०५६ वसिष्ठ-विश्वामित्र-सङ्घर्षः

वशिष्ठवचनश्रवणानन्तरकालिकं वृत्तमाह एवमिति । वशिष्ठेन एवं न भविष्यसीत्युक्तप्रकारेण उक्तः महाबलो विश्वामित्रः आग्नेयमग्निदेवताकमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेत्येवाब्रवीत् । चशब्द एवार्थे ॥ १।५६।१ ॥

विश्वामित्रोक्त्यनन्तरकालिकां वशिष्ठोक्तिमाह ब्रह्मेति । भगवान् अतिसामर्थ्यविशिष्टो वसिष्ठः अपरं कालदण्डमिव ब्रह्मदण्डं समुद्यम्य क्रोधादिदं वचनमब्रवीत् ॥ १।५६।२ ॥

तद्वचनमेवाह क्षत्रेति द्वाभ्याम् । हे क्षत्रबन्धो हे गाधिज एषः अहं स्थितो ऽस्मि यत्ते बलं त्वत्पराक्रमस्तद्दर्शय तव शस्त्रस्य दर्पं गर्वमद्यैवाहं नाशयामि । हिशब्द एवार्थे ॥ १।५६।३ ॥

क्व चेति । हे क्षत्रियपांसन क्षत्रियाधम ते तव क्षत्रियबलं क्व मम ब्रह्मबलं क्व द्वयोर्महानन्तराल इत्यर्थः । अतः महत्सर्वोत्कृष्टमेव दिव्यं प्राकृतविलक्षणं मम ब्रह्मबलं त्वं पश्य । एकश्चशब्द एवार्थे द्वितीयो हेत्वर्थे ॥ १।५६।४ ॥

विश्वामित्रप्रयुक्ताग्नेयास्त्रपराभवं वर्णयन्नाह तस्येति । घोरं शत्रुभयप्रदं गाधिपुत्रस्य तस्य प्रसिद्धस्य विश्वामित्रस्य तदाग्नेयमस्त्रमम्भसा अग्नेर्वेग इव ब्रह्मदण्डेन शान्तमासीदिति शेषः ॥ १।५६।५ ॥

वारुणमिति । रुषितो हिंसितप्रायः गाधिनन्दनो विश्वामित्रः वारुणादीन्यस्त्राणि चिक्षेप ॥ १।५६।६ ॥

मानवमिति । मानवादीनि चिक्षेपेति पूर्वेणान्वयः ॥ १।५६।७ ॥

जृम्भणमिति ॥ १।५६।८ ॥

ब्रह्मेति ॥ १।५६।९ ॥

धर्मेति ॥ १।५६।१० ॥

शक्तीति ॥ १।५६।११ ॥

उपसंहरन्नाह एतानीति । हे रघुनन्दन जपतां श्रेष्ठे वसिष्ठे एतानि सर्वान्यस्त्राणि चिक्षेप तत् प्रक्षिप्तास्त्रमद्भुतं लक्ष्यस्पर्शाभाववत्त्वेनाश्चर्यसम्पादकमेवाभवत् । अस्त्राणीति शस्त्राणामप्युपलक्षकम् । इवशब्द एवार्थे ॥ १।५६।१२ ॥

लक्ष्यास्पर्शित्वे हेतुं वदन्नाह तानीति । ब्रह्मणः सुतो वशिष्ठः तानि विश्वामित्र प्रत्युक्तानि सर्वाणि शस्त्रास्त्राणि दण्डेन ब्रह्मदण्डेन ग्रसते अग्रसत् । वर्तमानसामीप्य इति भूते लट् । अर्धं पृथगन्वयि ॥ १।५६।१३ ॥

