०६३ विश्वामित्रतपोनाशः

पूर्ण इति । वर्षसहस्रे वर्षाणि सहस्राणि यस्मिन् तस्मिन् त्रिसहस्रात्मके समये पूर्णे सत्येव व्रतस्नातं व्रतान्तस्नानविशिष्टं महामुनिं विश्वामित्रं तपःफलचिकीर्षवः विश्वामित्रतपःफलदानेच्छावन्तः सर्वे ब्रह्मादयः सुराः अभ्यगच्छन् विश्वामित्रसम्मुखं प्राप्नुवन् । तुशब्द एवार्थे ॥ १।६३।१ ॥

अब्रवीदिति । सुमहातेजाः ब्रह्मा सुरुचिरमतिरमणीयं वचो ऽब्रवीत् । तद्वचनमेवाह स्वार्जितैः स्वसम्पादितैः शुभैः कर्मभिः त्वमृषिः असि अतस्ते भद्रं कल्याणं पूर्वं विश्वामित्रतपसि राजर्षिरित्युक्तमिदानीं ऋषिरित्येतावन्मात्रमुच्यते तेनैतत्तपसा त्वत्क्षत्रियत्वं विच्छिन्नमिति ध्वनितम् ॥ १।६३।२ ॥

तमिति । देवेशो ब्रह्मा तं विश्वामित्रमेवमुक्त्वा त्रिदिवं पुनरभ्यगात् महर्षिर्विश्वामित्रस्तु भूयो महत्तपस्तेपे एतेन पूर्णा तदीप्सितसिद्धिर्न जातेति ध्वनितम् ॥ १।६३।३ ॥

तत इति । हे नरश्रेष्ठ ततः विश्वामित्रमहातपःप्रारम्भानन्तरं मेनका तदभिधा परमाप्सराः पुष्करेषु महता कालेन स्नातुं समुपचक्रमे आजगाम अप्सरश्शब्दस्यैकत्वं त्वेतत्प्रायोनिर्देशादेव साधु ॥ १।६३।४ ॥

तामिति । महातेजाः कुशिकात्मजो विश्वामित्रः रूपेणाप्रतिमामप्रतिमरूपविशिष्टां तां मेनकां तत्र पुष्करे जलदे मेघे विद्युतमिव ददर्श ॥ १।६३।५ ॥

कन्दर्पेति । कन्दर्पदर्पवशगः कन्दर्पजनितमदवशं प्राप्तः मुनिर्विश्वामित्रस्तां मेनकामिदं वचनमब्रवीत् । तद्वचनमेवाह हे अप्सरः ते तव इदं स्वागतमस्तु अत एवेहास्मिन्ममाश्रमे एव त्वं वस । चशब्द एवार्थे ॥ १।६३।६ ॥

अन्विति । मदनेन विमोहितं मामनुगृह्णीष्व मदीप्सितं साधयेत्यर्थः । ते भद्रं कल्याणमित्यनेन प्रकारेणोक्ता विश्वामित्रेण प्रार्थिता सा वरारोहा मेनका तत्र विश्वामित्राश्रमे एव वासमकरोत् । अथशब्द एवार्थे ॥ १।६३।७ ॥

तपस इति । हे राघव हि अयं मेनकासमागमः तपसः विश्वामित्रतपश्चरणस्य महाविघ्नो विश्वामित्रमुपागमत् प्राप्नोत् अत एव हे राम विश्वामित्राश्रमे तस्यां मेनकायां वसन्त्यां सत्यां पञ्च पञ्च दशेति यावत् वर्षाणि सुखेन व्यतिचक्रमुः । सार्धश्लोक एकान्वयी ॥ १।६३।८ ॥

अथेति । तस्मिन्दशवर्षात्मके काले गते सत्येव संवृत्तः राम्यक् वृत्तं वर्तनं यस्य स महामुनिर्विश्वामित्रः सव्रीडः अप्सरःसङ्गहेतुकव्रीडासहितः अत एव चिन्ताशोकपरायण आसेति शेषः । इवशब्द एवार्थे । हे रघुनन्दन अथानन्तरं मुनेर्विश्वामित्रस्य सामर्षा अमर्षसहिता बुद्धिः समुत्पन्ना । सार्धश्लोक एकान्वयी ॥ १।६३।९,१० ॥

अमर्षसूचकं विश्वामित्रवचनं वर्णयन्नाह सर्वमिति । तपोपहरणं मत्तपोध्वंसकमेतत्सर्वं महत्कर्म सुराणामेव अत एव काममोहाभिभूतस्य कामजनिताविवेकाक्रान्तस्य मम दश संवत्सराः अहोरात्रापदेशेन एकाहोरात्रतुल्यतया गताः तपोध्वंसकस्त्रीसङ्गेन व्यतीताः । अयं स्त्रीसङ्गेन कालापगमः विघ्नः प्रत्युपस्थितः प्राप्तः एवं पश्चात्तापेन स निःश्वसन् मुनिवरो विश्वामित्रः दुःखित आसीदिति शेषः । श्लोकद्वयमेकान्वयि । सर्वं वाक्यं सावधारणं भवतीति न्यायादेवकारलाभः ॥ १।६३।११,१२ ॥

