०६२ अम्बरीशयज्ञः

शुनःशेफानयनानन्तरकालिकं वृत्तमाह शुनःशेफमिति । हे नरश्रेष्ठ हे रघुनन्दन महायशाः राजा अम्बरीषः शुनःशेफं गृहीत्वा ग्रहणपूर्वकमागमनं कृत्वैव मध्याह्ने काले पुष्करे तीर्थे व्यश्राम्यत् । तुशब्द एवार्थे ऽव्यश्रमत्ऽ इति भट्टसम्मतः पाठः ॥ १।६२।१ ॥

तस्येति । विश्रममाणस्य तस्य विश्राम्यमाणं तमम्बरीषमनादृत्य महायशाः शुनःशेफः श्रेष्ठं तीर्थवरं पुष्करमागम्य प्राप्य ऋषिभिः सार्धमेव तप्यन्तं मातुलं विश्वामित्रं ददर्श दर्शनानन्तरं परमातुरः अत्यन्तातुरताविशिष्टः विषण्णवदनः उदासीनमुखः तृष्णया श्रमेण च दीनः शुनःशेफः मुनेर्विश्वामित्रस्याङ्के पपात हे राम इदं वाक्यं च उवाच ह प्रसिद्धमेतत् । सार्धश्लोकद्वयमेकान्वयि । पूर्वो हकारोनन्तरार्थकः । एकश्चकार एवार्थकः । “षष्ठी चानादरे” इत्यनुशासनविहिता षष्ठी ॥ १।६२।२,३ ॥

तद्वाक्यमेवाह नेति । मे माता नास्ति पिता च नास्ति तर्हि ज्ञातयो बान्धवाश्च कुतः स्युः मन्निरूपितमुख्यमातृत्वाद्यभावेन तन्मूलकज्ञात्यादीनामसम्भव एवेति भावः ॥ १।६२।४ ॥

त्रातुमिति । हे सौम्य हे मुनिपुङ्गव हे नरश्रेष्ठ हि यतः सर्वेषामापन्नानां त्राता त्वमसि अत एव सर्वेषां भावनः आपत्काले सर्वस्मृतिविषयीभूतस्त्वमसि । एतेन सर्वं स्वविक्रयादिवृत्तं कथितवान् इति व्यक्तम् ॥ १।६२।५ ॥

राजकार्यसिद्धिमन्तरा स्वरक्षामहं न वाञ्छामीति बोधयितुं स्वेप्सितं प्रार्थयन्नाह राजेति । राजा अम्बरीषः कृतकार्यः सम्पादितयागसिद्धिकः यथा स्यात् अहं तु दीर्घायुः अव्ययः विकाररहितः

सन् तपस्तप्त्वा अनुत्तमं सर्वोत्कृष्टं स्वर्गलोकमुपाश्नीयां पालयेयं स्वर्गपतिर्भवेयमित्यर्थः । तथा साधयेति शेषः । भुज पालनाभ्यवहारयोरित्यनुशासनेन अश भोजने इत्येतद्घटकीभूतभोजनशब्देन पालनस्यापि ग्रहणात् अश्नीयामित्यस्य पालयेयमित्यर्थलाभः । चस्त्वर्थे हिर्यथार्थे ॥ १।६२।६ ॥

स इति । अनाथस्य नाथरहितस्य मे मम नाथः भव्येन मङ्गलप्रदेनैव तेजसा स्वप्रभावेण त्वं भव । तदेव मङ्ग्यन्तरेण बोधन्नाह हे धर्मात्मन् किल्बिषात् पापविशेषजनितविपत्तेः पितापुत्रमिव त्रातुं मां त्वमर्हसि । हिशब्द एवार्थे ॥ १।६२।७ ॥

तस्येति । महातपाः विश्वामित्रः तस्य शुनःशेफस्य तद्वचनं प्रार्थनावाक्यं श्रुत्वैव बहुविधमनेकप्रकारं शान्तयित्वा शुनःशेफमिति शेषः । पुत्रान् स्वसुतान् इदमुवाच । हशब्द एवार्थे ॥ १।६२।८ ॥

तद्वचनमेवाह यदिति । हे परलोकहितार्थाः परलोकहितं परलोकप्राप्तिः अर्थः प्रयोजनं येषां ते हे परलोकप्रापकपुत्राः शुभार्थिनः पितरः यत्कृते यत्प्रयत्नार्थं पुत्रान् जनयन्ति तस्य प्रयत्नस्यायं कालः आगतः प्राप्तः ॥ १।६२।९ ॥

