विरामौत्तरकालिकं वृत्तमाह तप इति । महातेजाः स विश्वामित्रः समहोदयान् महोदयसहितान् वाशिष्ठान् वशिष्ठपुत्रान् तपोबलहतान् स्वतपःप्रभावप्रनष्टान् ज्ञात्वा ऋषिमध्ये ऽभ्यभाषत ॥ १।६०।१ ॥
तद्भाषणमेवाह अयमिति । धर्मिष्ठः अत एव वदान्यः त्रिशङ्कुरिति विश्रुतः प्रख्यातः अयमिक्ष्वाकुदायादस्वेन स्वकीयेन अनेन चाण्डालरूपेण शरीरेणैव देवलोकजिगीषया देवलोकप्राप्तीच्छयेत्यर्थः शरणं रक्षकं मां गतः प्राप्तो ऽतः स्वशरीरेणैवः स्वर्गलोकं यथा येन प्रकारेणायं त्रिशङ्कुर्गमिष्यति तथा तेन प्रकारेणैव मया सह भवद्भिर्यज्ञः प्रवर्त्यताम् । सार्धश्लोकद्वयमेकान्वयि चकारद्वयमेवार्थकं तृतीयो हेत्वथर्कः ॥ १।६०।२,३ ॥
विश्वामित्रेति । विश्वामित्रवचो वचनं श्रुत्वा सहसा शीघ्रमेव समेताः धर्मज्ञाः सर्वे महर्षयः धर्मसंहितं धर्मसहितं वचनमूचुः परस्परं कथयामासुः । पूर्वोत्तरार्धोत्तरपूर्वार्धयोरेकत्रान्वयः ॥ १।६०।४ ॥
तद्वचनमेवाह अयमिति । कुशिकदायादः कुशिकभागभोक्ता परमकोपनो ऽयं मुनिः यद्वचनमाह तदेतत्सम्यक् कार्यमत्र संशयो न । अन्यथाकरणे दोषमाह अग्निकल्पः अग्निसदृशः भगवान् सकलसामर्थ्यविशिष्टो विश्वामित्रः रोषतः अस्मदन्यथाचरितजनितक्रोधात् शापं दास्यत्येव । हिरेवार्थे ॥ १।६०।५,६ ॥
तस्मादिति । तस्मात् विश्वामित्रकोपभयादिक्ष्वाकुदायादः त्रिशङ्कुः विश्वामित्रस्य तेजसा यथा येन प्रकारेण सशरीरो दिवं गच्छेत्तथा यज्ञः प्रवर्त्यताम् ॥ १।६०।७ ॥
सर्वऋषीणां यागसम्मतिं ज्ञात्वा विश्वामित्र आह तत इति । ततः जातसम्मतित्वाद्धेतोः सर्वे यूयं समधितिष्ठत यज्ञः प्रवर्त्यताम् भवद्भिरिति शेषः । एवमनेन प्रकारेण उक्ता विश्वामित्रेणाज्ञप्ता महर्षयस्ताः यागप्रसिद्धाः क्रियाः सञ्चक्रुः । तदा तस्मिन्काले क्रतौ यागे महातेजा विश्वामित्र एव याजको ऽध्वर्युरभवत् । चशब्द एवार्थे । अध्वर्युत्वादेव अध्वर्युः स्रुवमुद्यम्येति वक्ष्यमाणं सङ्गच्छते । अर्धत्रयमेकान्वयि ॥ १।६०।८ ॥
ऋत्विज इति । मन्त्रवन्तः परस्परं कृतसम्मतयस्ते एव मन्त्रकोविदा मन्त्रोपलक्षितयागनिपुणाः ऋत्विजः यथाकल्पं कल्पशास्त्रमनतिक्रम्य यथाविधि सर्वाणि कर्माणि आनुपूर्वेण क्रमश एव चक्रुः । चशब्द एवार्थे ॥ १।६०।९ ॥
तत इति । ततः यागप्रवृत्यनन्तरं महातपाः विश्वामित्रः तत्र तस्मिन् यागे भागार्थं तत्तद्भागं दातुं सर्वदेवताः निखिलदेवतायाः आवाहनं महता कालेन चकार । सर्वदेवता इति षष्ठ्येकवचनमागमशास्त्रस्यानित्यत्वाद्याडभावः । महता कालेनेत्यनेन तद्यागदेवानां बाहुल्यं द्योतितम् ॥ १।६०।१० ॥
नेति । ततः विश्वामित्रावाहनानन्तरं तत्र तस्मिन् यागे सर्वदेवता भागार्थं नाभ्यागमन् । इदमर्धमेव ॥ १।६०।११ ॥
