०४५ विशाला-गतिः

विश्वामित्रवचनश्रवणानन्तरकालिकं वृत्तमाह विश्वामित्रेति । अथ विश्वामित्रोक्त्यनन्तरं सहलक्ष्मणो राघवो रामः विश्वामित्रवचः श्रुत्वा परमं विस्मयं गत्वा विश्वामित्रमब्रवीत् ॥ १।४५।१ ॥

तद्वचनमेवाह अतीति । हे ब्रह्मन् अत्यद्भुतं परमं मनोहरं पुण्यं पवित्रत्वहेतुभूतमिदं गङ्गावतरणं सागरस्य पूरणं गङ्गया पूर्तिरपि त्वया कथितम् ॥ १।४५।२ ॥

सन्तुष्टमिति । अत एव हे ब्रह्मन् मे मनः सन्तुष्टं इत्युक्त्वा विरराम । हकारः हेत्वर्थः । तस्येति सह सौमित्रिणा सह ते निद्रादिवेगं क्षमते इति सहः स एव सौमित्रिरिति कर्मधारयः तेन सह शुभां विश्वामित्रकथां चिन्तयानस्य तस्य रामस्य सर्वा सा शर्वरी रात्रिर्जगाम एतेन गङ्गाचरितस्य सहृदयहृदयापहारकत्वं व्यक्तम् ॥ १।४५।३ ॥

तत इति । ततः विश्वामित्रोक्तिचिन्तनानन्तरं कृताह्निकं कृतमाह्निकं सन्ध्योपासनादि येन तं महामुनिं विश्वामित्रमरिन्दमो राघवः विमले प्रभाते ऽत्यन्तप्रभातसमये वाक्यमुवाच ॥ १।४५।४ ॥

तद्वाक्यमेवाह गतेति । यतः श्रोतव्यं श्रवणार्हं परममत्युत्कृष्टमावाभ्यां श्रुतमतः गता व्यतीता रात्रिः भगवती अत्यैश्वर्यप्रापिका अभवदिति शेषः । अतो हे महातपः पुण्यामिमां तव कथां त्वदुक्तगङ्गागाथां निखिलेन निःशेषतः चिन्तयतोः नौ आवयोः इयं रात्रिः क्षणभूता इव संवृत्ता जाता अतः सरिता श्रेष्ठां पुण्यां पवित्रत्वहेतुभूतां त्रिपथगां नदीं गङ्गां तराम । श्लोकद्वयमेकान्वयि ॥ १।४५।५,६ ॥

तरणस्यावश्यकत्वं बोधयन्नाह नौरिति । सुखास्तीर्णा सुखमास्तीर्णमास्तरणं यस्यां सा पुण्यकर्मणामृषीणामेषां नौः भगवन्तं त्वामिह प्राप्तं ज्ञात्वैव त्वरितमागता एतेन द्रुतं तरणीयमिति

ध्वनितम् । हिशब्द एवार्थे ॥ १।४५।७ ॥

तस्येति । महात्मनः तस्य राघवस्य तत्तरणबोधक वचनं श्रुत्वा सर्षिसङ्घः ऋषिसङ्घसहितः सराघवः राघवसहितः विश्वामित्रः सन्तारं गङ्गासन्तरणं कारयामास चकार । स्वार्थे णिच् प्रयोजकाविवक्षा वा ॥ १।४५।८ ॥

उत्तरमिति । ततः गङ्गासन्तरणानन्तरमुत्तरमग्रिमं कूलमासाद्य प्राप्य ऋषिगणं तत्रत्यऋषिसमूहं सम्पूज्य गङ्गाकूले निविष्टाः कञ्चित्कालं स्थितास्ते विश्वामित्ररामलक्ष्मणाः विशालां पुरीं ददृशुः ॥ १।४५।९ ॥

तत इति । तदा पुरीदर्शनानन्तरकाले सहराघवः राघवसहितः मुनिवरो विश्वामित्रः दिव्यां प्राकृतविलक्षणां रम्यां रमणीयां स्वर्गोपमां स्वर्गसदृशीं विशालां नगरीं तूर्णं शीघ्रं ततो गङ्गाकूलात् जगाम ॥ १।४५।१० ॥

अथेति । अथ गमनानन्तरं महाप्राज्ञं महामुनिं विश्वामित्रं प्राञ्जलिर्भूत्वा रामः उत्तमां विशालां पुरीं पप्रच्छ किमस्या महत्त्वमिति प्रश्नं कृतवानित्यर्थः ॥ १।४५।११ ॥

