दितेर्वचनमाह सप्तधेति । गर्भे सप्तधा कृते सति एव परमदुःखिता अत एव सानुनया विनम्रतासहिता दितिः दुराधर्षं जेतुमशक्यं सहस्राक्षं वाक्यमब्रवीत् । तुशब्द एवार्थे ॥ १।४७।१ ॥
तद्वचनमेवाह ममेति । हे देवेश हे बलसूदन ममापराधात् मत्कृतविरुद्धशयनादिजन्यदोषात् अयं गर्भः सप्तधाः विफलीकृतः शकलतां प्रापितः अतः अत्र गर्भविफलीकरणे तवापराधो नास्ति ॥ १।४७।२ ॥
प्रियमिति । मम गर्भविषर्यये गर्भच्छेदे सत्यपि कृत्तं छिन्नं गर्भं प्रियमावयोः प्रियकर्तारमिच्छामि किञ्च कृतं त्वत्कर्तृकछेदनं प्रियमेतत्कर्तृकप्रीतिविषयीभूतं यथा स्यात्तथा इच्छामि । प्रियकरणोपायमाह सप्तसप्तानामेकोनपञ्चाशत्सङ्ख्यानां महतां देवान्तर्गतवायुविशेषाणां स्थानपालाः स्थानस्वामिनः इमे भवन्तु । स्थानपाला भवन्त्वित्यनेन पूर्वमरुतां देवासुरसङ्ग्रामे प्रलयो जात इति ध्वनितम् । तेन ते एव दितिगर्भे ऽवतीर्णा इति व्यञ्जितम् । तुशब्दो ऽप्यर्थे । प्रियमित्यत्र प्रीधातोः इगुपधेति कर्तरि कः । कृतमित्यत्र छेदनार्थककृतीधातोः कर्मणि कः । द्वितीयपक्षे कृतमिति भावकान्तं प्रियमिति कर्मकान्तम् ॥ १।४७।३ ॥
वातेति । हे पुत्रक मारुता इति विख्याताः दिव्यरूपा देवतारूपं प्राप्ताः वातस्कन्धा वातभेदाः सप्तसप्तावयवकसप्तगणाः इमें ममात्मजा दिवि पृथिव्या ऊर्ध्वं किञ्च दिवि व्यवहारसिद्ध्यर्थं चरन्तु विरहन्तु । चरमपक्षे दिवधातोर्विच् वलोपाभावस्तु सञ्ज्ञापूर्वकविधेरनित्यत्वात् ॥ १।४७।४ ॥
सप्तानां गणानां स्थानविशेषं निर्दिशन्नाह ब्रह्मेत्यादिश्लोकद्वयेन । एकः विभक्तगणान्तर्गतसप्तावयवकः प्रथमो गणः ब्रह्मलोकं चरतु अपरो द्वितीयो गणः इन्द्रलोकं तथा चरतु महायशा दिव्यवायुरिति ख्यातस्तृतीयो ऽपि गण इन्द्रलोकं चरतु ॥ १।४७।५ ॥
चत्वार इति । हे सुरश्रेष्ठ देवरूपा एव ममात्मजाः चत्वार चतुर्थपञ्चमषष्ठसप्तमगणास्तु त्वत्कृतेन तव कृतं मा रुदः मा रुद इति प्रयन्तो बोधकत्वेन यस्मिन् तेन मारुता इति नाम्नैव विश्रुताः ख्याताः सन्तः तव शासनादेव दिशः पूर्वादिक्रमेण चतस्रः ककुभः सञ्चरिष्यन्ति ते भद्रमस्तु । वैशब्द एवार्थे सार्धश्लोक एकान्वयी ॥ १।४७।६ ॥
तस्या इति । तस्याः दितेस्तद्वचनं श्रुत्वा बलनिषूदनः प्राञ्जलिः प्रणयसूचकबद्धयुगलकरः सहस्राक्षः पुरन्दरः दितिं वाक्यमुवाच । द्विकर्मको ऽयम् ॥ १।४७।७ ॥
तद्वचनमेवाह सर्वमिति । एतत्सर्वं यथा येन प्रकारेण ते उक्तं तथा भविष्यति संशयः अस्मिन् विषये सन्देहो न । तदेव स्पष्टमाह देवरूपाः तवात्मजा विचरिष्यन्ति ॥ १।४७।८ ॥
एवमिति । हे राम कृतार्थौ साधितप्रयोजनौ तौ मातापुत्रौ दितीन्द्रौ तपोवने एवं वर्णितप्रकारेण निश्चयं कृत्वा त्रिदिवं जग्मतुः इति नः श्रुतम् ॥ १।४७।९ ॥