तत्प्रयतनीयमाज्ञापयन्नाह अयमिति । हे पुत्रकाः मुनिसुतः ऋचीकपुत्रः बालः अल्पवयस्को ऽयं शुनःशेफः मत्तः शरणं आत्मरक्षामिच्छति अतः जीवितमात्रेण जीवनप्रदानमात्रेणास्य बालस्य प्रियं कुरुत यूयमिति शेषः ॥ १।६२।१० ॥

रक्षणप्रकारं वर्णयन्नाह सर्व इत्यादिश्लोकद्वयेन । सुकृतकर्माणः सुकृतानि सुसाधितानि कर्माणि यैस्ते अत एव सर्वे धर्मपरायणाः सर्वेषां कर्मणाम् ईः पर्यवसानं यस्मिन् स एव धर्मः परमपुरुषाराधनरूपः तत्र परायणाः निरताः सर्वे यूयं नरेन्द्रस्याम्बरीषस्य पशुभूताः यागपशुत्वं प्राप्ताः सन्तः अग्नेस्तृप्तिं प्रयच्छत प्रापयतेत्यर्थः ॥ १।६२।११ ॥

नाथवानिति । अनाथः स शुनःशेफो नाथवान्भवेत् अविघ्नतः विघ्नराहित्यात् यज्ञश्च भवेत् देवतास्तर्पितास्तृप्तिं प्रापिताश्च स्युः मम वचो वचनं च कृतं सिद्धं भवेत् । स्यात् । अपिर्हेतौ ॥ १।६२।१२ ॥

विश्वामित्राज्ञापनोत्तरकालिकं वृत्तमाह मुनेरिति । हे नरश्रेष्ठ मुनेर्विश्वामित्रस्य वचनं श्रुत्वैव मधुस्यन्दादयः सुताः विश्वामित्रपुत्राः साभिमानमभिमानसहितं सलीलं लीलासहितमिदं वचनमब्रुवन् । तुशब्द एवार्थे ॥ १।६२।१३ ॥

तद्वचनमेवाह कथमिति । विभो हे सकलसामर्थ्यविशिष्ट आत्मसुतान् हित्वा मरणत्ववप्रापणेन त्यक्त्वा मृत्युं प्रापय्येति वा अन्यसुतं कथं त्रायसे अत्र हेतुं वदेत्यर्थः । ननु स्वयमेव विचार्य हेतुरुच्यतामित्यत आहुः भोजने प्राप्तपायसादिभोज्ये पतितं श्वमांसमिव अकार्यं कार्यध्वंसमेव पश्यामः । यथा अग्निहोत्रिणां भोज्ये पायसादौ पतितम् श्वमांसं भोजनरूपकार्यमात्रध्वंसकं तथा रक्षणीयस्वसुतरक्षासमये प्राप्तैषान्यसुतरक्षा अवश्यकार्यस्वसुतरक्षामात्रविघातिकेत्यर्थः । एक इवशब्द एवार्थे । किञ्च भोजने यज्ञपायसादौ प्राप्ते सति श्वमांसं श्वमांसभोजनं यथा अकार्यं वैदिकैर्न कर्तव्यं तथा प्राप्तस्वसुतरक्षणे तद्विरोध्यन्यसुतरक्षणमकार्यं न कर्तव्यमिति वयं पश्यामः निश्चिनुमः । एतेनाविवेकत एवास्य रक्षायां भवत्प्रवृत्तिरिति स्वनिश्चयः सूचितः । एक इवशब्द इत्यर्थकः ॥ १।६२।१४ ॥

तेषामिति । तेषां पुत्राणां तद्वचनं साभिमानसविलासवाक्यं श्रुत्वा क्रोधसंरक्तनयनः मुनिपुङ्गवो विश्वामित्रः व्याहर्तुं वक्तुमुपचक्रमे ॥ १।६२।१५ ॥

तद्वचनमेवाह निरिति द्वाभ्याम् । निःसाध्वसं पितृभीतिरहितं यतो मद्वाक्यमतिक्रम्य

प्रोक्तमुच्चारितमत एव धर्मादपि विगर्हितं प्रच्युतमत एव दारुणमतिपरुषं श्रोतुमनर्हमित्यर्थः । अत एव रोमहर्षणमिदं युष्मद्वचनमस्तीति शेषः । तुर्हेतौ ॥ १।६२।१६ ॥

पूर्णमिति । तस्मात् श्वमांसभोजिनः सन्तो जातिषु श्वपचजातिविशेषेषु पूर्णं वर्षसहस्रं वर्षसहस्रसमाप्तिपर्यन्तं वाशिष्ठा इव सर्वे यूयं पृथिव्यामनुवत्स्यथ । तुस्तस्मादित्यर्थे ॥ १।६२।१७ ॥

