देवादिप्रस्थानोत्तरकालिकं वृत्तमाह विश्वामित्र इत्यादिना । नरशार्दूल हे राम अथ प्रस्थानानन्तरं महात्मा विश्वामित्रस्तान् यज्ञार्थं समागतान् तान् चिरञ्जीविनः वनवासिनः सर्वानृषीन् प्रस्थितान् वीक्ष्य अब्रवीत् ॥ १।६१।१ ॥
तद्वचनमेवाह महानिति । प्रवृत्तः प्रकृष्टं वृत्तं वृन्तान्तो यस्मिन्सो ऽयं त्रिशङ्कुर्याजनमूलकक्रोधावेशः महान्विघ्नः दक्षिणां दिशं आस्थितः प्राप्तः अतः अन्यां दिशं प्रवत्स्यामः तत्र तस्या दिशि तपस्तप्स्यामहे ॥ १।६१।२ ॥
कां दिशं गमिष्यसीत्यत आह पश्चिमायामिति । विशालायां विशालतपोभूमिमत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु तीर्थविशेषे महात्मनः अतिप्रयत्नशीलमुनीनां यद्वरं श्रेष्ठं तपोवनं तत्तस्मिंस्तपोवने एव सुखं यथा स्यात्तथा तपश्चरिष्यामः । पुष्करेष्विति बहुवचनमादरार्थं महात्मन इत्येकवचनं जात्यभिप्रायेण । हिरेवार्थे ॥ १।६१।३ ॥
एवमिति । महातेजाः महामुनिः विश्वामित्रः एवमनेन प्रकारेणोक्त्वा मूलफलाशनः सन्नुग्रमत्युत्कटं दुराधर्षं पराभवितुमशक्यं तपस्तेपे ॥ १।६१।४ ॥
एतस्मिन्निति । एतस्मिन्काले विश्वामित्रतपश्चरणसमये एव अम्बरीष इति ख्यातो महान् सर्वराजपूज्यः अयोध्याधिपतिस्तु यष्टुं यागं कर्तुं समुपचक्रमे ॥ १।६१।५ ॥
तस्येति । यजमानस्य यागं कुर्वत एव तस्याम्बरीषस्य पशुमिन्द्रो जहार ह प्रसिद्धमेतत् । पशौ यागवृषे प्रनष्टे अदृश्यतां गते सत्येव विप्रस्तत्पुरोहितः राजानमम्बरीषमिदमब्रवीत् । वैतुशब्दौ एवार्थौ ॥ १।६१।६ ॥
तद्वचनमेवाह पशुरिति । हे राजन् तव दुर्णयात् त्वदनवधानात् पशुः अद्य हृतः केनचिदिति शेषः । अत एव प्रनष्टः अदृश्यतां प्राप्तः । ननु पश्वन्तरमानेष्यामीत्यत आह हे नरेश्वर अरक्षितारं सावधानतया यागपशुरक्षारहितं राजानं दोषाः रक्षानवधानताजनितपापानि घ्नन्ति ऽपशुरभ्याहृतःऽ इति भट्टसम्मतः पाठः । अरक्षितारमित्यत्र अल्पार्थको नञ् ॥ १।६१।७ ॥
ननु तद्दुरितशान्तिः कथं स्यादित्यत आह प्राय इति । हे पुरुषर्षभ यावत्कर्म प्रवर्तते तावदेव नरं पुरुषं पशुं शीघ्रं झटिति आनयस्व एतदेवास्याघविशिष्टपुरुषस्य प्रायश्चित्तमनवधानताजनितपापशोधनम् ऽप्रायः पापमितिप्रोक्तं चित्तं तच्छोधनं स्मृतम्ऽ इत्यनुशासनम् । एतेनोपायान्तरं नास्तीति सूचितम् । हिवैशब्दौ एवार्थौ ॥ १।६१।८ ॥
उपेति । पुरुषर्षभ हे राम महाबुद्धिः स राजा अम्बरीषः उपाध्यायवचः श्रुत्वा सहस्रशः गोभिः कर्तव्ययागपशुप्रतिनिधिभूतं क्रेतव्यपुरुषमूल्यरूपं सहस्रशः सङ्ख्याकगवीभिः सह सहितः सन् पशुं पशुत्वेन प्रकल्पनीयं पुरुषमन्वियेष ॥ १।६१।९ ॥
देशानिति । हे तात हे रघुनन्दन देशादीन् मार्गमाणः स महीपतिरम्बरीषः पुत्रसहितं सभार्यं भार्यासहितं भृगुतुङ्गे भृगुसम्बन्धिस्थलविशेषे समासीनमृचीकं मुनिं सन्ददर्श ह प्रसिद्धमेतत् । श्लोकद्वयमेकान्वयि ॥ १।६१।१०,११ ॥
