०५४ शबलापहरणम्

कामधेनुमिति । हे राम मुनिः वशिष्ठः यदा कामधेनुं न त्यजते नात्यजत् तदापि विश्वामित्रः अस्य वशिष्ठस्य शबलामन्वकर्षत हठादनयत् ॥ १।५४।१ ॥

नीयमानेति । हे राम महात्मना राज्ञा विश्वामित्रेण नीयमाना बलादाकृष्यमाणा अत एव दुःखिता अत एव रुदन्ती शोककर्षिता शोकव्याकुलचित्ता शबला तु चिन्तयामास ॥ १।५४।२ ॥

तच्चिन्तामेवाह परीति । या अहं राजभृतैः विश्वामित्रभृत्त्यैः ह्रियेय सा दीना भृशं दुःखिता अहं सुमहात्मना वशिष्ठेन किं किमर्थं परित्यक्ता ॥ १।५४।३ ॥

किमिति । भावितात्मनः चिन्तनीयस्वरूपस्य महर्षेः वशिष्ठस्य मया किंमपकृतं यत् येनाकारेण अनागसं मज्ज्ञानविषयीभूतापराधरहितां भक्तां तत्सेवापरामत एव इष्टां तदिच्छाविषयीभूतां मां धार्मिकः धर्मनिरतो वशिष्ठः त्यजति ॥ १।५४।४ ॥

इतीति । तदा स्वापकर्षणकाले इति अनेन प्रकारेण चिन्तयित्वा पुनः पुनः निश्वःस्य च सा शबला वायुवेगेनैव परमौजसं वशिष्ठं जगाम । तुशब्द एवार्थे ॥ १।५४।५ ॥

गमनप्रकारं वर्णयन्नाह निरिति । हे शत्रुसूदन तदा स्वापकर्षणकाले शतशस्तान् भृत्यान् निर्धूय निपात्य महात्मनो वशिष्ठस्य पादमूलं चरणसमीपं अनिलवेगेन जगाम शबलेति शेषः ॥ १।५४।६ ॥

शबलेति । रुदन्ती रोदनं कुर्वती क्रोशन्ती हे ऋषे इत्याह्वानं कुर्वती रुदन्ती स्वरोदनहेतुककरुणोत्पादनेन अन्यानपि रोदयन्ती च मेघनिःस्वना गम्भीरनादा सा शबला वशिष्ठस्याग्रत एव स्थित्वा इदमब्रवीत् । एकश्चशब्द एवार्थे ॥ १।५४।७ ॥

तद्वचनमेवाह भगवन्निति । हे भगवन् ब्रह्मणः सुत त्वया ऽहं किं किमर्थं परित्यक्ता यस्मात्परित्यागाद्धेतोः राजभृताः राजभटाः त्वत्सकाशतो मां नयन्ति ॥ १।५४।८ ॥

एवमिति । एवमनेन प्रकारेण उक्तः शबलया प्रार्थित एव ब्रह्मर्षिः वशिष्ठः शोकसन्तप्तहृदयां दुःखितां स्वसारमिव भगिनीसदृशीं शबलामिदं वचनमब्रवीत् । तुशब्द एवार्थे ॥ १।५४।९ ॥

तद्वचनमेवाह नेति । हे शबले त्वया मे नापकृतमतस्त्वामहं न त्यजामि महाबलः मत्तः उन्मत्त एषः राजा बलात् हठात् त्वां नयते । उपिर्हेतौ ॥ १।५४।१० ॥

नहीति । विशेषतो बलं बलवदपि मह्यं पूजनीयं ब्राह्मणकुलमद्य विवादसमये राजा राज्ञा तुल्यं नैव ब्राह्मणकुलस्य शान्तिगुणविशिष्टत्वेन युद्धानर्हत्वादिति भावः । अतो राजा प्रजाविषयकानुरागविशिष्टः पृथिव्याः पतिः क्षत्रिय एवास्मिन् विवादसमये बली । हिशब्दो ऽप्यर्थे तुशब्द एवार्थे एकश्चशब्दो हेत्वर्थे द्वितीयश्चशब्दो ऽस्मिन्नित्यर्थे पूर्वो राजा क्विबन्तप्रकृतिकस्तृतीयान्तः सञ्ज्ञापूर्वकविधेरनित्यत्त्वान्मह्यमित्यत्र वृद्धिविरहः ॥ १।५४।११ ॥

तस्य सहेतुकं बलवत्तरत्वमाह इयमिति । सवाजिरथसङ्कुला वाजिसहितरथैः सङ्कुला व्याप्ता हस्तिध्वजसमाकीर्णा हस्तिश्रेष्ठैः समाकीर्णा पूर्णा इयं विश्वामित्राक्षौहिणी अस्तीति शेषः । तेन हेतुना ऽसौ विश्वामित्रो बलवत्तरः अतिबली अस्ति ॥ १।५४।१२ ॥

एवमिति । एवं वर्णितप्रकारेण वशिष्ठेन उक्ता वचनज्ञा वचनतात्पर्यज्ञात्री सा शबला विनीतवत् विनम्रतायुक्तं वचनमतुलप्रभं ब्रह्मर्षिं वशिष्ठं प्रत्युवाच ॥ १।५४।१३ ॥

