तत इति । ततः आकुलीभवनानन्तरं विश्वामित्रास्त्रमोहितान् अत एव आकुलान् व्याकुलचित्तान् तान् यवनादीन् दृष्ट्वा वशिष्ठश्चोदयामास धेनुमिति शेषः । तन्नोदनमेवाह हे कामधुक् योगतः योगप्रभावात् त्वं सृज अन्यानपीति शेषः ॥ १।५५।१ ॥
तस्या इति । तस्याः धेनोः हुम्भारवाद्धुङ्कारशब्दात् रविसन्निभाः सूर्यसदृशाः काम्बोजाः जाताः तस्याः ऊधसः स्तनदेशात्तु शस्त्रपाणयः एव पह्लवाः पुनः सम्भूताः । तुज्ञब्दः पुनरर्थे ॥ १।५५।२ ॥
योनीति । तस्याः योनिदेशात् यवनाः पुनर्जाताः तथा तेन प्रकारेण शकृद्देशात् गोमयनिःसरणस्थानात् शकाः यवनजातिविशेषाः जाताः । म्लेच्छाः यवनजातिविशेषाः हारिकाः किरातजातिविशेषाश्च किरातकाश्च तस्याः रोमकूपेषु जाताः । श्लोकद्वयमेकान्वयि तुश्चार्थे ॥ १।५५।३ ॥
तैरिति । तैः धेनूत्पादितकाम्बोजादिभिः सपदातिगजं पदातिगजसहितं साश्वमश्वसहितं सरथं रथसहितं विश्वामित्रस्य तत्सर्वं सेन्यं हे रघुनन्दन क्षणान्निषूदितं विनाशितम् ॥ १।५५।४ ॥
दृष्ट्वेति । महात्मना वशिष्ठेन सैन्यं विश्वामित्रसेनां निषूदितं दृष्ट्वा नानाविधायुधं अनेकप्रकारायुधविशिष्टं सुसङ्कुद्धं मतिक्रोधविशिष्टं विश्वामित्रसुतानां शतं शतसङ्ख्याकविश्वामित्र पुत्रा इत्यर्थः । जपतां मध्ये वरं श्रेष्ठं वशिष्ठमभ्य धावत् । सार्धश्लोक एकान्वयी ॥ १।५५।५ ॥
महान् ऋषिः वशिष्ठः सर्वान् तान् विश्वामित्रसुतान् हुङ्कारेणैव निर्ददाह ॥ १।५५।६ ॥
दाहमेव विशदयन्नाह ते इति । तदा धावनसमये साश्वरथपादाताः अश्वरथपदातिसहिताः ते विश्वामित्रसुताः महात्मना वशिष्ठेन मुहूर्तेन भस्मीकृताः भस्मतां प्रापिताः ॥ १।५५।७ ॥
दृष्ट्वेति । सुमहायशाः पूजनीयातियशोविशिष्टः । विश्वामित्रस्तदा पुत्रादिहननकाले सर्वान् पुत्रानृ बलं सैन्यं च विनाशितान् दृष्ट्वा सव्रीडं यथा स्यात्तथा चिन्तया आविष्टः युक्तः अभवत् ॥ १।५५।८ ॥
चिन्तास्वरूपं वर्णयन्नाह समुद्र इति । निर्वेगः समुद्र इव भग्नदंष्ट्रः उरगः सर्प इव उपरक्तः राहुणा ग्रस्तः आदित्य३ सूर्य इव सद्यः शीघ्रं निष्प्रभतां प्रभाराहित्यं गतः प्राप्तो विश्वामित्र आसीदिति शेषः ॥ १।५५।९ ॥
हतेति । हतपुत्रबलः हताः पुत्रा बलानि च यस्य अत एव लूनः शातितः पक्षो यस्य स द्विजः पक्षी इव दीनः अत एव हतदर्पः विगतगर्वः अत एव हतोत्साहः विश्वामित्रः निर्वेदं अत्यन्तखेदं समपद्यत प्राप्नोत् ॥ १।५५।१० ॥