भीतामिति । हे राम भीतां सम्भावितमुनिशापभयविशिष्टामत एव वेपन्तीं प्रकम्पविशिष्टामत एव प्राञ्जलिं प्रणतिसूचकबद्धयुगुलकरां स्थितां मेनकामप्सरसं दृष्ट्वा मधुरैः वाक्यैः तव नापराध इत्यादिवचनैर्विसृज्य कुशिकात्मजो विश्वामित्रः उत्तरं पर्वतं जगाम ह प्रसिद्धमेतत् । सार्धश्लोक एकान्वयी ॥ १।६३।१३ ॥

स इति । जेतुकामः काममभिभवितुमिच्छुः महायशाः स विश्वामित्रः नैष्ठिकीमतिदृढां बुद्धिं कृत्वा कौशिकीतीरमासाद्य प्राप्य सुदारुणमतिदुष्करं तपस्तेपे । पूर्वोत्तरार्धोत्तरपूर्वार्धयोरेकत्रान्वयः ॥ १।६३।१४ ॥

तस्येति । हे राम उत्तरे पर्वते वर्षसहस्राणि घोरं तप उपासतस्तस्य विश्वामित्रस्य सम्बन्धि देवतानां देवताकर्तृकं भयमभूत् ॥ १।६३।१५ ॥

अत एव सर्षिगणाः ऋषिगणसहिताः सर्वे सुराः आगम्य ब्रह्मसमीपं प्राप्पय आमन्त्रयन् प्रार्थयन्त ॥ १।६३।१६ ॥

तत्प्रार्थनामेवाह महर्षीति । अयं कुशिकात्मजः महर्षिशब्दं साधु यथा स्यात्तथा लभताम् एतेन महर्षिपदलाभमन्तरा एतत्तपोनिवृतिर्न भविष्यतीति देवतानां निश्चयो ध्वनितः । सर्वलोकपितामहो ब्रह्मा देवतानां वचः श्रुत्वा तपोधनं विश्वामित्रं मधुरं वाक्यमब्रवीत् ॥ १।६३।१७ ॥

तद्वचनमेवाह हे महर्षे हे वत्स स्वागतं तवात्रागमनं समीचीनमित्यर्थः । अत एव हे कौशिक तवोग्रेण तपसा हर्षितो हर्षं प्रापितो ऽहं महत्त्वं यदृषिमुख्यत्वं तत्तुभ्यं ददामि । तवेत्युभयान्वयि पूर्वश्लोकोत्तरार्धोत्तरश्लोकपूर्वार्धयोरेकत्रान्वयः । एवं पूर्वत्रोत्तरत्रापि बोध्यम् ॥ १।६३।१८ ॥

बह्मण इति । तपोधनो महायशाः विश्वामित्रः ब्रह्मणो वचः श्रुत्वा प्राञ्जलिः प्रयतो नियतचित्तश्च भूत्वा पितामहं प्रत्युवाच पितामहमिति शेषः ॥ १।६३।१९ ॥

तद्वचनमेवाह महर्षीति । स्वार्जितैः स्वसम्पादितैः शुभैः कर्मभिरतुलं महर्षिशब्दं मे मह्यं यदि भगवानाह ततस्तस्माद्धेतोः अहं विजितेन्द्रियो ऽस्मीति शेषः । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनितः ॥ १।६३।२० ॥

तद्गर्वनिरासहेतुकां ब्रह्मोक्तिं वर्णयन्नाह तमिति । महातेजाः ब्रह्मा तं विश्वामित्रमुवाच । तद्वचनमेवाह हे नरशार्दूल तावत्पूर्वं विषयसान्निध्यसमये त्वं जितेन्द्रियो न अतः त्वं यतस्व इत्युक्त्वा त्रिदिवं गतो ब्रह्मेति शेषः ॥ १।६३।२१ ॥

विप्रेति । देवेषु ब्रह्मादिषु विप्रस्थितेषु सत्सुतपश्चरन् सन् ऊर्ध्वबाहुः निरालम्बः गृहाद्यालम्बरहितः वायुभक्षः वायुमात्रभक्षणकर्ता महामुनिर्विश्वामित्र आसीदिति शेषः ॥ १।६३।२२ ॥

तत्तप एव वर्णयन्नाह धर्म इति । तपोधनः विश्वामित्रः धर्मे ग्रीष्मे पञ्चतपाः भूत्वा वर्षासु आकाशसंश्रयः वृक्षाद्याश्रयरहित इत्यर्थः । भूत्वा शिशिरे सलिले स्थायी च भूत्वा रात्र्यहानि निनायेति शेषः ॥ १।६३।२३ ॥

एवमिति । एवमनेन प्रकारेण वर्षसहस्राणि त्रिसहस्रवर्षपर्यन्तं घोरं तप उपागमत् अकरोत् ॥ १।६३।२४ ॥

तस्मिन्निति । महामुनौ तस्मिन् विश्वामित्रे तपः सन्तप्यमाने सति सुराणां वासवस्येन्द्रस्य च महान् सन्ताप आसीत् ॥ १।६३।२५ ॥

रम्भामिति । सर्वैर्मरुद्गणैः सह शक्रः इन्द्रः आत्महितं कौशिकस्य विश्वामित्रस्य अहितं हितभिन्नं च वाक्यमुवाच ॥ १।६३।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रिषष्टितमः सर्गः ॥ १।६३ ॥