पुत्रनाशानन्तरकालिकं दितिवृत्तमाह हतेष्विति । तेषु पूर्वजेषु पुत्रेषु हतेषु सत्सु परमदुःखिता दितिः मारीचं मरीचपुत्रं कश्यपं नाम भर्तारमिदमब्रवीत् ॥ १।४६।१ ॥
तद्वचनमेवाह हतेति । हे भगवन् महाबलैः तव पुत्रैः अहं हतपुत्रास्मि अतः दीर्घतपोर्जितं दीर्घतपेन राज्यविषयकात्यन्तज्ञानेन ऊर्जितं प्रवृद्धं शक्रहन्तारं पुत्रमिच्छामि । आलोचनार्थकतपधातोः अच् ॥ १।४६।२ ॥
सेति । सा शक्रहन्तृपुत्रविषयकेच्छावती अहं तपश्चरिष्यामि अतस्त्वमनुज्ञातुमाज्ञापयितुमर्हसि । ईश्वरं समर्थं शक्रहन्तारं गर्भं पुत्रं दातुं च त्वमर्हसि । ऽईदृशं शक्रहन्तारम्ऽ इति पाठान्तरम् । विनापि चं समुच्चयः ॥ १।४६।३ ॥
तस्या इति । तदा दितिप्रार्थनासमये तस्याः दितेस्तत्तादृशपुत्रविषयकं वचनं श्रुत्वा महातेजाः मारीचः कश्यपः परमदुःखितां दितिं प्रत्युवाच ॥ १।४६।४ ॥
तत्प्रतिवचनमेवाह एवमिति । हे तपोधने एवमनेन प्रकारेण प्रार्थितं भवतु सिध्यतु ते भद्रं कल्याणं त्वं शुचिः भव तेन आहवे सङ्ग्रामे शक्रहन्तारं पुत्रं जनयिष्यसि ॥ १।४६।५ ॥
तदेव विशदयन्नाह पूर्ण इति । यदि त्वं शुचिर्भविष्यसि तर्हि वर्षसहस्रे पूर्णे सति त्रैलोक्यहन्तारं त्रिलोकीहननसमर्थं पुत्रं मत्तस्त्वं जनयिष्यसि । त्रैलोक्यहन्तारमित्यनेन यदि त्रिलोकहननयोग्यः सः तर्हि इन्द्रहननयोग्य इति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । किञ्च तैलोक्यं नियम्यत्वेनास्यातीति त्रैलोक्य इन्द्रः किञ्च त्रिलोक्या अयं स्वामी त्रैलोक्य तस्येदमित्यण् यस्येति लोपाभावस्तु सञ्ज्ञापूर्वकविधेरनित्यत्वात् ॥ १।४६।६ ॥
एवमिति । महातेजाः स कश्यपः एवमनेन प्रकारेण उक्त्वा तां दितिं सम्ममार्ज पुत्रोत्पत्तिप्रतिबन्धकीभूतदुरितध्वंसार्थं मार्जनं चकारेत्यर्थः । संमार्जनानन्तरं पाणिना समालम्ब्य स्पृष्ट्वा स्वस्ति शुभं ते स्यादित्युक्त्वा तपसे ययौ एतेन कश्यपस्य सुशीलतातिशयः सूचितः । ऽतामालभ्यऽ इति भाट्टपाठः ॥ १।४६।७ ॥
गते इति । हे नरश्रेष्ठ तस्मिन् कश्यपे गते सति परमहर्षिता दितिः कुशप्लवनं विशालाभिधपूर्वदेशवृत्तितपोवनमासाद्य प्राप्य सुदारुणं तपस्तेपे । ऽकुशप्लवं समासाद्यऽ इति भाट्टपाठः ॥ १।४६।८ ॥
तप इति । हे नरश्रेष्ठ । तस्यां दितौ तप एव कुर्वत्यां सत्यां सहस्राक्षः इन्द्रः परया गुणसम्पदा विनयादिसम्पत्यैव परिचर्यां चकार । हिहशब्दौ एवार्थे ॥ १।४६।९ ॥
परिचर्यास्वरूपं वर्णयन्नाह अग्निमिति द्वाभ्याम् । सहस्राक्षः अग्न्यादीन्न्यवेदयत् अन्यदपि यत्काङ्क्षितं तदपि न्यवेदयत् ॥ १।४६।१० ॥
गात्रेति । गात्रसंवाहनैः गात्ररक्षणप्रयत्नैः च्छत्रादिग्रहणैरित्यर्थः । तथा श्रमापनयनैः । श्रमनिवर्तकपादपीडनादिभिश्च सर्वेष्वपि कालेषु शक्रः दितिमेव परिचचार । ह प्रसिद्धमेतत् । एवो ऽप्यर्थे ॥ १।४६।११ ॥