स इति । स विश्वामित्रः राज्याय राज्यं पालयितुं क्षत्रधर्मेणैव त्वं पृथिवीं पालयेति एकं पुत्रं नियुज्य वनमेव अभ्यपद्यत चशब्द एवार्थे ॥ १।५५।११ ॥
स इति । महातपाः स विश्वामित्रः किन्नरोरगसेवितं हिमवत्पार्श्वं गत्वा महादेवप्रसादार्थं तपस्तेपे ॥ १।५५।१२ ॥
केनेति । अथ विश्वामित्रतपःप्रारम्भानन्तरमेव केनचित्कालेन वरदः निखिलाभीष्टदानसमर्थः देवेशः सकलदेवनियन्ता वृषभध्वजो महादेवः महाबलं विश्वामित्रं दर्शयामास स्वात्मानमिति शेषः । तुशब्द एवार्थे ॥ १।५५।१३ ॥
शिवोक्तिमाह किमिति । हे राजन् किमर्थं त्वं तप्यसे यत्ते विवक्षितं वक्तुमिष्टं तद्ब्रूहि ननु त्वं कोसि इत्यत आह वरदः अभीष्टदातास्मि अहमिति शेषः । अतः यः वरस्ते काङ्क्षितः इच्छावीषयीभूतः सः अभिधीयतां प्रोच्यताम् ॥ १।५५।१४ ॥
एवमिति । महातपाः विश्वामित्रः देवेन महादेवेन एवमनेन प्रकारेण उक्त आसीदिति शेषः ।
अनन्तरं माहदेवं प्रणिपत्य विश्वामित्रः इदं वचनमब्रवीत् ॥ १।५५।१५ ॥
तद्वचनमेवाह यदीति । हे महादेव हे अनघ यदि त्वं तुष्टः तर्हि साङ्गोपाङ्गोपनिषदः अङ्गोपाङ्गोपनिषदसहितः सरहस्यः रहस्यसहितः धनुर्वेदः मम प्रदीयतां “द्वन्द्वाच्चयुदषहान्तात्समाहारे” इति टच् । उपनिषदशब्दो ऽदन्तोवा रहस्यशब्दः आचार्योपदेशैकगम्यविद्याविशेषप्रतिपादकः एतेनोपनिषदशब्दे अदन्तत्वमार्षमिति भूषणोक्तिश्चिन्त्या ॥ १।५५।१६ ॥
यानीति । हे अनघ देवादिषु यानि अस्त्राणि चकारेण शस्त्राणि तानि मम प्रतिभान्तु ॥ १।५५।१७ ॥
तवेति । हे देवदेव तव प्रसादात् मम ईप्सितं भवतु वाञ्छितं प्राप्नुयामित्यर्थः । विश्वामित्रप्रार्थनोत्तरकालिकवृत्तमाह तदा विश्वामित्रप्रार्थनोत्तरकाले देवेशो महादेवः एवमस्तु इति वाक्यमुक्त्वा गतः स्वधामेति शेषः ॥ १।५५।१८ ॥
प्राप्येति । महता दर्पेण अयुक्तः पुत्रादिविध्वंसहेतुकमहादर्पकर्तृकयोगाभाववान् महाबलो राजर्षिर्विश्वामित्रस्तदा वरप्राप्तिसमये अस्त्राणि चकारेण शस्त्राणि प्राप्य दर्पपूर्णः अभवत् ॥ १।५५।१९ ॥
विवर्धमान इति । तदा दर्पपूर्णतासमये वीर्येण पर्वणि समुद्र इव विवर्धमानो विश्वामित्रः ऋषिसत्तमं वशिष्ठं हतमिव मेने । एवशब्द इवार्थे ॥ १।५५।२० ॥
