०४८ अहल्याचरितम्

कुशलप्रश्नानन्तरकालिकं वृत्तमाह पृष्ट्वेति । तत्र विशालायां कुशलं पृष्ट्वा परस्परसमागमे याः कथा उक्तिप्रत्युक्तयस्तासामन्ते अवसाने एव सुमतिः विशालाधिपतिः महामुनिं विश्वामित्रं वाक्यं व्याजहार । तुशब्द एवार्थे ॥ १।४८।१ ॥

तद्व्याहरणमेवाह इमावित्यादिपञ्चभिः श्लोकैः । हे मुने देवतुल्यपराक्रमौ देवतुल्यपराक्रमवत्तया लक्ष्यमाणौ किञ्च देवौ क्रीडाशीलौ तुल्यपराक्रमौ परस्परं सदृशपराक्रमवत्तया प्रतीयमानौ तावेव ताविति कर्मधारयः गजसिंहगती गजसिंहनिष्ठमन्दाप्रतिहतगमनसदृशगमनवत्तया प्रतीयमानौ शार्दूलवृषभोपमौ शार्दूलवृषभनिष्ठदुर्धर्षत्वोन्नतस्कन्धत्वसदृशदुर्धर्षत्वोन्नतस्कन्धत्ववत्तया प्रतीयमानौ ॥ १।४८।२ ॥

पद्मपत्रविशालाक्षौ पद्मपत्रद्विशाले अक्षिणी ययोस्तौ खड्गतूणीधनुर्धरौ खड्गतूणीधनूंषि धरतस्तौ कर्मणः शेषत्वविवक्षया कर्मण्यणितिशास्त्राविषयतया गदाधरवत् पचाद्यच रूपेण अश्विनाविव

अश्विनिष्ठरूपप्रतियोगिकसादृश्यविशिष्टरूप वत्तया प्रतीयमानावित्यर्थः । समुपस्थितयौवनौ सम्प्राप्तयौवनावस्थाकौ ॥ १।४८।३ ॥

यदृच्छया स्वेच्छयैव देवलोकात्सम्प्राप्तौ अमराविव देवलोकात् यदृच्छासम्प्राप्तामरप्रतियोगिकसादृश्यविशिष्टौ इमौ वीरौ कुमारौ इह पद्भ्यां कथं प्राप्तौ किमर्थं कमर्थमुद्दिश्य च प्राप्तौ कस्य किंनिरूपितसम्बन्धवन्तौ ते भद्रं कल्याणम् । एतेन मत्पृष्टं द्रुतं ब्रूहीति व्यञ्जितम् । त्रयाणामेकत्रान्वयः । वाशब्दश्चार्थे ॥ १।४८।४ ॥

उत्तरविलम्बं ज्ञात्वातिशुश्रूषया भङ्ग्यन्तरेण वर्णयन् पुनस्तदेव पृच्छति भूषयन्तावित्यादिश्लोकद्वयेन । चन्द्रसूर्यावम्बरमिव इमं देशं भूषयन्तौ प्रमाणेङ्गितचेष्टितैः प्रमाणं शरीरेयत्ता इङ्गितमन्तर्व्यापारः चेष्टितं बहिरिन्द्रियव्यापारः एतै परस्परस्य सदृशौ एतेन वास्तवोपमानान्तराभावः सूचितः ॥ १।४८।५ ॥

किमर्थमिति । नरश्रेष्ठौ नरवरौ वरायुधधरौ वीरौ दुर्गमे पथि किमर्थं सम्प्राप्ताविति तत्त्वतः श्रोतुमिच्छामि । द्वयोरेकत्रान्वयः । एतेन स्वभाग्यातिशयो ऽनुमित इति व्यक्तम् ॥ १।४८।६ ॥

तस्येति । तस्य विशालाधिपतेः सुमतेस्तद्वचनं श्रुत्वा सिद्धाश्रमनिवासं राक्षसानां तद्वधं च यथावृत्तमेव न्यवेदयत् विश्वामित्र इति शेषः । एकश्चकार एवार्थे ॥ १।४८।७ ॥

विश्वामित्रेति । विश्वामित्रवचः श्रुत्वा परमहर्षितः परमहर्षं प्राप्तो राजा विशालाधिपतिः सुमतिः परमौ उत्तमौ सत्कारार्हौ सत्कृतियोग्यौ महाबलौ प्राप्तौ समीपमागतौ दशरथस्य पुत्रौ तौ रामलक्ष्मणौ अतिथी विधिवत्पूजयामास । सार्धश्लोक एकान्वयी ॥ १।४८।८,९ ॥

तत इति । ततः सुमतिकृतपूजानन्तरं सुमतेः परमसत्कारं प्राप्य तत्र एकां निशामुष्य उषित्वा राघवौ रामलक्ष्मणौ ततः विशालातः मिथिलां जग्मतुः । आर्षो ल्यप् ॥ १।४८।१० ॥

