०५२ वसिष्ठ-विश्वामित्र-संवादः

तमिति । जपतां वरं श्रेष्ठं तं वसिष्ठं दृष्ट्वा परमप्रीतः अतिप्रीतिविशिष्टः महाबलः विनयात् विनम्रतातः प्रणतः प्रणामं कर्ता वीरः विश्वामित्रः महात्मना वसिष्ठेन स्वागतं तवेत्युक्त आसीदिति शेषः । अत एव भगवान् सकलसामर्थ्यविशिष्टो वसिष्ठः अस्य विश्वामित्रस्य चकारेण तत्सहचरेभ्यश्च

आसनं व्यादिदेश यथायोग्यं ददौ ह प्रसिद्धमेतत् । श्लोकद्वयमेकान्वयि ॥ १।५२।१,२ ॥

उपेति । तदा आसनदानोत्तरकाले उपविष्टाय आसने निविष्टाय धीमते विश्वामित्राय चशब्देन तत्सहचरेभ्यः यथान्यायं मुनिवरः वशिष्ठः फलमूलमुपाहरत् प्रापयत् ॥ १।५२।३ ॥

प्रतीति । राजसत्तमो महातेजा विश्वामित्रः वसिष्ठात् तां वसिष्ठकर्तृकां पूजां प्रतिगृह्य तपआदिषु त्रिषु तथा वनस्पतिगणे कुशलं पर्यपृच्छत् अत एव वसिष्ठः सर्वत्र विश्वामित्रपृष्टेषु कुशलं राजसत्तमं विश्वामित्रमाह । चशब्दो हेतौ । श्लोकद्वयमेकान्वयि ॥ १।५२।४,५ ॥

सुखेति । महातपाः अतितपोविशिष्टः जपतां श्रेष्ठः ब्रह्मणः सुतः वसिष्ठः सुखोपविष्टं सुखस्थितिमन्तं राजानं विश्वामित्रं पप्रच्छ ॥ १।५२।६ ॥

तत्प्रश्नमेवाह कच्चिदिति । हे राजन् हे धार्मिक धर्माचरणकर्तः ते तव कुशलं कच्चिदस्ति । हे राजन् राजवृत्तेन चतुर्विधेन प्रजाः रञ्जयन्सन् कच्चित्पालयसे कच्चिदिति इष्टप्रश्ने । राजवृत्तस्य चतुर्विधत्वं तु ऽन्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्ऽ इत्यादिनोक्तम् ॥ १।५२।७ ॥

कच्चिदिति । हे रिपुसूदन विश्वामित्र ते तव सुभृताः सुपोषिताः भृत्याः कच्चित्सन्तीति शेषः । भृत्यास्ते तव शासने त्वत्कर्तृकशिक्षायां कच्चित्तिष्ठन्ति । ते भृत्या इत्युभयान्वयि । सर्वे रिपवः कच्चित्ते तव विजिताः । ते इति सम्बन्धसमान्ये षष्ठी ॥ १।५२।८ ॥

कच्चिद्बलेष्विति । हे परन्तप हे नरव्याघ्र हे अनघ ते तव बलेषु सैन्येषु कोशेषु मित्रेषु च तथा पुत्रपौत्रे कच्चित् कुशलमस्ति ॥ १।५२।९ ॥

सर्वत्रेति । महातेजाः अतिशयतेजोविशिष्टः राजा विश्वामित्रः सर्वत्र वसिष्ठकर्तृकप्रश्नविषयीभूतबलादिषु कुशलं वसिष्ठं श्रेष्ठं किञ्च आ वशिष्ठमतिकान्तिमन्तं विनयान्वितं विनयो विश्वामित्रकर्तृकविनम्रता अन्वितः प्राप्तः यस्मै तम् कथयत् । आवशिष्ठशब्द आङ्पूर्वककान्त्यर्थकवशधातुप्रकृतिकौणादिकथन्प्रत्ययान्तः ॥ १।५२।१० ॥

कृत्वेति । तदा समागमकाले धर्मिष्ठौ वेदविहितानुष्ठाननिष्ठौ परमया मुदा हर्षेण युक्तौ तौ प्रसिद्धावुभौ वशिष्ठविश्वामित्रौ ताः परस्परं कुशलप्रश्नोत्तररूपाः कथाः सुचिरं कालं बहुकालपर्यन्तं कृत्वा निष्पाद्य कथयित्वेत्यर्थः परस्परं प्रीयेताम् ॥ १।५२।११ ॥

तत इति । हे रघुनन्दन ततः परस्परतृप्त्यनन्तरं कथान्ते उभयोक्तवृत्तावसाने भगवान् अतिशयसामर्थ्यविशिष्टो वशिष्टः प्रहसन् सन्नेव इदं वाक्यमुवाच । इवशब्द एवार्थे ॥ १।५२।१२ ॥