प्रथमप्रश्नोत्तरमुपसंहरन्नाह एष इति । काकुत्स्थ हे राम एष देशः पुरैव महेन्द्राध्युषितः यत्र यस्मिन्देशे तपःसिद्धां दितिं स इन्द्रः एवं वर्णितप्रकारेण परिचचार । तुशब्द एवार्थे ॥ १।४७।१० ॥
अथ कतरो राजवंश इति द्वितीयप्रश्नोत्तरं वर्णयन्नाह इक्ष्वाकोरित्यादिभिः । हे नरव्याघ्र अलम्बुसायामलम्बुसानामभार्यायामेव उत्पन्नः विशाल इति नाम्ना विश्रुतः ख्यातः परमधार्मिकः इक्ष्वाकोः इक्ष्वाकोः पुत्र आसीदिति शेषः । तु शब्द एवार्थे ॥ १।४७।११ ॥
तेनेति । तेन विशालेन कृता निर्मिता विशालेति पुरी इह स्थाने एव आसीत् । च शब्द एवार्थे । हे राम महाबलः हेमचन्द्रः हेमचन्द्रनामा विशालस्य सुत आसीत् ॥ १।४७।१२ ॥
सुचन्द्र इति । हेमचन्द्रादनन्तरः हेमचन्द्रौत्तरकालिकः सुचन्द्र इति विख्यात आसीदिति शेषः । हे राम धूम्राश्व इति विश्रुतः सुचन्द्रतनयः आसीत् ॥ १।४७।१३ ॥
धूम्रेति । सृञ्जयनामा धूम्राश्वतनयश्च समपद्यत श्रीमान् प्रतापवान् सहदेवः सृञ्जयस्यापि सुतः समपद्यत ॥ १।४७।१४ ॥
कुशाश्व इति । परमधार्मिकः कुशाश्वकुशाश्वनामा सहदेवस्य पुत्रः आसीत् महातेजाः प्रतापवान् सोमदत्तः सोमदत्तनामा कुशाश्वस्य पुत्रः आसीत् ॥ १।४७।१५ ॥
सोमदत्तस्येति । सोमदत्त्स्य पुत्रस्तु काकुत्स्थ इति नाम्ना विश्रुतः आसीत् । अर्धं पृथक् । महातेजा अमरप्रख्यः अमरसदृशः दुर्जयः जेतुमशक्यः सुमतिर्नाम सुमतिनामा तस्य काकुत्स्थस्य एषः पुत्रः सम्प्रति इमां विशालां पुरीमावसति ॥ १।४७।१६ ॥
एतावद्बृहत्कालपर्यन्तं एतैः एव कथं भुक्तेति शङ्कां परिहरन्नाह इक्ष्वाकोरिति । इक्ष्वाकोः प्रसादेनैव दीर्घायुषः महात्मानः अतिप्रयत्नवन्तः वीर्यवन्तः अतिपराक्रमविशिष्टाः सुधार्मिकाः वैशालिकाः विशाला निवासो येषां ते कुमुदादित्वादृक् सर्वे नृपाः आसन्निति शेषः । तुशब्द एवार्थे ॥ १।४७।१७ ॥
इहेति । हे राम हे नरश्रेष्ठ अद्य रजनीं वयमिह सुखं वत्स्यामहे श्वः आगामिनि प्रभाते जनकं दष्टुमर्हसि ॥ १।४७।१८ ॥
सुमतिरिति । नरश्रेष्ठः महातेजाः महायशाः सुमतिः उपगतं विश्वामित्रं श्रुत्वैव प्रत्यागच्छत् । तुशब्द एवार्थे ॥ १।४७।१९ ॥
पूजामिति । अथ प्रत्यागमनानन्तरं सोपाध्यायः सबान्धवः प्राञ्जलिः प्रणयसूचकबद्धयुगलकरः सुमतिः परमां पूजां कृत्वा कुशलं च पृष्ट्वा अब्रवीत् ॥ १।४७।२० ॥
तद्वचनमेवाह धन्येति । यस्य मे विषयं देशं गतः भवान्प्राप्तः सः अहं धन्यः अस्मि अनुगृहीतश्चास्मि यतः दर्शनं सम्प्राप्तो ऽस्मि अतः मम मत्तः धन्यतरः अन्यो नास्त्येव । अन्य इत्यध्याहृतम् मम इति पञ्चम्यर्थे षष्ठी ॥ १।४७।२१ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तचत्वारिंशः सर्गः ॥ १।४७ ॥