द्वितीयं प्रश्नमाह कतर इति । हे महामुने विशालायामयं प्रसिद्धः कतरः कः राजवंशो ऽस्तीति श्रोतुमिच्छामि मे परं कौतूहलमस्ति ते भद्रं एतेन प्रश्नद्वयोत्तरं वदेति ध्वनितम् । हिशब्द इत्यर्थः ॥ १।४५।१२ ॥

तस्येति । तस्य रामस्य तद्वचनं श्रुत्वा मुनिपुङ्गवो विश्वामित्रः विशालस्य विशालाभिधनगरस्य तत् प्रसिद्धं पुरातनं पूर्वप्रश्नमाख्यातुमुत्तरत्वेन कथयितुं समारेभे ॥ १।४५।१३ ॥

तत्समारम्भमेवाह श्रूयतामिति । हे राघव हे राम शक्रस्य इन्द्रस्य शुभां कथां कथयतः प्रसङ्गसङ्गत्या वदतो मत्तः श्रूयतामेतेनेन्द्रकथा विशालाकथोपयोगिनीति सूचितम् अत एवास्मिन् देशे यद्वृत्तं तदपि तत्त्वेन श्रृणु अहं कथयामीत्यर्थः ॥ १।४५।१४ ॥

प्रतिज्ञातमाह पूर्वमिति । हे राम कृतयुगे पूर्वं महाबलाः दितेः पुत्रा आसन्निति शेषः । ततः महाभागाः वीर्यवन्तः सुधार्मिकाः अदितेः पुत्रा आसन् । तुशब्दो ऽनन्तरार्थकः पुत्रा इत्युभयान्वयि ॥ १।४५।१५ ॥

तत इति । ततः उत्पत्त्यनन्तरं हे नरव्याघ्र महात्मनां तेषां देवासुराणाममराः मरणरहिताः विजराः जरारहिताश्च निरामयाः रोगरहिताश्च वयं कथं स्याम इति बुद्धिः चिन्ता आसीत् । एवश्चार्थकः । इतीत्यध्याहृतम् । ऽस्यामोऽ इति पाठो यदि प्रामाणिकस्तर्हि उरित्यर्थकः ॥ १।४५।१६ ॥

तेषामिति । हे राम चिन्तयतां विपश्चितां पण्डितानां तेषां देवासुराणां क्षीरोदमथनं कृत्वा रसममरत्वादिहेतुभूतममृतं प्राप्स्याम प्राप्स्यामः इति बुद्धिः निश्चयस्तत्र तस्मिन्समये आसीत् । वैशब्द इत्यर्थे ॥ १।४५।१७ ॥

तत इति । ततः प्रयत्नविस्तारकर्तारः अमितौजसः देवासुराः मथनं निश्चित्य वासुकिं योक्रं मथनरज्जुं कृत्वा मन्दरं मन्थानं च कृत्वा ममन्थुः ॥ १।४५।१८ ॥

अथेति । अथ मन्थनप्रारम्भानन्तरं वर्षसहस्रेण अतिविषं वमन्त एव योक्रसर्पशिरांसि दशनैर्दंष्ट्राभिस्तत्र विद्यमानाः शिला ददंशुः । वमन्त इति पुंस्त्वमार्षम् । चशब्द एवार्थे ॥ १।४५।१९ ॥

विषप्रभावं वर्णयन्नाह उत्पपातेति । अग्निसङ्काशमग्न्यनुयोगिकसादृश्यप्रतियोगि हालाहलमहाविषं हालाहलजातिकविषोत्तममुत्पपात समुद्रादूर्ध्वमगच्छत् तेन हालाहलमहाविषेण सदेवासुरमानुषं देवासुरमानुषसहितं सर्वं जगत् दग्धं दग्धुमारेभे । आदिकर्मणि निष्ठा ॥ १।४५।२० ॥

अथेति । अथ विषकर्तृकदाहप्रारम्भानन्तरं शरणार्थिनः रक्षणप्रयोजनवन्तः देवाः शङ्करं

कल्याणकर्तारं पशुपतिं नन्दीश्वररक्षाशीलं रुद्रं सर्वरुद्रनियन्तारं महादेवं जग्मुः मनसेति शेषः त्राहि त्राहीति कृत्वा तुष्टुवुश्च । विनापि चं समुच्चयः ॥ १।४५।२१ ॥