पूर्णे इति । हे रघुनन्दन दशोने दशवर्षहीने वर्षसहस्रे पूर्णे सति परमसंहृष्टा दितिः अथ इदं सहस्राक्षमब्रवीत् । अथशब्द इत्यर्थे ॥ १।४६।१२ ॥
तप इति । वीर्यवतां वर हे इन्द्र तपश्चरन्त्या मम दशवर्षाणि अवशिष्टानि ततः दशवर्षानन्तरं भ्रातरं द्रक्ष्यसे ते भद्रम् ॥ १।४६।१४ ॥
यमिति । हे पुत्र जयोत्सुकं स्वविजयाकाङ्क्षिणं त्रैलोक्यविजयं त्रैलोक्यविजयकर्तारं यं पुत्रं त्वत्कृते त्वन्नाशाय अहं समाधास्ये तेन पुत्रेण सह विज्वरः विगतसन्तापस्त्वं भोक्ष्यसि पायिष्यसि एतेन दितेः कारुण्यं जातमिति सूचितम् । तेन वक्ष्यमाणाशुचित्वहेतुभूतानवधानता दितिज्ञानपूर्विकेति व्यक्तम् ॥ १।४६।१५ ॥
तद्वचनमेवाह याचितेनेति । हे सुरश्रेष्ठ याचितेन मया प्रार्थितेन महात्मना तव पित्रा वर्षसहस्रान्ते वर्षसहस्रतपश्चरणानन्तरकाले मम सुतं प्रति वरो दत्तः ॥ १।४६।१६ ॥
एवमिति । तत्र तस्मिन्संवादे दिवाकरे मध्यं प्राप्ते सति देवी दितिः एवमनेन प्रकारेण उक्त्वा पादौ शीर्षतः शिरस्थापनोचितदेशे दक्षिणे पूर्वे वा कृत्वा निद्रया अपहृता अपहृतबुद्धिरासीदिति शेषः । अथशब्देन पादयोर्मूर्धजांश्च कृत्वेत्यर्थः । तेन पादयोः पूर्वदक्षिणस्थापनं मूर्धजानां पादस्पर्शनं चेत्येतद्द्वयमपि अशुचिहेतुभूतं सञ्जातमिति फलितम् ॥ १।४६।१६ ॥
दृष्ट्वेति । यया शिरः स्थाने पादौ कृतौ तां पादयोः कृतमूर्धजामत एव अशुचिं तां दितिं शक्रो दृष्ट्वा जहास मुमोद च । जहासेत्यनेन एतावन्तं श्रमं कृत्वापि सह भोक्ष्यसि विज्वर इति आशीर्वादो मात्रा दत्त इति स्मृतिर्व्यञ्जिता । एकश्चकार एवार्थकः । पादयोः मूर्धजस्पर्शस्य पूर्वदक्षिणयोः पादस्थापनस्य चाशुचिकारणत्वं धर्मशास्त्रादौ प्रसिद्धम् ॥ १।४६।१७ ॥
तस्या इति । हे राम परमात्मवानतिप्रयत्नशीलः पुरन्दरस्तस्या दितेः शरीरविवरं योनिप्रदेशं प्रविवेश गर्भं च सप्तधा बिभेद अनेकधाभवनानुकूलव्यापारं चकार ॥ १।४६।१८ ॥
भिद्यमान इति । हे राम ततः इन्द्रकृतभेदानुकूलव्यापारानन्तरं शतपर्वणा शतकोटियुक्तेन वज्रेण भिद्यमानः गर्भः सुस्वरं यथा स्यात्तथा रुरोद ततस्तस्मात् रोदनात् दितिः अबुद्ध्यत ॥ १।४६।१९ ॥
मेति । शक्रः मा रुद्रो मा रुद्र मा रुद्र इति गर्भं पुनः पुनर्व्यभाषत महातेजा वासवः रुदन्तमपि गर्भं बिभेदैव । एकश्चकारः पुनःपुनरर्थकः ॥ १।४६।२० ॥
नेति । न हन्तव्यः न हन्तव्यः इत्येव वचनं दितिः अब्रवीत् ततः दितिवचनश्रवणानन्तरं मातुः वचनगौरवाद्धेतोः शक्रः निष्पपात दितेः उदरात् निःससार ॥ १।४६।२१ ॥
प्राञ्जलिरिति । प्राञ्जलिः प्रणयसूचकबद्धयुगलकरः शक्रः दितिमभ्यभाषत । अभिभाषणमेवाह हे देवि पादयोः कृतमूर्धजा अत एव अशुचिस्त्वं सुप्तासि तदन्तरं छिद्रं लब्ध्वा आहवे सङ्ग्रामे शक्रहन्तारं त्वद्गर्भमहं सप्तधा अभिदं तन्मे अपराधं क्षन्तुमर्हसि ॥ १।४६।२२,२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्चत्वारिंशः सर्गः ॥ १।४६ ॥