०५७ त्रिशङ्कोर् यजनप्रार्थना

तत इति । ततः करणनिश्चयानन्तरं हे राघव आत्मनः स्वस्य निग्रहं वशिष्ठकर्तृकपराभवं स्मरन् सन्सन्तप्तहृदयः महात्मना वशिष्ठेन कृतवैरः महातपाः स विश्वामित्रः विनिःश्वस्य विनिःश्वस्य महिष्या कृताभिषेकया पत्न्या सह दक्षिणां दिशं गत्वा परममत्युत्कृष्टं घोरं शत्रुभयङ्करं तपस्तताप द्वयोरेकत्रान्वयः ॥ १।५७।१,२ ॥

फलेति । फलमूलाशनः फलमूलमात्रभोक्ता अत एव दान्तः नियमितोभयकरणः विश्वामित्रः परमं तपश्चकार । अथ तपःप्रारम्भानन्तरमस्य विश्वामित्रस्य सत्यधर्मपरायणाः हविष्यन्दादयः पुत्राः जज्ञिरे सार्धश्लोक एकान्वयी ॥ १।५७।३ ॥

पूर्ण इति । वर्षसहस्रे पूर्णे सत्येव लोकपितामहो ब्रह्मा तपोधनं विश्वामित्रं मधुरं वाक्यमब्रवीत् । तुशब्द एवार्थे ॥ १।५७।४ ॥

तद्वचनमेवाह जिता इति । हे कुशिकात्मज ते तव तपसा राजर्षिलोका जिताः अतः अनेन राजर्षिलोकसम्पादकेन तपसा त्वां राजर्षिरिति विद्महे ॥ १।५७।५ ॥

एवमिति । एवमनेन प्रकारेण उक्त्वा महातेजा लोकानां परमेश्वरः ब्रह्मा दैवतैः सह त्रिविष्टपं सुरलोकं ब्रह्मलोकं स्वलोकं च जगाम । विनापि चं समुच्चयः । अत्र त्रिविष्टपं जगामेत्युक्त्या तत्र इन्द्रं संस्थापयामास इति ध्वनितम् । तेनेन्द्रस्य विश्वामित्रतपोभीतत्वं व्यञ्जितम् । सार्धश्लोक एकान्वयी ॥ १।५७।६ ॥

विश्वामित्र इति । तद्ब्रह्मवचनं श्रुत्वा ह्रिया लज्जया किञ्चिदवाङ्मुखः महता दुःखेन आविष्टः

समन्युः क्रोधसहित इव विश्वामित्रः इदं वचनमब्रवीत् । अपिरिवार्थे ॥ १।५७।७ ॥

तद्वचनमेवाह तप इति । सर्षिगणाः ऋषिगणसहिताः सर्वे ब्रह्मप्रभृतयः देवाः येन मया सुमहत् अत्युत्कृष्टं तपस्तप्तं तं मां राजर्षिरिति विदुः अतस्तपःफलं मे नास्तीत्यहं मन्ये ॥ १।५७।८ ॥

एवमिति । हे काकुत्स्थ महातपाः परमात्मवान् अतिप्रयत्नविशिष्टः विश्वामित्रः एवमनेन प्रकारेण मनसा निश्चित्य विचारपूर्वकनिश्चयमवगत्य भूयो ऽपि परमं तपश्चकार । एवो ऽप्यर्थे ॥ १।५७।१० ॥

एतस्मिन्निति । हे राघव एतस्मिन्काले विश्वामित्रतपश्चरणसमय एव सत्यवादी जितेन्द्रियः नियमितोभयकरणः इक्ष्वाकुकुलवर्धनः यस्त्रिशङ्कुरिति विख्यात आसीत् तस्य बुद्धिः अहं यजेयं तेन स्वशरीरेणैव देवानां परमां गतिं स्वर्गमित्यर्थः गच्छेयमिति बुद्धिर्निश्चयः समुत्पन्ना । तुशब्द एवार्थे । श्लोकद्वयमेकान्वयि ॥ १।५७।११,१२ ॥

वसिष्ठमिति । स त्रिशङ्कुः वशिष्ठं समाहूय चिन्तितं स्वविचारितं कथयामास । अनन्तरं महात्मना वशिष्ठेनाशक्यमिदमिति त्रिशङ्कुरुक्तः । चशब्दो ऽनन्तरार्थे अपिरिदमर्थे ॥ १।५७।१३ ॥

