मिथिलोपवनाद्गमनानन्तरकालिकं वृत्तमाह तत इत्यादिभिः । ततः गौतमाश्रमात् प्रागुत्तरामैशानीं दिशं गत्वा सौमित्रिणा सह रामः विश्वामित्रं पुरस्कृत्य यज्ञवाटं जनकयज्ञशालामुपागमत् ॥ १।५०।१ ॥
राम इति । सहलक्ष्मणो रामः मुनिशार्दुलं विश्वामित्रमुवाच तुशब्देनान्ये ऽपि तत्पार्श्ववर्तिनः मुनयः ऊचुः । तद्वचनमेवाह महात्मनः जनकस्य इयं यज्ञसमृद्धिः साध्वी । हि शब्दः इयमित्यर्थे ॥ १।५०।२ ॥
साध्वीत्वमेव बोधयन्नाह बहूनीति । हे महाभाग वेदाध्ययनशालिनां नानादेशनिवासिनां ब्राह्मणानां बहूनि सहस्राणि शकटीशतसङ्कुलाः बहुशकटीव्याप्ताः ऋषिवाटाः ऋषिनिवासस्थानानि चेह दृश्यन्ते अतः हे ब्रह्मन् यत्र वयं वत्स्यामहे स देशः विधीयतां बोध्यताम् । श्लोकद्वयमेकान्वयि ॥ १।५०।३,४ ॥
रामस्येति । महामुनिर्विश्वामित्रः रामस्य वचनं श्रुत्वा विविक्ते जनरहिते सलिलान्विते जलसमीपे देशे निवासमकरोत् ॥ १।५०।५ ॥
विश्वामित्रमिति । तदा विविक्तदेशनिवासोत्तरकाले अनुप्राप्तं विश्वामित्रं श्रुत्वा विनयेन समन्वितः स नृपतिर्जनकः अनिन्दितं पुरोहितं शतानन्दं पुरस्कृत्य सहसा प्रत्युज्जगाम । सार्धश्लोक एकान्वयी ॥ १।५०।६ ॥
ऋत्विज इति । सत्वराः त्वरायुक्ता महात्मानः ऋत्विजः धर्मेण धर्मोत्पादकविधिना मन्त्रपुरस्कृतमर्घ्यमादाय ग्राहयित्वा ददुर्जनकेन दापयामासुः । किञ्च ऋत्विजः अपिशब्देन जनकः अर्घ्यं गृहीत्वा ददुः ॥ १।५०।७ ॥
प्रतीति । महात्मनः जनकस्य तां पूजां प्रतिगृह्य तुशब्देन ऋत्विजां पूजां प्रतिगृह्य राज्ञः कुशलं राष्ट्राद्युपद्रवराहित्यं यज्ञस्पय निरामयं विघ्नराहित्यं च पप्रच्छ ॥ १।५०।८ ॥
स इति । अथ राजकुशलप्रश्नानन्तरं स विश्वामित्रः सोपाध्यायपुरोधसः तान्मुनीन् पृष्ट्वा कुशलमिति शेषः । प्रहृष्टवत् यथा स्यात्तथा सर्वैः ऋषिभिः सार्धं यथार्हं यथायोग्यं समागच्छत् आलिङ्गनमकरोत् ॥ १।५०।९ ॥
अथेति । अथ कुशलप्रश्नानन्तरं मुनिश्रेष्ठं विश्वामित्रं कृताञ्जलिः प्रणयसूचकबद्धयुगलकरः राजा जनकः अभाषत । तद्भाषणमेवाह हे भगवन् एभिः मुनिसत्तमैः सह आसने आस्ताम् ॥ १।५०।१० ॥
जनकस्येति । महामुनिः विश्वामित्रः जनकस्य वचः श्रुत्वा निषसाद आसने इति शेषः । अर्धमेकान्वयि । पुरोधाः शतानन्दः ऋत्विजश्च मन्त्रिभिः सह राजा जनकश्च यथान्यायं समन्ततः विश्वामित्रस्य चतुर्दिक्षु एव आसनेषु उपविष्टाः अभवन्निति शेषः । नृपतिः स राजा जनकः तत्र तस्मिन् समाजे विश्वामित्रं दृष्ट्वा अब्रवीत् ॥ १।५०।११,१२ ॥