तमिति । महातेजाः महत्तेजो यस्मात्सः स्वानुगृहीतपुरुषतेजःसम्पादक इत्यर्थः । अत एवामितप्रभः अमिता परिमातुमशक्या प्रभा यस्य स राजर्षिरम्बरीषः तपसा दीप्तं ब्रह्मर्षिं तं प्रसिद्धमृचीकं प्रणम्य अभिप्रसाद्य च सर्वत्र तपआदिषु कुशलं पृष्ट्वा चेदं वचः उवाच । सार्धश्लोक एकान्वयी । चकार उभयान्वयी ॥ १।६१।१२,१३ ॥
तद्वचनमेवाह गवामिति । हे महाभाग हे भार्गव पशोरर्थे यागपशुकरणाय गवां शतसहस्रेण शतसहस्रसङ्ख्याकगवीभिः सुतं स्वपुत्रं इति विक्रीणीषे त्वमिति शेषः । तर्हि अहं कृतकृत्यः अस्मि भविष्यामि ॥ १।६१।१४ ॥
नन्वपहृतः पशुरेव कुतो नान्विष्यते इत्यत आह सर्व इति । सर्वे देशाः मया परिप्लुताः यज्ञपश्वन्वेषणाय परिगताः तेषु देशेषु यज्ञियं पशुं न लभे इतो हेतोः मूल्येन एकं सुतं मम मह्यं दातुमर्हसि ॥ १।६१।१५ ॥
एवमिति । एवमनेन प्रकारेणोक्तः अम्बरीषेण प्रार्थितः महातेजा ऋचीकः वचः अब्रवीत् । तद्वचनमेवाह हे नरश्रेष्ठ ज्येष्ठं सुतमहं कथञ्चन न विक्रीणीयामेतेन ज्येष्ठे तस्य परमानुरागः सूचितः । तुशब्द एवार्थे ॥ १।६१।१६ ॥
ऋचीकस्येति । तेषां महात्मनामृचीकषुत्राणां माता ऋचीकस्य वचः श्रुत्वा नरशार्दूलां नरश्रेष्ठमम्बरीषमिदं वचः उवाच ॥ १।६१।१७ ॥
तद्वचनमेवाह अविक्रेयमिति । भगवान् अतिसामर्थ्यविशिष्टः भार्गवः ज्येष्ठं सुतमविक्रेयमाह
शुनकं शनुकनामानं कनिष्ठं सुतं ममापि दयितं प्रियं त्वं विद्धि जानीहि तस्मात्कारणात् हे प्रभो हे पार्थिव कनीयसं पुत्रमहं तव तुभ्यं न दास्ये । सार्धश्लोक एकान्वयी ॥ १।६१।१८ ॥
कापट्यभ्रमवारणाय तादृशानुरागे सदाचारं प्रमाणयन्ती आह प्रायेणेति । हे नरश्रेष्ठ ज्येष्ठाः प्रायेण पितृषु वल्लभाः पितृनिष्ठानुरागविषयीभूताः भवन्तीति शेषः । मातृ़णां च कनीयांसः वल्लभास्तस्मात् कनीयसं कनीयांसमेव अहं रक्षे न दास्ये इत्यर्थः ॥ १।६१।१९ ॥
उक्तेति । हे राम तस्मिन्मुनौ ऋचीके उक्तवाक्ये सति तथा तेन प्रकारेण मुनिपत्न्यां च उक्तवाक्यायां सत्यां मध्यमः शुनःशेफः स्वयमेव वाक्यमब्रवीत् ॥ १।६१।२० ॥
तद्वचनमेवाह पितेति । ज्येष्ठं सुतमविक्रेयं पिता आह कनीयसमविक्रेयं माता चाह अतः मध्यममात्मानं विक्रीतमहं मन्ये । अतः हे राजपुत्र मां नयस्व ॥ १।६१।२१ ॥
गवामिति । हे रघुनन्दन परमप्रीतो नरेश्वरो ऽम्बरीषः शुनःशेफं गवां शतसहस्रेण गृहीत्वा जगाम ॥ १।६१।२२ ॥
गमनप्रकारं वर्णयन्नाह अम्बरीष इति । राजर्षिः महातेजाः सत्वरो ऽम्बरीषः शुनःशेफमाशु रथमारोप्य जगाम स्वालयमिति शेषः । परमप्रमाणभूतमुनिकर्तृकानापत्कालिकपुत्रविक्रयणेन यज्ञार्थं पुत्रविक्रयणे पुण्याधिक्यं भवतीति ध्वनितम् ॥ १।६१।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकषष्टितमः सर्गः ॥ १।६१ ॥