तत इति । ततः आहूतदेवागमनाभावेहेतोः । क्रोधसमाविष्टः महामुनिः अतिमननशीलः सक्रः
अतिक्रियासहितः अधः कोपान्तर्धारणासमर्थः विश्वामित्रः स्रुवमुद्यम्य त्रिशङ्कुमिदमब्रवीत् । क्रः इत्यत्र कृधातोर्घञर्थे कविधानमिति कः । नञ्पूर्वकधारणार्थकधाधातुप्रकृतिककप्रत्ययान्तो ऽध इति अत एव क्रोधसमाविष्ट इत्यनेन न पौनरुक्त्यम् ॥ १।६०।१२ ॥
तद्वचनमेवाह पश्येति । हे नरेश्वर स्वार्जितस्य मे तपसो वीर्यं पश्य । तद्वीर्यमेवाह एषः अहमोजसा स्वतपःप्रभावेण स्वशरीरेण गुरुपुत्रशप्तात्मीयशरीरेण त्वां स्वर्गं नयामि ॥ १।६०।१३ ॥
दुरिति । हे नराधिप दुष्प्रायं त्वद्भिन्नैर्दुर्गमं स्वर्गं स्वशरीरेण गच्छ । साधनमन्तरा कथं गच्छामीत्यत आह हे राजन् मया स्वार्जितं स्वस्मै अर्जितं तपसः फलं किञ्चिदपि यद्यस्ति तर्हि तस्य तपसस्तेजसा प्रभावेण सशरीरस्त्वं दिवं व्रज । हिशब्दो यद्यर्थे । सार्धश्लोक एकान्वयी ॥ १।६०।१४ ॥
उक्तेति । हे काकुत्स्थ तदा देवागमनाभावकाले तस्मिन्मुनौ विश्वामित्रे उक्तवाक्ये सति मुनीनां पश्यतां सतां नरेश्वरः त्रिशङ्कुः सशरीरो दिवं जगाम ॥ १।६०।१५ ॥
देवेति । सर्वैः सुरगणैः सह पाकशासनः इन्द्रः देवलोकं गतं त्रिशङ्कुं दृष्ट्वा इदं वचनमब्रवीत् ॥ १।६०।१६ ॥
तद्वचनमेवाह त्रिशङ्को इति । हे त्रिशङ्को त्वं भूयः पुनर्गच्छ पृथिवीमिति शेषः । सहेतुं गमनप्रकारं बोधयन्नाह हे मूढ यतस्त्वं गुरुशापहतो ऽतः स्वर्गे कृतः पुण्येन सम्पादितः आलयो गृहं येन स त्वं नासि अतो अवाक्शिराः त्वं भूमिं पत ॥ १।६०।१७ ॥
एवमिति । महेन्द्रेण एवमुक्तस्त्रिशङ्कुस्तपोधनं विश्वामित्रं त्राहीति विक्रोशमानः सन् पुनरपतत् ॥ १।६०।१८ ॥
तदिति । क्रोशमानस्य तस्य त्रिशङ्कोः तदाह्वानसूचकं वचनं श्रुत्वा तीव्रक्रोधमाहारयदकरोत् देवेशोपरीति शेषः । तिष्ठ तिष्ठेति अब्रवीच्च ॥ १।६०।१९ ॥
क्रोधमूलकत्रिशङ्कुभोग्यस्वर्गान्तरनिर्माणाय विश्वामित्रकर्तृकसप्तऋष्यादिसर्जनमाह ऋषीत्यादिना । ऋषिमध्ये स्थितः तेजस्वी अतिशयतेजोविशिष्टः क्रोधमूर्च्छितः अपरः प्रजापतिरिव स विश्वामित्रः दक्षिणमार्गस्थानं अपरान् सप्तर्षीन् सृजन् सन् अपरां नक्षत्रमालां नक्षत्रपङ्क्तिं पुनः असृजत् । सार्धश्लोक एकान्वयी ॥ १।६०।२० ॥
दक्षिणामिति । महायशाः क्रोधेन कलुषीकृतः क्रोधव्याप्तचित्तः सक्रः अतिव्यापारसहितः अधः क्रोधान्तर्नियमनरहितः मुनिमध्ये स्थितः विश्वामित्रः दक्षिणां दिशमास्थाय नक्षत्रवंशं नक्षत्रपङ्क्तिं सृष्ट्वा अन्यमिन्द्रमहं करिष्यामि रचयिष्यामि वा सति प्रबलप्रतिबन्धे लोकः मद्रचितः स्वर्गः अनिन्द्रकः इन्द्ररहित एव स्यात् इति सङ्कल्प्य दैवतान्यपि स्रष्टुं समुपचक्रमे । चशब्द एवार्थे द्वयोरेकत्रान्वयः ॥ १।६०।२१,२२ ॥