तद्वचनमेवाह अद्येत्यादिश्लोकत्रयेण । मे मम यज्ञसमृद्धिः दैवतैः सफला फलसहिता अद्य कृता । ननु तत्फलं कदा प्राप्स्यसीत्यत आह मया अद्यैव भगवद्दर्शनात् यज्ञफलं प्राप्तं सर्वं वाक्यं सावधारणं भवतीतिन्यायेन एव कारलाभः एतेन स्वेप्सितयज्ञफलप्राप्तेरतिसांनिध्यं बोधितम् तेन तत्फलप्रापकशकुनविशेषो जात इति ध्वनितम् ॥ १।५०।१३ ॥
धन्य इति । हे मुनिपुङ्गव हे ब्रह्मन् यस्य मे यज्ञोपसदनं यज्ञशालासमीपं मुनिभिः सह त्वं प्राप्तो ऽसि सो ऽहं धन्यो ऽस्मि । तत्र हेतुः यतः अनुगृहीतो ऽस्मि अनुग्रहमन्तरा अत्रागमनं न स्यादिति भावः ॥ १।५०।१४ ॥
द्वादशाहमिति । हे ब्रह्मर्षे मनीषिणः ऋत्विजः यज्ञस्य द्वादशाहं द्वादशदिनानि एव शेषमाहुस्ततस्तस्माद्धेतोः हे कौशिक भागार्थिनो देवान् द्रष्टुं त्वमर्हसि । तुशब्द एवार्थे ॥ १।५०।१५ ॥
इतीति । प्रहृष्टवदनः प्राञ्जलिः प्रयतः नृपोजनकस्तदा स्थितिकाले मुनिशार्दूलं तं विश्वामित्रमिति वचनमुक्त्वा पुनः परिपप्रच्छ ॥ १।५०।१६ ॥
तत्प्रश्नमेवाह इमावित्यादिश्लोकचतुष्टयेन । एवमानुपूर्वीका इमे चत्वारः श्लोकाः अष्टचत्वारिंशे सर्गे सुमतिप्रश्ने पूर्वमप्युक्तास्ते तत्रैव व्याख्याता अतो अत्र न व्याख्यायन्ते इमाविति ॥ १।५०।१७ ॥
यदृच्छयेति ॥ १।५०।१८ ॥
वरेति ॥ १।५०।१९ ॥
परस्परेति ॥ १।५०।२० ॥
तस्येति । महात्मनस्तस्य जनकस्य तत् रामलक्ष्मणप्रश्नविषयकं वचनं श्रुत्वा महात्मानौ ईश्वरैरपि पूजितस्वरूपौ तौ प्रकटितौ दशरथस्य पुत्रौ न्यवेदयत् ॥ १।५०।२१ ॥
सिद्धेति । आगमनमयोध्यातः सिद्धाश्रमप्राप्तिं सिद्धाश्रमनिवासं च तथा तत्र राक्षसानां वधमव्यग्रं यथा स्यात्तथा विशालायाः दर्शनं च ॥ १।५०।२२ ॥
अहल्यादर्शनं गौतमेन समागमं च महाधनुषि जिज्ञासां तत्त्वनिश्चयं कर्तुमागमनं च न्यवेदयत् इत्यनुकर्षः । एवतथाशब्दौ चार्थौ । श्लोकद्वयमेकान्वयि ॥ १।५०।२३ ॥
उपसंहरन्नाह एतदिति । महातेजाः महामुनिः विश्वामित्रः महात्मने जनकाय अथ मङ्गलं यथा स्यात्तथा एतत्सर्वं निवेद्य विरराम ॥ १।५०।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चाशः सर्गः ॥ १।५० ॥