तत इति । अस्त्रतेजसा युक्तः पार्थिवो विश्वामित्रः अश्रमपदं श्रमनिवर्तकवशिष्ठस्थानं ततः स्वतपस्स्थानात् गत्वा यैः सर्वं तपोवनं निर्दग्धं स्यात् तानि अस्त्राणि चकारेण शस्त्राणि मुमोच ॥ १।५५।२१ ॥
उदीर्यमाणमिति । धीमतः विश्वामित्रस्य उदीर्यमाणं तदस्त्रं दृष्ट्वा भीताः शतशो मुनयः दिशः पूर्वप्रभृतीः विप्रद्रुताः पलायिताः आसन्निति शेषः ॥ १।५५।२२ ॥
वशिष्ठस्येति । ये वशिष्ठस्य सहस्रशः शिष्यास्ते ऽपि तथा अन्यमुनय इव मृगपक्षिणश्च भयात् भयहेतुभूतास्त्रादेः भीताः सन्तः नानादिग्भ्यः प्राच्यादिभ्यः विद्रवन्ति अधावन् वर्तमानसामीप्य इति भूते लट् । एवोप्यर्थे नानादिग्भ्य इत्यत्र गत्यर्थानां द्वितीयाचतुर्थ्यावित्यनुशासनविहिता चतुर्थी । एतेन नानादिग्भ्य इति व्यत्ययेन द्वितीयार्थे चतुर्थीपञ्चमी वेति भट्टादिव्याख्यानं चिन्त्यम् ॥ १।५५।२३ ॥
वसिष्ठस्येति । अत एव महात्मनः वशिष्ठस्य अश्रमपदं शून्यमासीत् अत एव मुहूर्तं निःशब्दं शब्दरहितमत एव ईरिणसन्निभमुषरभूमिसदृशं तत्स्थानमासीत् । इवशब्दी हेत्वर्थे ॥ १।५५।२४ ॥
ननु वशिष्ठस्य तत्र सत्त्वे कथं तच्छिष्याः प्रदुद्रुवुरित्यत आह वदत इति । नीहारं भास्कर इव सूर्य इव अद्य गाधेयमहं नाशयामि अतः मा भैरिति मुहुर्मुहुर्वदतो वशिष्ठस्य वदन्तमपि वसिष्ठमनादृत्पय प्रदुद्रुवुरिति शेषः । “षष्ठीचानादरे” इत्यनुशासनविहितात्र षष्ठी । वैशब्दो ऽप्यर्थे ॥ १।५५।२५ ॥
एवमिति । तदा विश्वामित्रास्त्रप्रयोगकाले महातेजाः जपतां वरो वशिष्ठः एवमुक्त्वा पलायनपरानिति शेषः । सरोषं रोषसहितमिदं वाक्यं विश्वामित्रमब्रवीत् ॥ १।५५।२६ ॥
तद्वचनमेवाह आश्रममिति । हे मूढ यद्यस्मात् चिरसंवृद्धमाश्रमं त्वं विनाशितवानसि यद्यस्मात् दुराचारः परवस्त्वपहरणरूपनिषिद्धाचरणमनाश्चासि तस्मात्त्वं न भविष्यसि नङ्क्ष्यसीत्यर्थः । हिशब्दश्चार्थे । किञ्च यन्मूढ यतः क्रोधादिनिवृत्तेः मूः बन्धनं प्रतिबन्धकत्वमिति यावत् वहति प्राप्नोति तत्सम्बोधनम् निवृत्तिप्रतिबन्धकेत्यर्थः । दुराचारस्त्वम् यद्यस्माद्धेतोः चिरसंवृद्धमाश्रमं
विनाशितवानसि तस्मात्त्वं नैव भविष्यसि । हिशब्द एवार्थे ॥ १।५५।२७ ॥
इतीति । इति अनेन प्रकारेण उक्त्वा परमक्रुद्धः अत एव सत्वरः अत एव विधूमः धूमरहितः कालाग्निरिव वसिष्ठः अपरं यमदण्डमिव दण्डमुद्यम्य आस्ते इति शेषः ॥ १।५५।२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