प्रत्याख्यात इति । वसिष्ठेन प्रत्याख्यातः स नृपः त्रिशङ्कुः दक्षिणां दिशं ययौ । ततः दशिणदिग्गमनानन्तरं तत्कर्मसिद्ध्यर्थं तस्य चिकीर्षितस्य कमणः सशरीरस्वर्गप्रापकयागस्य सिद्ध्यर्थं तस्य वशिष्ठस्य पुत्रान् गतः प्राप्तः ॥ १।५७।१४ ॥

तत्स्थानं बोधयन्नाह वाशिष्ठा इति । दीर्घतपसः शतं वाशिष्ठाः यत्र परमभास्वरं तपस्तेपिरे तस्मिन् स्थाने महातेजाः स त्रिशङ्कुर्गत इति पूर्वेणान्वयः ॥ १।५७।१५ ॥

वाशिष्ठानिति । अथ वसिष्ठपुत्रतपस्थानगमनानन्तरं तप्यमानान्यशास्विनः वाशिष्ठान्स त्रिशङ्कुः ददर्श महात्मनः सर्वान् गुरोः सुतान् स त्रिशङ्कुरभिगम्य प्राप्यैव ववन्द इति शेषः ॥ १।५७।१६ ॥

अभिवाद्येति । ह्रिया किञ्चिदवाङ्मुखः कृताञ्जलिः स त्रिशङ्कुः महात्मानः महात्मनः सर्वान् शुरोः सुतान् आनुपूर्वेण ज्येष्ठादिक्रमेणाभिवाद्याब्रवीत् । महात्मान इत्यत्र प्रथमा आर्षा किञ्च महात्मनः आनयन्ते सत्कारादिना जीवयन्ते तानिति द्वितीयान्तमेव ॥ १।५७।१७ ॥

तद्वचनमेवाह शरणमिति । वो युष्माकं शरणं रक्षकत्वं गतो ज्ञातवानहं शरणं रक्षा यथा स्यात्तथा शरण्यान् शरणहितान् वो युष्मान् प्रपद्ये प्राप्तोस्मि । एकः शरणशब्दः भावप्रधानः । गत्यर्थानां ज्ञानार्थकत्वं गमिरबोधन इत्यादिव्याख्याने स्पष्टमेव व इत्युभयान्वयि शब्दाधिकारश्च । यद्वा शरणं स्वेप्सितप्रध्वंसेन वधप्रायं गतः प्राप्तो ऽहं शरणं जीवनालम्बो यथा स्यात्तथा वो युष्मान्प्रपद्ये । ऽशरणं गृहरक्षित्रोर्वघरक्षणयोरपिऽ इति मेदिनी ॥ १।५७।१८ ॥

यष्टुकाम इति । महायज्ञं सशरीरस्वर्गप्राप्तिफलकयागं यष्टुकामः कर्तुमिच्छुरहमस्मीति शेषः । तत्तस्माद्धेतोः सर्वान् गुरुपुत्रानहं नमस्कृत्य प्रसादये अतः यूयम् आज्ञातुमर्हथ ॥ १।५७।१९ ॥

शिरसेति । तपसि स्थितान् ब्राह्मणान् शिरसा प्रणतः अहं याचे प्रार्थये । ते मत्प्रार्थिताः भवन्तः

समाहितासन्तः सशरीरो ऽहं यथावत् देवलोकमवाप्नुयामिति सिद्ध्यर्थं मा याजयन्तु । हिरेवार्थे ॥ १।५७।२० ॥

ननु सर्वयाजकशिरोमणिं गुरुं विहाय इह किमागतो ऽसीत्यत आह हे तपोधनाः अहं वशिष्ठेन प्रत्याख्यातः अतः सर्वान् गुरुपुत्रान् ऋते अन्यां काञ्चन गतिं न पश्यामि तत्र हेतुः सर्वेषा मिक्ष्वाकूणां पुरोधा वशिष्ठ एव परमा गतिः । हिशब्द एवार्थे ॥ १।५७।२१,२२ ॥

वशिष्ठस्य परमगतित्वे हेतुं वदन्नाह पुरोहिता इति । विद्वांसः पुरोहिता एव सदा नृपान्

तारयन्ति । तुरेवार्थे । तस्मात् वशिष्ठानन्तरं भवन्त एव सर्वे मम दैवतम् ॥ १।५७।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तपञ्चाशः सर्गः ॥ १।५७ ॥