विश्वामित्रवचनश्रवणानन्तरकालिकं वृत्तमाह तस्येति । धीमतस्तस्य प्रसिद्धस्य विश्वामित्रस्य तन्मातृशापोद्धारविषयकं वचनं श्रुत्वा हृष्टरोमा पुलकिताङ्गः महातेजाः अतिप्रतापः महातपाः अत एव तपसा द्योतितप्रभः तपःकरणकोद्भूतप्रभाविशिष्टः गौतमस्य ज्येष्ठः सुतः रामसन्दर्शनादेव परं विस्मयमागतः प्राप्तः आसीदिति शेषः । एतेन रघुनाथशरीरशोभादेः लौकिकविलक्षणत्वं ध्वनितम् । द्वयोरेकत्रान्वयः ॥ १।५१।१,२ ॥
स इति । अथ विस्मयप्राप्त्यनन्तरं स शतानन्दः निषण्णौ आसने उपविष्टौ अत एव सुखासीनौ
सुखं स्थितौ नृपात्मजौ तौ रामलक्ष्मणौ सम्प्रेक्ष्य मुनिश्रेष्ठं विश्वाः मित्रमब्रवीत् ॥ १।५१।३ ॥
तद्वचनमेवाह अपीति । हे मुनिशार्दूल दीर्घं तपः उपागता यशस्विनी प्रशस्तयशोविशिष्टा मम माता ते तव राजपुत्राय दर्शिता । अपि ते इति सम्बन्धसामान्ये षष्ठी । अपिः प्रश्ने । यशस्विनी इत्यनेन पतिवेषो ऽपि नानादरणीयः इति बुद्ध्यैव इन्द्रस्वीकारः कृतः इति ध्वनितं तेन तस्याः पतिव्रताग्रणीत्वं व्यक्तम् ॥ १।५१।४ ॥
अपीति । हे महातेजः । यशस्विनी मम माता सर्वदेहिनां पूजार्हे रामे वन्यैः वनोद्भवैः पुष्पफलाद्यैः पूजामुपाहरदपि ॥ १।५१।५ ॥
अपि रामायेति । हे महातेजः देवेन इन्द्रेण मम मातुः यद्वञ्चनाद्यनुष्ठितं कृतं तत्पुरातनं वृत्तं रामाय यथावत्कथितमपि ॥ १।५१।६ ॥
अपि कौशिकेति । हे कौशिक हे मुनिश्रेष्ठ इतः अस्मात् रामसन्दर्शनात् मम माता मम गुरुणा पित्रा सह सङ्गता अपि ते भद्रं वृत्तं त्वं शीघ्रमेव ब्रूहीति भावः ॥ १।५१।७ ॥
अपि मे इति । हे कुशिकात्मज विश्वामित्र महात्मनः रामस्य पूजां रामकर्तृकाहल्यालाभरूपसत्कृतिं प्राप्य मे गुरुणा पित्रा इह मिथिलोपवने आगतो महातेजाः रामः पूजितो ऽपि ॥ १।५१।८ ॥
अपि शान्तेनेति । हे कुशिकात्मज इह मिथिलोपवने आगतेन प्रयतेन यतचित्तेन रामेण शान्तेन मनसा उपलक्षितो मे गुरुः पिता अभिवादितो ऽपि । ऽपूजितेनाभिवादितम्ऽ इति भाट्टपाठः ॥ १।५१।९ ॥
तदिति । तस्य शतानन्दस्य तत् प्रश्नरूपं वचनं श्रुत्वा वाक्यज्ञः महामुनिः विश्वामित्रः वाक्यकोविदं शतानन्द प्रत्युवाच ॥ १।५१।१० ॥
विश्वामित्रप्रतिवचनमेवाह नेति । हे मुनिश्रेष्ठ शतानन्द यत् कर्तव्यं भवन्मातृविषयकशापनिवारणादौ यत् करणीयं तत् मया कृतं अतिक्रान्तं विस्मृतं न एतेन सर्वस्य शतानन्दपृष्टस्योत्तरं दत्तमिति ध्वनितम् । तत्र किञ्चित् स्पष्टत आह भार्गवेण जमदग्निना रेणुका परशुराममातेव मुनिना गौतमेन पत्नी तद्भर्या त्वन्माता सङ्गता मिलिता ॥ १।५१।११ ॥
विश्वामित्रवचःश्रवणानन्तरकालिकं वृत्तमाह तदिति । धीमतस्तस्य प्रसिद्धस्य विश्वामित्रस्य तत् मातृवृत्तसम्बन्धि वचनं श्रुत्वा महातेजाः शतानन्दः रामं वचनमब्रवीत् ॥ १।५१।१२ ॥
शतानन्दवचनमेवाह स्वागतणिति । हे नरश्रेष्ठ हे राघव अपराजितं पराजेतुमशक्यं महर्षि विश्वामित्रं पुरस्कृत्य त्वं प्राप्तो ऽसि तत् ते तव स्वागतमतिशोभनमागमनं तदित्यध्याहृतम् ॥ १।५१।१३ ॥
विश्वामित्रं प्रशंसन् आह अचिन्त्येत्यादिभिः । अचिन्त्यकर्मा अतर्क्यकर्मकारी तपसा ब्रह्मर्षिस्तपःप्राप्तब्रह्मर्षित्वविशिष्टः अत एव अतुलप्रभः तुलारहितप्रभाविशिष्टः महातेजाः अतिप्रतापः यः अयं विश्वामित्रः तमेनं परमामतिशोभनां गतिं भवदागमनहेतुमहं वेद्मि ॥ १।५१।१४ ॥
