०५९ वसिष्ठपुत्रशपनम्

त्रिशङ्कुप्रार्थनोत्तरकालिकं वृत्तमाह उक्तेति । उक्तवाक्यं कथितस्ववृत्तं चाण्डालरूपिणं राजानं त्रिशङ्कुं कुशिकात्मजो विश्वामित्रः कृपया मधुरं वाक्यं साक्षादेवाब्रवीत् । साक्षादब्रवीदित्यनेन चाण्डालः साक्षादभिभाषणानर्ह इति निषेधस्यानर्हः स इति ध्वनितम् । तेनकर्मणा जात्या च स न चाण्डाल इति व्यञ्जितम् । अत एव चाण्डालरूपिणमिति विशेषणम् । तुशबद एवार्थे ॥ १।५९।१ ॥

तद्वचनमेवाह इक्ष्वाको इति । इक्ष्वाको हे इक्ष्वाकुकुलोद्भव वत्स नृपपुङ्गव त्वां सुधार्मिकमहं जानाम्यतः स्वागतं समीचीनं तवागमनमतस्ते शरणं रक्षको ऽहं भविष्याम्यतो मा भैषीः भयं न प्राप्नुहि ॥ १।५९।२ ॥

अहमिति । हे राजन् पुण्यकर्मणः यज्ञसाह्यकरान् त्वच्चिकीर्षितयज्ञसाहाय्यकर्तृ़न् सर्वान् महर्षीनहमामन्त्रये ततो निर्वृतः प्राप्तानन्दस्त्वं यक्ष्यसि ॥ १।५९।३ ॥

गुर्विति । गुरुशापकृतं यदिदं रूपं त्वयि वर्तते ऽनेन रूपेण सह सशरीरः शरीरसहितस्त्वं गमिष्यसि स्वर्गमिति शेषः । अनेन रूपेणेत्युक्त्या गुरुशापनिवारणे स्वाशक्यत्वं सूचितम् ॥ १।५९।४ ॥

नन्वनेन रूपेण स्वर्गप्राप्तिर्दुर्लभेत्यत आह हस्तेति । हे नराधिप यस्त्वं शरण्यं शरणहितं कौशिकमागम्य ज्ञात्वा शरणं रक्षा यथा स्यात्तथा गतः प्राप्तस्तस्य तव स्वर्गं हस्तप्राप्तमहं मन्ये निश्चिनोमि ॥ १।५९।५ ॥

एवमिति । महातेजाः अतिशयतेजोविशिष्टो विश्वामित्रः एवमुक्त्वा त्रिशङ्कुमाभाष्य महाप्राज्ञान् पुत्रान् स्वात्मजान् यज्ञसम्भारकारणात् यागसम्पादकसामग्रीसम्पादनहेतोः व्यादिदेश आज्ञापयामास ॥ १।५९।६ ॥

सर्वानिति । सर्वान्निखिलान् शिष्यान् समाहूयैतद्वाक्यमुवाच । तद्वचनमेवाह सवासिष्ठान् वाशिष्ठसहितान् सशिष्यान् शिष्यसहितान् सर्वान् ऋषीन् सर्त्विजः ऋत्विक्सहितान् सुबहुश्रुतान् वेदशास्त्रसम्पन्नान् सुहृदश्च ममाज्ञयैवानयध्वम् । सार्धश्लोक एकान्वयी । हशब्द एवार्थे ॥ १।५९।७,८ ॥

यदिति । मद्वाक्यबलचोदितः मद्वाक्यरूपबलप्रेरितः मदाहूत इति यावत् । अन्यः अनाहूतो वा अनादृत उदासीनं निन्दाफलकं वा वचनं ब्रूयात् अखिलेनोक्तं तत्सर्वं ममाख्येयं सर्वैर्भवद्भिरागत्य ममाग्रे यथावृत्तं वक्तव्यमित्यर्थः ॥ १।५९।९ ॥

तस्येति । तस्य विश्वामित्रस्य तत् आह्वानार्थकं वचनं श्रुत्वा तदाज्ञया विश्वामित्राज्ञापनेन दिशो जग्मुः । अथ विश्वामित्रप्रेषिततच्छिप्यवचनश्रवणानन्तरं सर्वेभ्यो देशेभ्यो ब्रह्मवादिन आजग्मुः ॥ १।५९।१० ॥

ते प्रेषिताः सर्वे शिष्यास्तु समागम्य आहूतमुन्यागमनात्पूर्वं विश्वामित्रसमीपं प्राप्यैव ज्वलिततेजसं मुनिं विश्वामित्रं सर्वेषां ब्रह्मवादिनां वचनमुक्तिमूचुः यथोक्तं कथयामासुरित्यर्थः । एकश्चकार एवार्थे द्वितीयस्त्वर्थे । श्लोकद्वयमेकान्वयि ॥ १।५९।११ ॥

