एवमिति । हे शत्रुसूदन एवमनेन प्रकारेण वशिष्ठेन उक्ता कामधुक् शबला वशिष्ठधेनुः यस्य यस्य यथा ईप्सितं तस्य तस्य कामान् तथा विदधे उत्पादयामास ॥ १।५३।१ ॥
उत्पादितपदार्थान्नामशो निर्दिशन्नाह इक्षूनित्यादित्रिभिः । इक्षून् मधून् क्षौद्रादीन् च पुंस्त्वमार्षम् । लाजांश्च मैरेयान् मैरेयाभिधधातकीपुष्पगुडधानावारिकृतमद्यविशेषांश्च वरासवान् अपक्वेक्षुरसकृतोत्तममद्यविशेषान् तथा हि ऽसीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहतम्ऽ इति माधवः । महार्हाणि बहुमूल्यकानि पानिनि पानकरसादीनि च उच्चावचान् अनेकविधान् भक्ष्यांश्च विदधे इति पूर्वेणान्वयः । तथाशब्दौ चार्थे ऽउच्चावचं नैकविधम्ऽ इत्यमरः ॥ १।५३।२ ॥
उष्णेति । उष्णाढ्यस्य उष्णत्वगुणविशिष्टस्य ओदनस्य पेर्वतोपमाः पर्वतसदृशाः राशयः अत्र अस्मिन्विश्वामित्रातिथ्ये आसन्निति शेषः । तथा तेन प्रकारेण मृष्टान्नानि पाय सविशेषाश्च सूपाः परिपक्वाढकीद्विदलादयश्च दधिकुल्याश्चासन् । एवो ऽनुक्तसमुच्चयार्थः तेन घृतकुल्यापयःकुल्यादेः
सङ्ग्रहः ॥ १।५३।३ ॥
नानेति । नानास्वादुरसानामनेकविधस्वादुविशिष्टपुष्पादिरसविशेषणां तथा तेन प्रकारेण खाण्डवानां भक्ष्यविशेषाणां च सम्बन्धीनि भोजनानि भोजनपात्राणि गौडानि गुडनिर्मितभक्ष्यविशेषपात्राणि च सहस्रशो ऽपि सुपूर्णान्येवासन्निति शेषः एकश्चशब्दो ऽप्यर्थे । किञ्च नानास्वादुरसानां तथैव खाण्डवानां च गौडानि रजतनिर्मितानि सहस्रश एव भोजनानि भोजनपात्राणि सुपूर्णान्येवासन्निति शेषः । चद्वयमेवार्थे ऽरजते गुडऽ इत्यभिधानमिति कतककृदिति भट्टाः ॥ १।५३।४ ॥
सर्वमिति । हे राम सुसन्तुष्टं विश्वामित्रसत्कारहेतुकात्यन्तसन्तोषविशिष्टं हृष्टपुष्टजनायुतं हृष्टपुष्टजनैरायुतं व्याप्तं सर्वं विश्वामित्रबलं वशिष्ठेन सुतर्पितमासीत् ॥ १।५३।५ ॥
विश्वामित्र इति । तदा आतिथ्यकाले सान्तःपुरवरः वरान्तःपुरसहितः सब्राह्मणपुरोहितः ब्राह्मणपुरोहिताभ्यां सहितः सामात्यः अमात्यसहितः मन्त्रिसहितः मन्त्रियुक्तः सभृत्यः भृत्यसहितः हृष्टपुष्टः दृष्टेन स्वाभाविकहर्षेण पुष्टः प्रवृद्धो राजर्षिर्विश्वामित्रः पूजितो ऽतिसत्कृतो ऽभवत् अत एव परमहर्षेण युक्तो विश्वामित्रः तदा वशिष्ठमिदमब्रवीत् । श्लोकद्वयमेकान्वयि विश्वामित्र इत्यावृत्त्या उभयत्रान्वेति । अपिर्हेतौ अमात्यः कर्मसाहाय्यकर्ता मन्त्री मन्त्रप्रद इति भेदः ॥ १।५३।६,७ ॥