सर्वशस्त्रप्रध्वंसनोत्तरकालिकं विश्वामित्रवृत्तमाह तेष्विति । गाधिनन्दनो विश्वामित्रः तेषु स्वप्रयुक्तशस्त्रास्त्रेषु शान्तेषु ब्रह्मदण्डेन विध्वंसितेषु ब्रह्मास्त्रं क्षिप्तवान् साग्निपुरोगमाः अग्निपुरोगमसहिताः समहोरगाः महोरगसहिताः देवाः देवर्षयश्च गन्धर्वाश्च उद्यतमुत्थितं तदस्त्रं दृष्ट्वा सम्भ्रान्ताः आसन्निति शेषः । अत एव ब्रह्मास्त्रे समुदीरिते सति त्रैलोक्यं संत्रस्तमासीत् ॥ १।५६।१४,१५ ॥

तदिति । हे राघव महाघोरं शत्रुभयप्रदं तत्प्रसिद्धं ब्राह्म्यमस्त्रमपि सर्वं सावयवं ब्राह्म्येण ब्रह्मविद्याजनिततेजसा विशिष्टो वशिष्ठो ब्रह्मदण्डेन ग्रसते अग्रसत् ॥ १।५६।१६ ॥

ब्रह्मेति । ब्रह्मास्त्रं ग्रसमानस्य महात्मनो वशिष्ठस्य त्रैलोक्यमोहनं त्रिलोकीविचित्तताजनकं तत्र हेतुः रौद्रं भयङ्करमत एव सुदारुणं दर्शनानर्हं रूपमासीत् ॥ १।५६।१७ ॥

रौद्रत्वमुपपादयन्नाह रामेति । महात्मना वशिष्ठस्य सर्वेषु रोमकूपेषु सर्वेभ्यः रोमकूपेभ्यः धूमाकुलार्चिषः धूमव्याप्ततेजसः अग्नेः मरीच्यो विस्फुलिङ्गा इव निष्पेतुः ॥ १।५६।१८ ॥

प्राज्वलदिति । वशिष्ठस्य करोद्यतः ब्रह्मदण्डः विधूमः धूमरहितः कालाग्निरिव अपरो यमदण्ड इव प्राज्वलत् ॥ १।५६।१९ ॥

तत इति । ततः भयङ्कररूपविशिष्टदण्डदर्शनानन्तरं मुनिगणाः जपतां वरं वशिष्ठमस्तुवन् । स्तवनप्रकारमाह हे ब्रह्मन् ते बलममोघं मिथ्यासंसर्गशून्यमतः तेजसा स्वशक्त्या तेजः ब्रह्मदण्डोज्ज्वलनं धारय उपशमय ॥ १।५६।२० ॥

निगृहीत इति । हे ब्रह्मन् महातपाः विश्वामित्रस्त्वया निगृहीतः अतः जपतां श्रेष्ठ वशिष्ठ त्वं प्रसीद लोकाः गतव्यथाः सन्तु तेज उपसंहरेत्यर्थः ॥ १।५६।२१ ॥

एवमिति । एवमनेन प्रकारेण उक्तः प्रार्थितः महातेजा महातपाः वशिष्ठः सामं तेजःशान्तिं चक्रे । निकृतः पराभूतः विश्वामित्रो ऽपि विनिःश्वस्य इदमब्रवीत् । ऽविनिकृतऽ इति भट्टसम्मतः पाठः निरस्तसर्वशक्तिरिति तदर्थस्तैर्वर्णितः ॥ १।५६।२२ ॥

तद्वचनमेवाह धिगिति । क्षत्रियबलं बलं धिक् ब्रह्मतेजोबलमेव बलम् । तत्र कारणमाह एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि घटो नीलघट इतिवत् बलं क्षत्रियबलमिति प्रयोगः । सर्वं वाक्यं सावधारणं भवतीति एवकारलाभः ॥ १।५६।२३ ॥

तदिति । तत्प्रसिद्धमेतद्ब्रह्मतेजःप्राबल्यं समवेक्ष्य दृष्ट्वा प्रसन्नेन्द्रियमानसः त्यक्तशोकवत्तया प्रसन्नो ऽहं यद्ब्रह्मत्वकारणं महत्तपस्तदेव समास्थास्ये । वैशब्द एवार्थे ॥ १।५६।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्चत्वारिंशः सर्गः ॥ १।५६ ॥