नैवोच्छ्वसिष्यामि अत एव विजितेन्द्रियो ऽहमात्मानं क्रोधजनकस्वस्वभावं शोषयिष्याम्येव । अपिवाशब्दा एवार्थौ हिर्हेतौ ॥ १।६४।१८ ॥

ननु वर्षशतत्रयपर्यन्तं तादृक्स्थित्यापि यदीप्सितसिद्धिर्न भविता तदा किं कर्तासीत्यत आह तावदिति । यावत् कालं तपसोर्जितं मे ब्राह्मण्यं प्राप्तं स्यात्तावत्कालमनुश्छ्वसन् अछ्वासं निरुन्धन् अभुञ्जानो ऽहं तिष्ठेयम् । ननु चिरकालं तादृक्स्थित्या देहपातः स्यात्तदा कथमीप्सितसिद्धिरित्यत आह शाश्वतीः समास्तप्यमानस्य मे मूर्तयः देहाकृतयः क्षयं नैव यास्यन्ति एतेनास्य त्रिकालज्ञत्वं व्यक्तम् । हिरेवार्थे सार्धश्लोक एकान्वयी ॥ १।६४।१९ ॥

एवमिति । हे रघुनन्दन स मुनिपुङ्गवः एवमनेन प्रकारेण वर्षसहस्रस्य दीक्षां निर्वर्तयितुं लोके अप्रतिमामनुपमां प्रतिज्ञां चकार । शब्दाध्याहारान्न चतुर्थीप्रसक्तिः । किञ्च अप्रतिमां वर्षसहस्रस्य दीक्षां दीक्षाकारणीभूतां प्रतिज्ञां चकार ॥ १।६४।२० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुः षष्टितमः सर्गः ॥ १।६४ ॥