तद्वचनमेवाह श्रुत्वेति । सर्वदेशेषु भवदाज्ञप्तेषु अगच्छन् अस्मदादय इति शेषः । ते वचनं अस्मदाद्युक्तत्वत्सन्देशं श्रुत्वा महोदयं महोदयनामानमृषिं वर्जयित्वा सर्वे आहूताः द्विजातयः चकारेण सुहृदादयश्च समायान्ति । महोदयं वर्जयित्वेत्यनेन तस्य वशिष्ठपुत्रानुयायित्वं ध्वनितम् ॥ १।५९।१२ ॥

वासिष्ठमिति । हे मुनिपुङ्गव शतं शतसङ्ख्याकं सर्वं वाशिष्ठं वशिष्ठापत्यं यत् क्रोधपर्याकुलाक्षरं क्रोधव्याप्ताक्षरविशिष्टं वचनमाह तत् सर्वं त्वं शृणु ॥ १।५९।१३ ॥

वाशिष्ठवचनमेवाह क्षत्रिय इति । यस्य चाण्डालस्य विशेषतः प्राधान्यात् क्षत्रियो याजकः तस्य सदसि यागशालायां सुरर्षयः सुराश्च ऋषयश्च हविर्भोक्तारः कथं न भोक्तार इत्यर्थः ॥ १।५९।१४ ॥

पूर्वमनधिकारियाजकप्रयुक्ताशुद्धिं हविष उक्त्वा इदानीमनधिकारियाज्यप्रयुक्ताशुद्धिंहविषो बोधयन्नाह ब्राह्मणा इति । महात्मानो विश्वामित्रेण पालिता अपि ब्राह्मणाः चाण्डालभोजनं चाण्डालस्वामिकमन्नं भुक्त्वा स्वर्गं सुखविशेषं कथं गमिष्यन्ति प्राप्स्यन्ति न प्राप्स्यन्तीत्यर्थः । एतेन इयं यागप्रवृत्तिः अत्यनर्थहेतुरिति ध्वनितम् । वाशब्दो ऽप्यर्थे ॥ १।५९।१५ ॥

उपसंहरन्नाह एतदिति । हे मुनिशार्दूल संरक्तलोचनाः सहमहोदयाः महोदयसहिताः सर्वे वाशिष्ठाः एवद्वर्णितं वचननैष्ठुयं निष्ठुरवचनमूचुः नैष्ठुर्यशब्दः स्वार्थेष्यञन्तः ॥ १।५९।१६ ॥

तेषामिति । तेषां प्रसिद्धानां सर्वेषां समहोदयवाशिष्ठानां तद्वचनं श्रुत्वा स्वशिष्यमुखादवगत्य क्रोधसंरक्तनयनः मुनिपुङ्गवो विश्वामित्रः सरोषं रोषसहितमिदं वचनमब्रवीत् ॥ १।५९।१७ ॥

तदुक्तिमेवाह यदिति । उग्रं तपः समास्थितं कुर्वन्तमत एव अदुष्टं दोषस्पर्शानर्हं मां दुरात्मानः स महोदयवासिष्ठाः यत् यस्माद्दूषयन्ति तस्मात् भस्मीभूताः भविष्यन्ति अत्र संशयो न ॥ १।५९।१८ ॥

अद्येति । अद्य भस्मीभवनोत्तरकाले वैवस्वतक्षयं यमराजगृहं कालपाशेनैव नीतास्ते वाशिष्ठा भविष्यन्तीत्यनुकृष्यते । वैवस्वतभवनगमनोत्तरकालिकं वृत्तमाह सप्तजातिशतानि सप्तगुणितजन्मशतम् सर्वशो वासिष्ठाः मृतपाः श्वपाकाः सन्तु ॥ १।५९।१९ ॥

तदेव विशदयन्नाह श्वमांसेति । श्वमांसनियताहाराः अत एव निर्घृणाः अत एव विकृकताः विरुद्धप्रयत्नकाः विरूपाः विकृतरूपाः मुष्टिका चाण्डालजातिविशेषाः सन्तः इमान् लोकान् नाम प्रसिद्धमनुचरन्तु । चकारद्वयं हेत्वर्थकम् ॥ १।५९।२० ॥

महोदय इति । दुर्बुद्धिर्महोदयो ऽपि अदूष्यं मां यददूषयत् तस्मात्सर्वलोकेषु दूषितः सन् निषादत्वं गमिष्यति प्राप्स्यति चो ऽप्यर्थे ॥ १।५९।२१ ॥

निषादत्वमेव प्रकटयन्नाह प्राणेति । प्राणातिपातनिरतः प्राणानां प्राणिनां यो ऽतिपातो हिंसा तत्र निरतः अत एव निरनुक्रोशतां निर्दयत्वं गतः प्राप्तो महोदयः दुर्गतिं मम क्रोधात् दीर्घकालं बहुकालपर्यन्तं वर्तयिष्यति प्राप्स्यति ॥ १।५९।२२ ॥

एतावदिति । महातपाः अत एव महातेजाः महामुनिर्विश्वामित्रः एतावद्वचनमृषिमध्ये उक्त्वा विरराम ॥ १।५९।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनषष्टितमः सर्गः ॥

१।५९ ॥