०४९ अहल्याशापविमोचनम्

प्राप्तशापौत्तरकालिकमिन्द्रवृत्तमाह अफल इत्यादिभिः । ततः प्राप्तगौतमशापानन्तरमेव अफलः शापेन वृषणरहितः त्रस्तवदनः शक्रः अग्निपुरोधसः अग्निः पुरोधाअग्रे गन्ता येषां तान् सर्षिसङ्घान् ऋषिसङ्घसहितान् सचारणान् चारणसहितान् देवान् अब्रवीत् । तुशब्द एवार्थे ॥ १।४९।१ ॥

तद्वचनमेवाह कुर्वतेति । महात्मनः गौतमस्य तपसो विघ्नं कुर्वता मया गौतमस्य क्रोधमुत्पाद्य इदं तपोध्वंसनरूपं सुरकार्यं कृतम् । एतेन यदि तपोध्वंसो न स्यात्तर्हि तपोबलेन देवलोकं गौतमो गृह्णीयादिति निश्चयो ध्वनितः ॥ १।४९।२ ॥

क्रोधोत्पत्त्या किं कृतमित्यत आह अफल इति । तेन मुनिना क्रोधान्महता शापमोक्षेणाहमफलः वृषणरहितः कृतो ऽस्मि सा अहल्या च चिराकृता अतः अस्य मुनेस्तपो मया ऽपहृतं क्रोधोत्पादनद्वारा तत्तपो ध्वंसितमित्यर्थः । क्रोधादयस्तपोनाशकत्वेन स्मृत्यादौ प्रसिद्धाः ॥ १।४९।३ ॥

तस्मादिति । हे सुरवराः तस्मात् भवत्साहाय्यकारित्वाद्धेतोः सर्षिसङ्घाः ऋषिसङ्घसहिताः सचारणाः चारणसहिताः सर्वे यूयं सुरसाह्यकरं सुरसाहाय्यकर्तारं मां सफलं वृषणसहितं कर्तुमर्हथ । क्वचित् ऽसुरकार्यकरं यूयम्ऽ इति पाठः ॥ १।४९।४ ॥

शतक्रतोरिति । साग्निपुरोगमाः अग्निपुरोगमसहिताः मरुद्गणैः सह सर्वे देवाः शतक्रतोः इन्द्रस्य वचः श्रुत्वा पितृदेवान्कव्यवाहनादीन् उपेत्य प्राप्य आहुः ॥ १।४९।५ ॥

तद्वचनमेवाह अयमिति । शक्रः इन्द्रः अवृषणः कृतः शापेनेति शेषः । अयं युष्मदीयः मेषस्तु सवृषणो ऽस्ति अतः अस्य मेषस्य वृषणौ गृह्य गृहीत्वा शक्राय आशु शीघ्रं प्रयच्छत । एतेनैतद्वृषणाभ्यामेवायं वृषणवान्भविष्यतीति ध्वनितम् ॥ १।४९।६ ॥

ननु वृषणदाने अस्मत्तुष्टिवैकल्पं स्यादित्यत आहुः अफल इति । अफल एव कृतः सम्पादितो मेषः परां तुष्टिं प्रदास्यति एव भवद्भ्य इति शेषः । अतः ये मानवाः भवतां हर्षणार्थमफलमेषं दास्यन्ति तेषामेव अक्षयं विनाशरहितं पुष्कलं फलं यूयं दास्यथ । तुशब्दः चशब्दौ एवार्थाः हिर्हेतौ ॥ १।४९।७ ॥

अग्नेरिति । अग्नेर्वचनं श्रुत्वैव समागता कृतसम्मतयः पितृदेवाः मेषस्य तदा यूपे नियुक्तस्य

मेषस्य वृषणौ ॥ १।४९।८ ॥

तदेति । हे काकुत्स्थ तदाप्रभृति मेषवृषणदानकालादारभ्य समागताः पितृदेवाः अफलान्वृषणरहितान् मेषान् भुञ्जते तेषां वृषणरहितमेषदातृ़णां फलैः सवृषणमेषदानोचितपुण्यैः अयोजयन् योजयन्ते लङुपात्तभूतत्वस्याविवक्षा ॥ १।४९।९ ॥

इन्द्र इति । हे राघव तदाप्रभृति महात्मनः तापसस्य गौतमस्य प्रभावेण इन्द्रस्तु मेषवृषण आसीदिति शेषः । ऽतपसा चऽ इति भाट्टपाठः ॥ १।४९।१० ॥

शापवृत्तान्तं संवर्ण्य प्रकृतमाह तदिति । यस्माद्भवतो गमनमेव अहल्यायाः कल्याणहेतुस्तत्तस्मात् हे महातेजः पुण्यकर्मणः गौतमस्य आश्रममागच्छ महाभागां देवरूपिणीमेनामहल्यां तारय ॥ १।४९।११ ॥

