०५८ त्रिशङ्कुशापः

फ़् त्रिशङ्कुप्रार्थनानन्तरकालिकं वृत्तमाह तत इति । ततः त्रिशङ्कुप्रार्थनानन्तरं हे राम त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितं क्रोधाविष्टमृषिपुत्रशतं राजानमिदमब्रवीत् ॥ १।५८।१ ॥

तद्वचनमेवाह प्रत्याख्यात इति । हे दुर्बुद्धे सत्यवादिना मृषासंसर्गशून्येन गुरुणा प्रत्याख्यातस्त्वं तं गुरुमतिक्रम्य शाखान्तरमाश्रयान्तरं कथमुपेयिवान् प्राप्तो ऽसि ॥ १।५८।२ ॥

तदतिक्रमस्यानौचित्यं बोधयन्नाह इष्वाकूणामिति । सर्वेषामिक्ष्वाकूणां पुरोधा एव परमो गुरुः अतः सत्यवादिनः पुरोधसः वचनमतिक्रमितुमुल्लङ्घितुं न शक्यम् । च शब्द एवार्थे ॥ १।५८।३ ॥

तन्निवारितकार्यस्याशक्यत्वं बोधयन्त आहुः अशक्यमिति । भगवान् सकलसामर्थ्यविशिष्टः ऋषिः सर्वज्ञः यमशक्यमेव उवाच तमेव तव क्रतुं समाहर्तुं कारयितुं वयं कथं समर्थाः । इतिशब्देनान्ये ऽपि कथं समर्थाः न कथञ्चिदित्यर्थः । चवैशब्दावेवार्थौ । एतेन तत्प्रत्याख्यातकार्यं प्रत्याशा न कर्तव्येति ध्वनितम् ॥ १।५८।४ ॥

तदेवोपसंहरन्नाह बालिश इति । हे नरश्रेष्ठ त्वं बालिशः समीचीनविचारयोग्यमत्यभाववानसि अतस्त्वया पुनः स्वपुरमेव गम्यताम् । एतेन वयं न याजयिष्याम इति ध्वनितम् । तत्र हेतुमाह हे पार्थिव भगवान् परममाहात्म्यविशिष्टस्त्रैलोक्यस्यापि याजने शक्तः समर्थः यो वशिष्ठस्तस्यावमानं वयं कथं शक्ष्यामहे ॥ १।५८।५ ॥

तेषामिति । तेषां वशिष्ठपुत्राणां क्रोधपर्याकुलाक्षरं तद्वचनं श्रुत्वा स राजा त्रिशङ्कुः एतान् गुरुपुत्रान् पुनरपि इदं वचनमब्रवीत् । एवो ऽप्यर्थे ॥ १।५८।६ ॥

तद्वचनमेवाह प्रत्याख्यात इति । हे तपोधनाः भगवता गुरुणा तथा गुरुपुत्रैर्भवद्भिश्च प्रत्याख्यात एवाहमन्यां गतिमाश्रयं गमिष्यामि वो युष्मभ्यं स्वस्त्यस्तु ॥ १।५८।७ ॥

ऋषीति । घोराभिसहितं श्रुतिकटुताविशिष्टं तद्वाक्यं श्रुत्वैव परमसङ्क्रुद्धा ऋषिपुत्राः त्वं चण्डालत्वं गमिष्यसि प्राप्स्यसीति शेषुः । तुशब्द एवार्थे ॥ १।५८।८ ॥

इतीति । महात्मानस्ते वशिष्ठपुत्रा इत्युक्त्वा स्वमाश्रमं विविशुः । अथ रात्र्यां निशायां व्यतीतायां राजा त्रिशङ्कुः चण्डालतां गतः प्राप्तः स्वं चाण्डालरूपमपश्यदित्यर्थः ॥ १।५८।९ ॥

चाण्डालतारूपमेव बोधयन्नाह नीलेति । नीलवस्त्रधरः नीलः नीलदेहः पुरुषः रूक्षत्वविशिष्टः ध्वस्तमूर्धजः अदीर्घकेशः चित्यमाल्यानुलेपः चितिः श्मशानं तत्र भवं चित्यं भस्म तेन कृतः माल्यानुलेपः पुष्पाकारानुलेपो येन । किञ्च तेन युक्तौ माल्यानुलेपौ यस्य सः आयसाभरणः लोहभूषणयुक्तश्चाभवत् इति शेषः ॥ १।५८।१० ॥

तमिति । हे राम चाण्डालरूपिणं तं राजानं सर्वे मन्त्रिणः ये अस्यानुगामिनस्ते सर्वे पौराश्च सहिताः सहैवेत्यर्थः । दृष्ट्वा त्यज्य त्यक्त्वा च प्राद्रवन् ततो भीताः द्रुतं देशान्तरमगच्छन् । विनापि चं

समुच्चयः ॥ १।५८।११ ॥

एक इति । हे काकुत्स्थ दिवारात्रं दह्यमानः शोकव्याकुलचित्तः परमात्मवान् अतिधैर्यः राजा त्रिशङ्कुस्तपोधनं विश्वामित्रमेक एव जगाम । हिशब्द एवार्थे ॥ १।५८।१२ ॥

विश्वामित्र इति । हे राम विफलीकृतं यागप्रत्याख्यानशापाभ्यां विध्वंसितोभयलोकसुखं चण्डालरूपिणं तं राजानं त्रिशङ्कुं दृष्ट्वैव मुनिर्विश्वामित्रः कारुण्यमागतः प्राप्तः । तुशब्द एवार्थे ॥ १।५८।१३ ॥