तद्वाक्यमेवाह आतिथ्यमिति । हे महाबल अप्रमेयस्य इयत्तारहितप्रभावस्य तवास्य प्रसिद्धस्य बलस्य सैन्यस्य यथार्हमेव आतिथ्यं कर्तुमिच्छामि अतो मे मम आतिथ्यं सम्प्रतीच्छ स्वीकुरु । चो हेतौ आतिथ्यमित्युभयान्वयि ॥ १।५२।१३ ॥

मदातिथ्यमवश्यं स्वीकर्तव्यमित्यत्र हेतुं वदन्नाह सदिति । मया कृतां सम्पादितामेतां सत्क्रियां भवान् प्रतीच्छतु हि यतः हे राजन् त्वमतिथिश्रेष्ठः अतो मया प्रयत्नतः पूजनीयः अतिथित्वेन सत्करणीयः ॥ १।५२।१४ ॥

एवमिति । वशिष्ठेन एवमनेन प्रकारेण उक्तो महामतिर्विश्वामित्रो राजा प्रियवाक्येन मे आतिथ्यं त्वया कृतं भवदुक्तवचनेनैवास्मत्सन्तोषो जात इत्यर्थः इत्यब्रवीत् ॥ १।५२।१५ ॥

तदेव विशदयन्नाह फलेति । हे भगवन् हे महाप्राज्ञ पूजार्हेण पूजायोग्येन यत्तवाश्रमे विद्यते तेन फलमूलेन पाद्येन आचमनीयेन च भगवद्दर्शनेन भगवतस्तव दर्शनेन च सर्वथा सर्वप्रकारेण पूजितो ऽहं गमिष्यामि अतस्ते तुभ्यं नमः अस्तु मैत्रेण चक्षुषा त्वमीक्षस्व मां पश्य । द्वयोरेकत्रान्वयः ॥

१।५२।१६,१७ ॥

एवमिति । एवमनेन प्रकारेण पुनःपुनर्ब्रुवन्तमेव राजानं विश्वामित्रमुदारधीः धर्मात्मा वशिष्ठः पुनरपि न्यमन्त्रयत । हिशब्दो ऽप्यर्थे ॥ १।५२।१८ ॥

बाढमिति । गाधेयो विश्वामित्रः बाढं स्वीकृतमेवेति वशिष्ठं प्रति उवाच । स्वीकारप्रकारमाह हे मुनिसत्तम भगवतस्तव यथाप्रियं तथैवास्तु । हशब्द एवार्थे ॥ १।५२।१९ ॥

एवमिति । ततः आतिथ्यस्वीकारानन्तरमेवमुक्तः महातेजाः अतिशयतेजोविशिष्टः जपतां वरः प्रीतो वशिष्ठः धूतकल्पमषां प्रक्षालितपङ्कादिकां कल्माषीं चित्रवर्णविशिष्टां स्वधेनुमाजुहाव ॥ १।५२।२० ॥

तत्प्रकारमाह एहीति । हे शबले शबलाभिधे क्षिप्रं शीघ्रं त्वमेहि एहि मम वचो ऽपि श्रृणु सबलस्य सैन्यसहितस्य अस्य राजर्षेर्विश्वामित्रस्य महार्हेणैव भोजनेन सत्कारं कर्तुमहं व्यवसितः उद्युक्तो ऽस्मि अतः मे सत्कारं संविधत्स्व संसाधय । सार्धश्लोक एकान्वयी । चशब्द एवार्थे हिर्हेतौ सत्कारमित्युभयान्वयि ॥ १।५२।२१ ॥

तदेव विशदयन्नाह यस्येति । हे कामधुक् हे दिव्ये यस्य यस्य राजसम्बन्िधनः षड्रसेषु यत् यत् अभिपूजितं भोजनेच्छाविषयीभूतं तस्य तस्य तत् सर्वं यथाकामं यथेच्छं मम कृते मत्सन्तोषार्थमभिवर्ष ॥ १।५२।२२ ॥

इच्छाविषयीभूतं नामतः परिगणयन्नाह रसेनेति । हे शबले रसेन रसयुक्तेन अनेन अपूपादिना पानेन पानयोग्येन पानकरसादिना लेह्यचूष्येण लेह्येन जिह्वास्वादनीयक्षौद्रादिना चूष्येण आम्रफलादिना संयुतं सर्वमन्नाद्यनिचयमोदनादिसमूहमिहास्मिन्काले एव सृजस्व उत्पादय । तुशब्द एवार्थे ॥ १।५२।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्विपञ्चाशः सर्गः ॥ १।५२ ॥