तद्वचनमेवाह पूजित इति सार्धश्लोकद्वयेन । हे ब्रह्मन् हे वाक्यविशारद पूजार्हेण अस्मत्कर्तृकपूजायोग्येन त्वया पूजितः भोजनादिना तोषितः अत एव सुसत्कृतः भवत्कर्तृकात्यन्तसत्कारविशिष्टो ऽहं अभिधास्यामि कथयिष्यामि अतः वाक्यं मद्वचनं त्वया श्रूयताम् त्वयेत्युभयान्वयि ॥ १।५३।८ ॥
गवामिति । गवां शतसहस्रेण निष्क्रयीभूतशतसहस्रसङ्ख्याकगवीभिः मम योग्या इयं शबला दीयताम् । तत्र हेतुः हे भगवन् हि यतः एतत् शबला गौः रत्नं रत्नहारी रत्नग्रहणशीलः पार्थिव एव चशब्द एवार्थे । उपसंहरन्नाह हे द्विज तस्मात् उक्तहेतोः मे मह्यं शबलां देहि यतः धर्मतः न्यायतः एषा शबला ममैव सर्वं वाक्यं सावधारणं भवतीतिन्यायादेवकारलाभः । सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गतेति सिद्धान्तादेतच्छब्दस्य नपुंसकत्वम् ॥ १।५३।९ ॥
एवमिति । भगवान् अतिशयसामर्थ्यविशिष्टः विश्वामित्रेण एवमनेन प्रकारेणोक्तः धर्मात्मा मुनिसत्तमो वशिष्ठः महीपतिं विश्वामित्रं प्रत्युवाच ॥ १।५३।१० ॥
तत्प्रतिवचनमेवाह नेति । हे राजन् गवां शतसहस्रेण शतसहस्रसङ्ख्याकगवीभिः गवां कोटिशतैः कोटिशतसङ्ख्याकगवीभिर्वा रजतस्य राशीभिर्वा अहं शबलां न दास्यामि । अपिशब्दो वार्थे ॥ १।५३।११ ॥
दानाभावे हेतुं वदन्नाह न परीति । हे अरिदम आत्मवतो मनस्विनः शाश्वती नित्या कीर्तिरिव मह्यं प्रिया इयं शबला मत्सकाशात्परित्यागं वियोगं प्राप्तुं नार्हा । प्रिया प्राप्तुमिति चाध्याहृतम् ॥ १।५३।१२ ॥
एतत्त्यागे मम निर्वाहो नैव भविष्यतीति बोधयन्नाह अस्यामित्यादिश्लोकत्रयेण । हव्यं देवतोद्देश्यकं कव्यं पित्रुद्देश्यकं च प्राणयात्रा शरीरनिर्वाहश्च तथा अग्निहोत्रं च तथाबलिर्भूतबलिश्च तथा होमश्च अस्यां शबलायामेवायत्तम् शबलाधीनमेवेत्यर्थः । एक एवशब्दस्तथार्थे ॥ १।५३।१३ ॥
स्वाहेति । हे राजर्षे स्वाहाकारवषट्कारौ मन्त्रविशेषौ तथा विविधा अनेकप्रकारा विधाश्च एतत्सर्वं अत्र अस्यां गवि आयत्तं मन्त्रग्रहणमूलभूतानां प्राणतृप्तिबलादीनामेतज्जनितपयस्साध्यत्वेन सर्वमेतदधीनमित्यर्थः । अत्र अस्मिन्विषये संशयो न अत्रेत्युभयान्वयि ॥ १।५३।१४ ॥
तदेवोपसंहरन्नाह सर्वस्वमिति । हे राजन् एतच्छबलारूपं वस्तु मम सर्वस्वं सत्येन ब्रवीमीति शेषः । तत्र हेतुः यतः सदा मम तुष्टिकरी अतो बहुभिरनेकविधैः कारणैः अहं शबलां तव न दास्ये । सम्बन्धसामान्यविवक्षया षष्ठी ॥ १।५३।१५ ॥
वसिष्ठेनेति । एवमनेन प्रकारेणैव वशिष्ठेन उक्तः वाक्यविशारदः वाक्यार्थज्ञाने निपुणः विश्वामित्रः तदा वसिष्ठोक्त्यनन्तरसमये एव संरब्धतरमत्यन्ताभिनिवेशसूचकं अत्यर्थं उत्कृष्टार्थकं वाक्यमब्रवीत् । तुशब्द एवार्थे ॥ १।५३।१६ ॥