कृत्वेति । तदा पुत्रप्रत्युत्तरदानोत्तरकाले मुनिवरो विश्वामित्रः पुत्रान् शापसमायुक्तान् कृत्वा निरामयां विघ्नरहितां रक्षां शुनश्शेफकर्मकरक्षणं च कृत्वा आर्तं शुनश्शेफमुवाच ॥ १।६२।१८ ॥

तद्वचनमेवाह पवित्रेति । हे मुनिपुत्रक पवित्रपाशैः विधिनिर्मितदर्भादिरज्जुभिः आबद्धः रक्तमाल्यानुलेपनस्त्वं वैष्णवं यूपमासाद्य प्राप्य वाग्भिरग्निं सुरश्रेष्ठौ तौ इन्द्राविष्णू च उदाहर स्तुहि । हे मुनिपुत्रक इमे प्रसिद्धे दिव्ये द्वे गाथे च गायेथाः । तुहिशब्दौ चार्थौ । ततः गाथाद्वयगानादस्मिन्नम्बरीषयज्ञे सिद्धिं त्वमवाप्स्यसि प्राप्स्यसि । सार्धश्लोकद्वयं सम्मिलितान्वयि ॥ १।६२।१९,२० ॥

शुनःशेफ इति । सुसमाहितः अत्येकाग्रचित्तः शुनश्शेफः ते विश्वामित्रोपदिष्टे द्वे गाथे गृहीत्वा ज्ञात्वा तं राजसिंहमम्बरीषं त्वरया वेगेनैवोवाच । हशब्द एवार्थे ॥ १।६२।२१ ॥

तद्वचनमेवाह राजेति । हे राजसिंह महाबुद्धे सदो यज्ञशालां वयं शीघ्रं गच्छामहे अतो हे राजेन्द्र दीक्षां निर्वर्तयस्व तत्सिद्धिं कुरु । तत्साधनमाह मां समुपाहर पशुत्वेन प्रकल्प्य प्रापय । चो हेतौ । मामित्यध्याहृतम् ॥ १।६२।२२ ॥

तदिति । ऋषिपुत्रस्य तद्वाक्यं श्रुत्वा हर्षसमन्वितः अतन्द्रितः आलस्यरहितः नृपतिः यज्ञवाटं शीघ्रं जगाम ॥ १।६२।२३ ॥

सदस्येति । सदस्यानुमते सदस्यसम्मतौ वर्तमानो राजाम्बरीषः पवित्रकृतलक्षणं पवित्रैर्दर्भरज्जुभिः कृतं सम्पादितं लक्षणं यागयोग्यपशुचिह्नं यस्मिन् तं पशुं रक्ताम्बरं कृत्वा यूपे समबन्धयत् ॥ १।६२।२४ ॥

स इति । बद्ध एव स मुनिपुत्रकः इन्द्रं इन्द्रानुजं विष्णुं च सुरौ अग्र्याभिः उत्कृष्टाभिः वाग्भिः यथावदभितुष्टाव । वैशब्दो ऽग्निस्तवनसमुच्चायकः ॥ १।६२।२५ ॥

तत इति । ततः शुनःशेफकृतस्तुत्यनन्तरं रहस्यस्तुतितोषितः विश्वामित्रोपदिष्टरहस्यस्तुत्या शुनःशेफेन तोषं प्रापितः अत एव प्रीतः सहस्राक्ष इन्द्रो ऽभवदिति शेषः । वासव इन्द्रः ततस्तस्मै शुनःशेफाय दीर्घमायुः प्रादात् । चतुर्थ्यन्तात्तसिः ॥ १।६२।२६ ॥

स इति । नरश्रेष्ठ हे राम स राजा अम्बरीषस्तु सहस्राक्षप्रसादजं सहस्राक्षप्रसादजनितमेव बहुविधमनेकप्रकारं यज्ञस्य फलं समाप्तवान् समीचीनप्राप्तिविशिष्ट आसीदिति शेषः । एकश्चकारस्त्वर्थकः अपर एवार्थकः ॥ १।६२।२७ ॥

विश्वामित्र इति । धर्मात्मा धर्मस्वरूपः महातपाः विश्वामित्रो ऽपि हे नरश्रेष्ठ दश वर्षशतानि सहस्रत्रयवर्षपर्यन्तं पुष्करेष्वेव भूयस्तेपे तपश्चकार ॥ १।६२।२८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्विषष्टितमः सर्गः ॥ १।६२ ॥