कारुण्यादिति । महातेजाः परमधार्मिकः स विश्वामित्रः घोरदर्शनं राजानं त्रिशङ्कुं ते भद्रं कल्याणमस्तु इदं वाक्यं कारुण्यात् जगाद ॥ १।५८।१४ ॥

तद्वचनमेवाह किमिति । हे राजपुत्र हे महाबल अयोध्याधिपते वी यस्त्वं शापाच्चण्डालतां गतस्तस्य ते तवागमनकार्यमिहागमने प्रयोजनं किं तद्वदेति भावः । एतेन त्रिशङ्कुशापः पूर्वमेव विश्वामित्रेण श्रुत इति ध्वनितम् ॥ १।५८।१५ ॥

अथेति । अथ विश्वामित्रोक्त्यनन्तरं तद्वाक्यं विश्वामित्रवचनमाकर्ण्य चण्डालतां गतः प्राञ्जलिः वाक्यज्ञः राजा त्रिशङ्कुः वाक्यकोविदं विश्वामित्रमब्रवीत् ॥ १।५८।१६ ॥

तद्वचनमेवाह प्रत्याख्यात इति । गुरुणा तथा गुरुपुत्रैश्चाहं प्रत्याख्यातो ऽस्मि अतस्तं कामं स्वेच्छाविषयीभूतप्रयोजनमनवाप्यैव विपर्ययः इच्छाविषयीभूताद्विरुद्धो ऽर्थो मया प्राप्तः । एक एवो हेतौ ॥ १।५८।१७ ॥

ननु कस्ते कामो यं न प्राप्तो ऽसि इत्यत आह सेति । हि सौम्यदर्शन सशरीरो ऽहं दिवं यायामिति हेतोः क्रतुशतं मे इष्टं मदिच्छाविषयीभूतं तत्क्रतुशतं मया नावाप्यते गुर्वादिभिः प्रत्याख्यातत्वान्न कृतमित्यर्थः । अत एव फलं सशरीरस्वर्गगमनं च नावाप्यते न प्राप्तमित्यर्थः । एकश्चशब्दो हेत्वर्थे नावाप्यत इत्युभयान्वयि ॥ १।५८।१८ ॥

गुरोर्गुरुपुत्राणां वा ऽपराधान्तरं मया न कृतमिति बोधयितुमाह अनृतमिति । मे मया अनृतं मिथ्या नोक्तपूर्वम् अत एव हे सौम्य कृच्छ्रेषु अपि गतः प्राप्तः क्षत्रधर्मेण स्थितो ऽहं कदाचनानृतं न वक्ष्ये अत्र विश्वासार्थं ते तुभ्यमहं शपे । चो हेतौ ॥ १।५८।१९ ॥

सर्वकालं सद्वृत्तत्वात्पापान्तरस्यापि मयि सम्भावना न कर्तव्येति बोधयितुमाह यज्ञैरिति । बहुविधैरनेकप्रकारैर्यज्ञैः राजोचितयागैर्मया इष्टं धर्मेण प्रजाः पालिताः महात्मानः पूज्यस्वरूपा गुरवश्च शीलयुक्तेन शीलवदाचरणेन तोषिताः ॥ १।५८।२० ॥

यदर्थं गुरवः पश्चादपरितुष्टास्तत्र हेतुं न विद्म इति बोधयितुं पूर्ववृत्तमाह धर्मे इति । हे मुनिपुङ्गव धर्मे प्रयतमानस्य स्वधर्माचरणनिरतस्य यज्ञं सशरीरस्वर्गप्राप्तिफलकशतसङ्ख्याकयागमाहर्तुं कर्तुं इच्छतो ममोपरि गुरवः परितोषं नैव गच्छन्ति अगच्छन् । एतेनापरितोषे हेतुरन्वेषणीय इति ध्वनितम् । चशब्द एवार्थे ॥ १।५८।२१ ॥

स्वनिश्चितहेतुं वदन्नाह दैवमिति । अहं दैवं भाग्यमेव परं हेतुं मन्ये ऽत एव पौरुषं निरर्थकमर्थाप्रापकं मन्येतत्र हेतुः यतः सर्वं दैवेनाक्रम्यते क्रियते ऽत एव परमा गमिर्दैवमेव । तुशब्दो हेत्वर्थे हिशब्द एवार्थे ॥ १।५८।२२ ॥

इदानीं तत्कर्तव्यमाह तस्येति । परमार्तस्यात्यन्तदुःखं प्राप्तस्य प्रसादं स्वचित्तप्रसन्नतामभिकाङ्क्षतस्तस्य गुरुपुत्रैः शप्तस्य मे मम प्रसादं कर्तुमर्हसि ते भद्रमस्तु । प्रसादस्यान्वयः एकत्र शाब्दः अपरत्रार्थः ॥ १।५८।२३ ॥

भवन्तमन्तरा गत्यन्तरं मे नास्तीति बोधयन्नाह नेति । यतः मे शरणं रक्षकः अन्यः त्वद्भिन्नो

नास्ति अतः अन्यां त्वद्भिन्नां गतिं रक्षकं न गमिष्यामि प्राप्स्याम्यतः पुरुषकारेण स्वपौरुषेण दैवं मम दुर्भाग्यं निवर्तयितुं त्वमर्हसि ॥ १।५८।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे ऽष्टपञ्चाशः सर्गः ॥ १।५८ ॥