तामिति । जनकस्य शुभां पुरीं तां मिथिलां दृष्ट्वा साधु साधु इति शंसन्तः सर्वे मुनयः समपूजयन् प्राशंसन् ॥ १।४८।११ ॥

मिथिलोपवन इति । तत्र तस्मिन्समये पुराणं निर्जनं जनरहितं रम्यमाश्रमं मिथिलोपवने मिथिलासमीपवर्तिवनप्रदेशे दृश्य दृष्ट्वा राघवो रामः मुनिपुङ्गवं विश्वामित्रं पप्रच्छ ॥ १।४८।१२ ॥

तत्प्रश्नमेवाह श्रीमदिति । श्रीमत् शोभाविशिष्टमाश्रमसङ्काशं मुनिनिवासवत्प्रतिभासमानं मुनिवर्जितमिदं किं नु आश्रमः आश्रमभिन्नो वेति भावः । आद्यं निश्चित्य पृच्छति हे भगवन् पूर्वे पूर्वस्मिन्काले अयमाश्रमः कस्येति श्रोतुमहमिच्छामि तद्वदेत्यर्थः ॥ १।४८।१३ ॥

तदिति । राघवेणोक्तं तद्वाक्यं वाक्यविशारदः गहातेजाः महामुनिः विश्वामित्रः श्रुत्वा प्रत्युवाच ॥ १।४८।१४ ॥

तत्प्रतिवचनमेवाह हन्तेत्यादिभिः । हे राघव कोपात् शप्तं महात्मनो यस्यैतत् आश्रमपदं आसमन्ताद्भावेन श्रमो यस्मात् व्यवस्थाश्रवणमात्रेण अतिखेदप्रापकमित्यर्थः तदेव पदं स्थानं तमहं तत्त्वेन ते कथयिष्यामि हन्त अतः श्रृणु ॥ १।४८।१५ ॥

प्रतिज्ञातमाह गौतमेत्यादिभिः । हे नरश्रेष्ठ दिव्यसङ्काशः दिव्यत्वेन प्रतिभासमानः अत एव सुरैरपि सुपूजितः अयमाश्रमः महात्मनः गौतमस्य पूर्वमासीत् ॥ १।४८।१६ ॥

तदेव विशदयन्नाह स चेति । हे राजपुत्र हे महायशः हे राम अहल्यासहितः स गौतमः इह मिथिलोपवने एक अनेकानि वर्षपूगानि वर्षसमूहान् पुरा पूर्वं तपः आतिष्ठत् । च शब्द एवार्थे ॥ १।४८।१७ ॥

तस्येति । तस्य गौतमस्य अन्तरं स्नानादिगमनेन व्यवधानं विदित्वा ज्ञात्वैव मुनिवेषधरः

शचीपतिः सहस्राक्षः इन्द्रः अहल्यामिदं वचनमब्रवीत् । अथशब्द एवार्थे एकस्य यौगिकत्वस्वीकारान्न पौनरुक्त्यम् ॥ १।४८।१८ ॥

तद्वचनमेवाह ऋतुकालमिति । हे सुसमाहिते एकाग्रचित्ते अर्थिनः रतिकामा जनाः ऋतुकुलं शास्त्रोक्तरतिविहितसमयं न प्रतीक्षन्ते अतः हे सुमध्यमे त्वया सह सङ्गमं रतिमहमिच्छामि । एतेन तदानीं तस्याः रतिनिषिद्धकालः संस्थित इति ध्वनितं तेन रतिकालो नास्तीति पूर्वमहल्यया निवारितमिति व्यक्तम् । तुशब्दो हेत्वर्थे ॥ १।४८।१९ ॥

मुनिवेष इति । हे रघुनन्दन मुनिवेषं गौतमवेषधारिणं सहस्राक्षमिन्द्रं विज्ञाय दुर्मेधा अहल्या देवराजकुतूहलात् स मां वाञ्छतीति जातोत्साहात् देवराजाभिलाषातिशयाद्वा मतिं रतिविषयकनिश्चयं चकार ॥ १।४८।२० ॥

अथेति । अथ रत्यनन्तरं कृतार्थेनान्तरात्मना मनसा सुरश्रेष्ठमिन्द्रमब्रवीत् । तद्वचनमेवाह हे सुरश्रेष्ठ हे प्रभो अहं कृतार्थास्मि अतः इतः स्थानात् शीघ्रं गच्छ ॥ १।४८।२१ ॥

शीघ्रगमने प्रयोजनं वदन्ती आह आत्मानमिति । हे देवेश आत्मानं मां च सर्वथा सर्वप्रकारेण रक्ष गौतमादिति शेषः । एतेन गौतमदृष्टिपथगश्चेत्त्वं भविष्यसि तर्हि तच्छापेन मम तव च विध्वंसो भविष्यतीति ध्वनितम् । तद्वाक्यश्रवणानन्तरं प्रहसन्सन् इन्द्रः इदं वचनमहल्यामब्रवीत् । तुशब्दो ऽनन्तरार्थकः । प्रहसन्नित्यनेन अहल्यावाञ्छितशापाभावस्य दुर्लभत्वं द्योतितम् ॥ १।४८।२२ ॥