तत इति । ततः सप्तऋष्यादिसर्जनात् परमसम्भ्रान्ताः अत्युद्वेगं प्राप्ताः सर्षिसङ्घा ऋषिसङ्घसहिताः सुरासुराः देवदानवाः महात्मानं विश्वामित्रं सानुनयमनुनयसहितं वचः ऊचुः ॥ १।६०।२३ ॥
तद्वचनमेवाह अयमिति । हे महाभाग हे तपोधन अयं राजा त्रिशङ्कुः यतः गुरुशापपरिक्षतः गुरुशापकरणकपरिक्षयं प्राप्तः इति अतः सशरीरः दिवं यातुं नार्हति ॥ १।६०।२४ ॥
तेषामिति । तेषामृष्यादिसहितानां देवानां तत् शान्तिकारकं वचनं श्रुत्वा मुनिपुङ्गवः कौशिकः सर्वदेवतासु तद्वाक्यमब्रवीत् ॥ १।६०।२५ ॥
तद्वचनमेवाह सशरीरस्येति । वो युष्मभ्यं भद्रं शान्तिवक्तृत्वाद्भवद्भिरुक्तं तथैवास्त्विति भावः ।
सशरीरस्य भूपतेरस्य त्रिशङ्को प्रतिज्ञातमारोहणं स्वर्गप्राप्तिमनृतं मिथ्याकर्तुं न उत्सहे एतेन मदुक्तमपि तथैवास्त्विति सूचितम् ॥ १।६०।२६ ॥
विरुद्धं धर्मद्वयमेकस्मिन्नेककालावच्छेदेन कथं स्यादित्यत आह स्वर्ग इति । सशरीरस्य त्रिशङ्कोः एष मत्कल्पितः शाश्वतश्चिरकालस्थायी स्वर्गो ऽस्तु । अथ अतः मामकानि मद्रचितानि सर्वाणि नक्षत्राणि ध्रुवाणि बहुकालस्थायीन्येव सन्तु एतेनास्मत्प्रतिज्ञातं भवदुक्तं च सेत्स्यतीति बोधितम् । चशब्द एवार्थे ॥ १।६०।२७ ॥
तदेवोपसंहरन्नाह यावदिति । लोकाः ब्रह्मरचितभुवनानि यावत्कालं धरिष्यन्ति प्रजा इति शेषः तावत्कालमेतानि सर्वशः कृत्स्नानि मत्कृतानि तिष्ठन्तु । सर्वे सुराः तन्मत्प्रार्थितमनुज्ञातुं यूयमर्हथ ॥ १।६०।२८ ॥
एवमिति । एवमनेन प्रकारेणेक्ताः सर्वे ऋष्यादिसहिताः सुराः मुनिपुङ्गवं विश्वामित्रं प्रत्यूचुः । तद्वचनमेवाह ते भद्रं भवतु तानि प्रसिद्धानि अनेकानि एतानि भवत्कल्पितानि सर्वशः सकलानि नक्षत्राणि वैश्वानरपथान् ज्योतिःशास्त्रादिप्रतिपादितज्योतिश्चक्राध्वनो बहिरेवमेव गगने तिष्ठन्तु । हे मुनिश्रेष्ठ अवाक्शिराः अमरसन्निभः त्रिशङ्कुस्तु जाज्वलन् सन् तेषु भवत्कल्पितेषु ज्योतिष्षु तिष्ठतु । एतानि भवत्कल्पितानि ज्योतींषि कृतार्थं कृतो निष्पादितः अर्थः स्वर्गसुखप्राप्तिर्येन तमत एव कीर्तिमन्तं नृपसत्तमं त्रिशङ्कुं स्वर्गलोकगतं यथा ब्रह्मनिर्मितस्वर्गलोकं प्राप्तमिवानुयास्यन्ति । एकश्चस्त्वर्थे द्वितीय एवार्थे । सार्धश्लोकत्रयमेकान्वयि ॥ १।६०।२९३१ ॥
विश्वामित्र इति । धर्मात्मा सर्वदेवैरभिष्टुतः ऋषिभिः सह स्थितः महातेजाः विश्वामित्रस्तु सर्वदेवताः बाढमित्येवावददिति शेषः । ऋषिभिरिति स्तुत्यन्वयि वा ॥ १।६०।३२,३३ ॥
तत इति । हे नरोत्तम राम ततः विश्वामित्रदेवतासंवादानन्तरं सर्वे देवाः महात्मानः तपोधनाः मुनयश्च यथागतं यज्ञस्य विश्वामित्रसमापितयागस्यान्ते जग्मुः ॥ १।६०।३४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षष्टितमः सर्गः ॥ १।६० ॥