तद्वचनमेवाह नेति । क्षत्रियस्य न बलं ब्राह्मणबलापेक्षया अल्पबलमाहुः तत्वज्ञा इति शेषः । अतो ब्राह्मणाः बलवत्तराः एतेन शान्तिगुणविशिष्टत्वे ऽपि क्षत्रियादिकृतब्राह्मणापकृतिजनितदुरितध्वंसः स्वनिष्ठकरुणया ब्राह्मणैः कर्तव्य एवेति ध्वनितम् । सहेतुकं ब्राह्मणबलस्य बलवत्तरत्वं वदन्नाह हे ब्रह्मन् ब्रह्मबलं ब्राह्मणस्य तव बलं दिव्यं प्राकृतविलक्षणमतः क्षत्रात् क्षत्रियबलात् बलवत्तरमस्तीति

शेषः । ब्रह्मबलमित्युभयान्वयि । तुशब्दो हेत्वर्थे अल्पार्थको नञ् ॥ १।५४।१४ ॥

ननु सैन्यबलेन तस्य बलवत्तरत्वमक्षतमेवेत्यत आह अप्रमेयमिति । दुरासदं निवर्तयितुमशक्यं तव तेज तपोजनितप्रभाव एवमप्रमेयमियत्तारहितं तुभ्यं तव बलं सैन्यमस्तीति शेषः । अतः महावीर्यः सैन्यादिवीर्यविशिष्टः विश्वामित्रस्त्वया त्वत्तो बलवत्तरो न ॥ १।५४।१५ ॥

राजपराभवोपायं वदन्ती आह नियुङ्क्ष्वेति । हे महातेजः त्वद्ब्रह्मबलसम्भृतां तव मन्त्रबलेन सम्पोषितां मां नियुङ्क्ष्व तद्बलनाशने नियोजन तेन दुरात्मनः दुष्टस्वभावस्य तस्य विश्वामित्रस्य यद्दर्पं बलं च तत् नाशयामि । विनापि चं समुच्चयः ॥ १।५४।१६ ॥

इतीति । हे राम तया शबलया इति अनेन प्रकारेण उक्त एव महायशाः वशिष्ठः परबलार्दनं शत्रुसैन्यनाशकं बलं सैन्यं सृजस्व इति तदा धेनुप्रार्थनोत्तरसमये एवमुवाच धेनुमिति शेषः । तुशब्दौ एवार्थौ ॥ १।५४।१७ ॥

तस्येति । तदा वशिष्ठोक्तिसमये तस्य वशिष्ठस्य तद्वचनं श्रुत्वा सा सुरभिः असृजत् राजवलविघातकानिति शेषः । सर्जनप्रकारं वर्णयन्नाह हे नृप तस्याः धेनोः हुम्भारवोत्सृष्टाः हुङ्कारशब्दोत्पन्नाः शतशः पह्लवाः यवनविशेषाः तदुपलक्षितपह्लवकाम्बोजबर्बराः विश्वामित्रस्य सर्वं बलं सैन्यं विश्वामित्रस्य पश्यतः पश्यन्तं विश्वामित्रमनादृत्य नाशयन्ति अनाशयन्त वर्तमानसामीप्य इति भूते लट् । सार्धश्लोक एकान्वयी । पह्लवशकयवनकाम्बोजबर्बराद्या म्लेच्छविशेषा इति प्रसिद्धम् ॥ १।५४।१८ ॥

स इति । परमक्रुद्धः अतिक्रोधविशिष्टः अत एव क्रोधविस्फारितेक्षणः क्रोधेन विस्फारिते ईक्षणे नेत्रे येन स राजा विश्वामित्रः ॥ १।५४।१९ ॥

उच्चावचैः न्यूनाधिकभावतामापन्नैः शस्त्रास्त्रैः अपिना नर्जनादिभिः पह्लवान् नाशयामास तदा विश्वामित्रप्रहरणकाले शतशः पह्लवान् विश्वामित्रार्दितान्दृष्ट्वा अवलोक्य ॥ १।५४।२० ॥

घोरान् भयङ्करान् यवनमिश्रितान् यवनसजातीयान् शकान् भूयो ऽपि असृजत् शबलेति शेषः । तै शबलासृष्टैः यवनमिश्रितैः शकैः संवृता भूमिः आसीत् ॥ १।५४।२१ ॥

प्रभावद्भिरिति । प्रभावद्भिः अतिप्रभाविशिष्टैः महावीर्यैः अतिपराक्रमवद्भिः हेमकिञ्जल्कसन्निभैः चम्पककेशरतुल्यैः दीर्घासिपट्टिशध्ारैः बृहदस्यादिविशष्टैः हेमवर्णाम्बरावृत्तैः हेमवर्णसदृशवर्णविशिष्टवस्त्रयुक्तैः पावकैरिव प्रदीप्तैः यवनमिश्रितैः शकैः सर्वं तद्बलं विश्वामित्रसैन्यं निर्दग्धं ततः स्वसैन्यनिर्दाहानन्तरमेव महातेजाः विश्वामित्रः अस्त्राणि मुमोचा ह शब्द एवार्थे ॥ १।५४।२२,२३ ॥

तैर्विश्वामित्रास्त्रैः ते प्रसिद्धाः यवनकाम्बोजाः पह्लवाश्च आकुलीकृताः व्याकुलतां प्रापिताः ॥ १।५४।२४ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुःपञ्चाशत्तमः सर्गः ॥ १।५४ ॥