इन्द्रवाक्यमेवाह सुश्रोणीति । हे सुश्रोणि अहं परितुष्टो ऽस्मि त्वत्कर्तृकमदनुकूलानुवर्तनेन प्राप्तसन्तोषो ऽस्मि अतः यथागतमागतमनतिक्रम्य गमिष्यामि एवमनेन प्रकारेण तया अहल्यया सङ्गम्य ततस्तस्मादुटजात्पर्णशालातः निश्चक्राम ॥ १।४८।२३ ॥

स इति । हे राम अथ उटजान्निः सरणानन्तरं सम्भ्रमात् गौतमशापभयात् गौतमं प्रति शङ्कितः गौतमागमनविषयकशङ्काविशिष्टः अत एव त्वरन् शीघ्रगमनं कुर्वन् स इन्द्रः प्रविशन्तं स्वगृहे प्रवेशं कुर्वन्तं देवदानवदुर्धर्षं तत्र हेतुः तपोबलसमन्वितं महामुनिं गौतमं सन्ददर्श । सार्धश्लोक एकान्वयी ॥ १।४८।२४ ॥

तीर्थेति । तीर्थोदकपरिक्लिन्नमनलमिव दीप्यमानं गृहीतसमिधं सकुशं कुशसहितं मुनिपुङ्गवं मुनिश्रेष्ठं गौतमं तत्र गौतमाश्रमे सुरपतिरिन्द्रो दृष्ट्वा त्रस्तः अत एव विषण्णवदनः उदासीनमुखो ऽभवत् ॥ १।४८।२५२७ ॥

अथेति । अथ इन्द्रोदासीनमुखभवनानन्तरं मुनिवेषधरं दुर्वृत्तं निषिद्धवृत्तिमन्तं सहस्राक्षं वृत्तसम्पन्नः मुनिः गौतमो रोषाद्वचनमब्रवीत् ॥ १।४८।२८ ॥

तद्वचनमेवाह ममेति । हे दुर्मते मम रूपं समास्थाय आश्रित्य यस्मादकर्तव्यमिदं त्वं कृतवानसि अतः विफलः वृषणरहितस्त्वं भविष्यसि ॥ १।४८।२९ ॥

गौतमेनेति । सरोषेण रोषसहितेन महात्मना गौतमेन एवमुक्तप्रकारेण उक्तस्य सहस्राक्षस्य वृषणौ तत्क्षणात् भूमौ पेततुः । एतेन तस्य पुंस्त्वं विनष्टमिति सूचितम् ॥ १।४८।३० ॥

तथेति । शक्रमेवं शप्त्वा तथा तेन प्रकारेणैव सापराधां भार्यामपि शप्तवान् । शापस्वरूपमाह इह अस्मिन् मिथिलोपवने एव बहूनि वर्षसहस्राणि त्वं निवत्स्यसि । चशब्दावेवार्थौ वैशब्द एवमर्थकः ॥ १।४८।३१ ॥

सप्रकारं निवसनमेवाह वायुभक्षेति । वायुमेव भक्षयति सा अत एव निराहारा वाय्वाहारातिरिक्ताहारविवर्जिता तप्यन्ती स्वापराधजनितसन्तापमनुभवन्ती भस्मशायिनी भस्मशयनशीला सर्वभूतानामदृश्या अस्मिन् आश्रमे त्वं वसिष्यसि वत्स्यसि ॥ १।४८।३२ ॥

शापावधिं कुर्वन्नाह यदेति । दुर्धर्षः दशरथात्मजः घोरमेतद्वनं यदा आगमिष्यति तदैव त्वं पूजा भविष्यसि । चशब्द एवार्थे ॥ १।४८।३३ ॥

तस्येति । हे दुर्वृत्ते तस्य रामस्य आतिथ्येन लोभमोहविवर्जिता मुदा युक्ता सती त्वं मत्सकाशं मम सकाशः सामीप्यं यस्मात् मत्समीपगमनयोग्यमित्यर्थः । स्वं वपुर्धारयिष्यसि । अत्र प्रार्थनामन्तरेणानुग्रहवचनोक्त्या मुनर्दयालुत्वं व्यक्तम् ॥ १।४८।३४ ॥

एवमिति । महातेजा महातपा गौतमः दृष्टचारिणीमहल्यामेवमुक्त्वा इममाश्रममुत्सृज्य त्यक्त्वा सिद्धचारण सेविते रम्ये हिमवच्छिखरे तपस्तेपे । सार्धश्लोक एकान्वयी ॥ १।४८।३५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे ऽष्टचत्वारिंशः सर्गः ॥ १।४८ ॥