विश्वामित्रेति । सहलक्ष्मणः लक्ष्मणसहितः राघवः विश्वामित्रवचः श्रुत्वैव विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश । हशब्द एवार्थे ॥ १।४९।१२ ॥

ददर्शेति । महाभागां रामागमनेनानुमितात्यन्तभागविशिष्टां तपसैव द्योतितप्रभां लोकैः इहलोकस्थजनैः सुरासुरैरपि दुर्निरीक्षां शापवशेन द्रुष्टुमशक्याम् । चशब्द एवार्थे ॥ १।४९।१३ ॥

धात्रा ब्रह्मणा प्रयत्नात् अतिप्रयत्नतः निर्मितां दिव्यामेतल्लोकविलक्षणामत एव मायामयीमिव मायामयीसदृशीं धूमेनाभिपरीताङ्गीं धूमावृतशरीरां दीप्तां प्रज्वलितामग्निशिखामिव अग्निशिखासदृशीं सतुषारावृतां तुषारावरणसहितां साभ्रामभ्रसहितां पूर्णचन्द्रप्रभामिव पूर्णचन्द्रप्रभासदृशीमम्भसो जलस्य मध्ये दीप्तां दुराधर्षां सूर्यप्रभामिव सूर्यप्रभासदृशीमहल्यां ददर्श । श्लोकत्रयमेकान्वयि । आवृत्तशब्दो भावनिष्ठान्तः ॥ १।४९।१४,१५ ॥

सेति । या अहल्या गौतमवाक्येन गौतमशापेनैव त्रयाणां लोकानां रामस्य दर्शनात् यावत् पूर्वं दुर्निरीक्ष्या बभूव सा अहल्या शापस्यान्तमवसानमुपागम्यैव तेषां त्रयाणां लोकानां दर्शनं दृष्टिपथमागता प्राप्ता ह प्रसिद्धमेतत् । अपिशब्दावेवर्थौ । सार्धश्लोक एकान्वयी ॥ १।४९।१६ ॥

राघवाविति । अतिथी अतिथित्वरूपेण प्राप्तौ राघवौ रामलक्ष्मणौ तस्याः गौतमपत्न्याः पादौ जगृहतुः । तदा तु रामकर्तृकपादग्रहणसमये एव गौतमवचस्तस्यातिथ्येन दुर्मेधे इत्यादिगौतमोक्तं स्मरन्ती सती अहल्या तौ रामलक्ष्मणौ प्रतिजग्राह अतिथ्युचितपूजनीयत्वेन स्वीचकार । तुहिशब्दौ एवार्थे ॥ १।४९।१७ ॥

अहल्याकर्तृकपूजनप्रकारं वर्णयन्नाह पाद्यमिति । सुसमाहिता अत्येकाग्रचिता अहल्या पाद्यमर्घ्यं तथा अन्यदपि आतिथ्यमतिथिहितं विधिदृष्टेन वेदबोधितेन कर्मणा चकार । काकुत्स्थः लक्ष्मणसहितरामः प्रतिजग्राह समर्पितं पाद्याकिदं स्वीचकार ॥ १।४९।१८ ॥

पुष्पेति । देवदुन्दुभिनिस्वनैः देववादितादुन्दुभिशब्दै साकमेव महती पुष्पवृष्टिरासीत् गन्धर्वाप्सरसां महान् गीतनृत्यादिनोत्कर्षतां प्राप्तः समागमश्च आसीत् । अपिशब्द एवार्थे ॥ १।४९।१९ ॥

साध्विति । तपोबलविशुद्धाङ्गीमत एव गौतमस्य वशानुगां गौतमस्य वशः अनुगः अनुगमनं यस्यास्तां गौतमानुगमनशीलामित्यर्थः । तां रामं पूजयन्तीमहल्यां देवाः साधु साधु इति समपूजयन् प्रांशसन् । गौतमस्य वशानुगामित्यनेन गौतमे ऽपि तदानीं तत्र समागत इति ध्वनितमेतेन गौतमस्पय रामविषयप्रीत्यविशयः सूचितः ॥ १।४९।२० ॥

गौतम इति । महातेजाः सुखी महायशाः गौतमः अहल्यासहितः सन्नेव रामं विधिवत्सम्पूज्य तपस्तेपे । हिशब्द एवार्थे ॥ १।४९।२१ ॥

राम इति । महात्मनः गौतमस्य सकाशात् समीपात् विधिवत् परमां पूजां प्राप्य रामो ऽपि ततः मिथिलोपवनान्मिथिलां जगाम ॥ १।४९।२२ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनपञ्चाशः सर्गः ॥ १।४९ ॥