तद्वचनमेवाह हैरण्येत्यादिपञ्चभिः । हैरण्यकक्षाग्रैवेयान् हैरण्यानि हिरण्यनिर्मितानि कक्षाग्रैवेयानि मध्यबन्धनग्रीवाबन्धनरज्जवो येषां तान् सुवर्णाङ्कुशभूषितान् सुवर्णनिर्मिताङ्कुशसहितान् कुञ्जराणां सहस्राणि चतुर्दश चतुर्दशसहस्रसङ्ख्यातकुञ्जरान् ते तुभ्यमहं दास्यामि ऽकक्षा प्रकोष्ठे हम्र्यादेः काञ्च्यां मध्येभबन्धनेऽ इत्यमरः । ग्रैवेयानित्यादौ पुँस्त्वमार्षम् ॥ १।५३।१७ ॥
हैरण्यानामिति । हैरण्यानां हिरण्यनिर्मितानां श्वेताश्वानां चतुर्भिश्चतुर्भिर्युक् योगो येषु तेषां किङ्किणीकविभूषितान् किङ्किणीकैर्विभूषितानां रथानामष्टौ शतान् ते तुभ्यं दास्याम्येव चतुर्युजामित्येतद्घटकीभूतचतुःशब्दस्य नित्यसापेक्षत्वे ऽपि चैत्रस्य गुरुकुलमित्यादिवत्समासः । किङ्किणीकविभूषितानित्यत्र षष्ठ्यर्थे द्वितीया । चशब्द एवार्थे ॥ १।५३।१८ ॥
हयानामिति । हे सुव्रत देशजातानां काम्बोजबाह्लीकादिदेशोत्पन्नानां कुलजातानां गन्धर्वकुलप्रसूतानामत एव महौजसां हयानामेकं सहस्रं दश च दास्यामि तव तुभ्यम् ॥ १।५३।१९ ॥
नानेति । नानावर्णविभक्तानां नानावर्णैर्विभक्तानां परस्परं भेदविशिष्टानां वयःस्थानां तरुणीनां गवामेकं कोटिं ददाम्येव अतः श्ाबला ममैव दीयताम् । तथाशब्दो हेतौ । चशब्दः एवार्थे । ऽवयस्थस्तरुणो युवाऽ इति कोशः ॥ १।५३।२० ॥
उपसंहरन्नाह यावदिति । हे द्विजोत्तम यावद्रत्नं हिरण्यं वेच्छसि तावत्सर्वं ददामि तत् तस्मात् शबला ममैव दीयताम् । एको वाशब्द एवार्थे ॥ १।५३।२१ ॥
एवमिति । धीमता विश्वामित्रेण एवमनेन प्रकारेणोक्तः भगवान्वशिष्ठः हे राजन् अहं शबलां कथञ्चनापि न दास्यामीति प्राह । तुशब्दो ऽप्यर्थे ॥ १।५३।२२ ॥
दानाभावे हेतुं वदन्नाह एतदित्यारभ्यासर्गम् । जीवितम् । एतच्छबलैव मे रत्नं मण्यादि एतदेव मे धनं स्वर्णरजतादि एतदेव मे सर्वस्वं अन्नादि अत एव एतदेव मे जीवनम् । हिशब्दाः स्वस्वान्वयिनां प्रसिद्धिं द्योतयन्ति ॥ १।५३।२३ ॥
दर्श इति । दर्शादयः विविधाः अनेकप्रकाराक्रियाश्च तथा तेन प्रकारेण एतच्छबलैव । श्लोकद्वयं सम्मिलितान्वयि । एतदिति सामान्ये नपुंसकम् ॥ १।५३।२४ ॥
उपसंहरन्नाह अद इति । हे राजन् अदः शबला मूलं यासां ताः मम सर्वाः क्रियाः अत्र संशयो न अतः कामदोहिनीं शबलामहं न दास्ये बहुना प्रलापेन किं एतेन अस्याः प्राप्तौ वाञ्छां त्यजेति ध्वनितम्, तेन पुनर्न याचेति व्यञ्जितम् ॥ १।५३।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रिपञ्चाशः सर्गः ॥ १।५३ ॥