नेति । हे राम येन महत्तपस्तप्तं स कुशिकपुत्रः यस्य ते तव गोप्ता रक्षकः तस्मात्त्वत्तः अन्यो धन्यतरः भुवि त्रिलोक्यां कश्चन नास्तीति श्रूयतामित्युत्तरेणान्वयः ॥ १।५१।१५ ॥
ननु कुतः एवं महत्त्वं विश्वामित्रस्येत्यत आह महात्मनः कौशिकस्य बलं तपोबलं यथावृत्तं प्रवृत्तं तथा अहमभिधास्यामि त्वं निगदतः मे यथावच्छृणु ॥ १।५१।१६ ॥
तदुक्तिमेवाह राजेति । धर्मात्मा विहितधर्मा चरणशीलः अरिन्दमः शत्रुसूदनः धर्मज्ञः निखिलधर्मविज्ञाता तत्र हेतुः कृतविद्यः कृता उपार्जिता विद्या येन अत एव प्रजानां हिते एव रतः एष
विश्वामित्रः दीर्घकालं राजाभूत् । चशब्द एवार्थे द्वितीयश्चशब्दः हेत्वर्थे ॥ १।५१।१७ ॥
तत्प्राशस्त्यं बोधयितुं तत्पूर्वजान् क्रमशो निर्दिशन्नाह प्रजेति । कुशो नाम महीपतिः प्रजापतिसुत आसीत् अनन्तरं बलवान् सुधार्मिकः कुशस्य पुत्रः कुशनाभ आसीत् । तुशब्दो ऽनन्तरार्थकः ॥ १।५१।१८ ॥
कुशेति । गाधिरित्येव नाम्ना विश्रुतः प्रख्यातः कुशनाभसुत आसीत् अनन्तरं महातेजा महामुनिर्गाधिपुत्रः विश्वामित्र आसीत् तुशब्दो ऽनन्तरार्थकः ॥ १।५१।१९ ॥
विश्वामित्र इति । महातेजाः विश्वामित्रः मेदिनीं पालयामास युवराजावस्थायामेवेत्यर्थः । युवराजावस्थानन्तरकालिकवृत्तमाह राजा सन् बहुवर्षसहस्राणि राज्यमकारयत् । स्वार्थे णिच् प्रयोजकाविवक्षा वा ॥ १।५१।२० ॥
कदाचिदिति । महातेजाः अक्षौहिणीपरिवृतः विश्वामित्रः वरूथिनीमक्षौहिण्यतिरिक्तसेनां योजयित्वा पुररक्षायां नियुज्यैव कदाचित्कस्मिंश्चित्काले मेदिनीं पृथिवीं परिचक्राम । तुशब्द एवार्थे ॥ १।५१।२१ ॥
मेदिनीपरिक्रमणमेवाह नगराणीति । राजा विश्वामित्रः नगरादीनि क्रमशो विचरन् वसिष्ठस्य अश्रमपदं श्रमनिवर्तकस्थानमाजगाम । स्थानमेव वर्णयन्नाह नानापुष्पलताद्रुमं नानापुष्पलतायुता द्रुमाः यस्मिन् नानामृगगणाकीर्णं नानामृगगणैराकीर्णं व्याप्तं सिद्धचारणसेवितम् ॥ १।५१।२२,२३ ॥
देवादिभिः । किन्नरैश्चोपशोभितं विनापि चं समुच्चयः । प्रशान्तहरिणाकीर्णं प्रशान्तहरिणैराकीर्णं व्याप्तं द्विजसङ्घनिषेवितं द्विजसङ्घैः पक्षिसमूहैः निषेवितम् ॥ १।५१।२४ ॥
ब्रह्मर्षिगणसङ्कीर्णं ब्रह्मर्षिगणैः सङ्कीर्णं व्याप्तं देवर्षिगणसेवितं तपश्चरणसंसिद्धैः महात्मभिः अग्निकल्पैः अग्निं कल्पयन्ति प्रदिदिनं विधिना स्थापयन्ति ते अग्निहोत्रिण इति व्याप्तं श्रीमद्ब्रह्मकल्पैः श्रीमन्तो ये ब्रह्म वेदं कल्पयन्ति वेदशाखाविभागकर्तार इति यावत् तैः महात्मभिः सततं सङ्कुलं अब्भक्षैः जलमात्रभक्षणकर्तृभिः वायुभक्षैः वायुमात्रभक्षणकर्तृभिश्च शीर्णपर्णाशनैः पतितपत्रमात्रभोजनकर्तृभिश्च । तथाशब्दश्चार्थे ॥ १।५१।२५,२६ ॥
फलेति । फलमूलाशनैः दान्तैः नियमितबहिरिन्द्रियैः जितरोषैः जितक्रोधैः जितेन्द्रियैः नियमितान्तःकरणैः ऋषिभिरुपशोभितं जपहोमपरायणैः वालखिल्यैः ब्रह्मरोमजातैरन्यैवालखिल्यविलक्षणैः वैखानसैः ब्रह्मनखजातैश्च समन्तादुषशोभितम् अपरं ब्रह्मलोकमिव वशिष्ठस्य अश्रमपदं श्रमनिवर्तकं स्थानं जयतां शत्रुपराभवं कुर्वतां श्रेष्ठः महाबलो विश्वामित्रददर्श च षण्णामकत्रान्वयः । वैखानसवालखिल्यनिर्वचनकर्त्री श्रुतिः “ये नखास्ते वैखानसा ये वालास्ते वालखिल्याः” इति ॥ १।५१।२७,२८ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकपञ्चाशः सर्गः ॥ १।५१ ॥