एवमिति । ततः त्राहि त्राहीति वचनश्रवणानन्तरमेवमनेन प्रकारेण देवैरुक्तः देवदेवेश्वरः प्रभुः शिवः प्रादुरासीत् । ततः शिवप्रादुर्भावानन्तरं शङ्खचक्रधरो हरिः अत्रैव प्रादुरासीत् ॥ १।४५।२२ ॥

उवाचेति । हरिर्विष्णुः स्मितं कृत्वा शूलभृतमेनं रुद्रमुवाच । तद्वचनमेवाह दैवतैर्मथ्यमाने समुद्रे यत्पूर्वं समुपस्थितं निःसृतं तत् त्वदीयमेव तत्र हेतुः हे सुरश्रेष्ठ यद्यस्मात् त्वं सुराणामग्रतः अग्र्यः श्रेष्ठः अग्रत इत्यत्र प्रथमान्तात्तसिः अतः हे विभो सकलसामर्थ्यविशिष्ट इहैव स्थित्वा इदं विषं गृहाण । श्लोकद्वयमेकान्वयि । तु हि शब्दौ एवार्थौ ॥ १।४५।२३,२४ ॥

इतीति । सुरश्रेष्ठो विष्णुः इति अनेन प्रकारेण उक्त्वा तत्रैव अन्तरधीयत । देवेशः भगवान् सकलसामर्थ्यविशिष्टः हरः देवतानां भयं दृष्ट्वा शार्ङ्गिणः विष्णोः वाक्यं च श्रुत्वा घोरं हालाहलविषममृतोपमं यथा स्यात्तथा सञ्जग्राह कण्ठे दधार देवान्विसृज्वय जगाम च । श्लोकद्वयमेकान्वयि तुशब्दश्चार्थे ॥ १।४५।२५,२६ ॥

तत इति । हे रघुनन्दन ततः रुद्रगमनानन्तरं सर्वे देवासुराः ममन्थुः । अथ अनन्तरं मन्थानः पर्वतोत्तमो मन्दरः पातालं प्रविवेश । बहुत्वमार्षम् ॥ १।४५।२७ ॥

तत इति । ततः पर्वतस्य पातालगमनानन्तरं सगन्धर्वा देवाः मधुसूदनं तुष्टुवुः । स्तुतिमेवाह सर्वभूतानां दिवौकसां च विशेषेण गतिस्त्वमेव विनापि चं समुच्चयः । सर्वं वाक्यं सावधारणं भवतीति न्यायेन एवकारलाभः ॥ १।४५।२८ ॥

पालयेति । हे महाबाहो अस्माँस्त्वं पालय । पालनमेवाह गिरिमुद्धर्तुं त्वमर्हसि । हृषीकेशः विष्णुः इति देववचः श्रुत्वा कामठं कमठरूपसदृशं रूपमास्थितः प्रकटितवान् ॥ १।४५।२९ ॥

कमठरूपप्रकटनप्रयोजनं वदन्नाह पर्वतमिति । हरिः कमठरूपधारी विष्णुः तत्र मथ्यमाने उदधौ पर्वतं पृष्ठतः पृष्ठे कृत्वा शिश्ये । अनन्तरं लोकात्मा केशवः पुरुषोत्तमः पर्वताग्रं हस्तेनाक्रम्य देवानां मध्यतः स्थित्वा ममन्थ । सार्धश्लोक एकान्वयी ॥ १।४५।३० ॥

अथेति । अथानन्तरं वर्षसहस्रेण आयुर्वेदमयः धर्मात्मा सदण्डः दण्डसहितः सकमण्डलुः कमण्डलुसहितः स धन्वन्तरिर्नाम पुमानृ उदतिष्ठत् । पूर्वमिति पूर्वं धन्वन्तरिः अनन्तरं सुवर्चसः अप्सरा अप्सरसश्च उदतिष्ठन् । अर्धमेकान्वयि चो ऽनन्तरार्थकः ॥ १।४५।३१,३२ ॥

अप्सरश्शब्दार्थं विवृण्वन्नाह अप्स्विति । अप्सु तस्मात्प्रसिद्धात् निर्मथनादेव जातात् रसाद्वरस्त्रियः उत्पेतुः तस्माद्धेतोः हे मनुजश्रेठ अप्सरसो ऽप्सरस्सञ्ज्ञा अभवन् ता इति शेषः ॥ १।४५।३३ ॥

अप्सरसां सङ्ख्यां कुर्वन्नाह षष्टिरिति । सुवर्चसां तासामप्सराणामप्सरसां षष्टिः कोट्यः अभवन् यास्तासां परिचारिकास्तास्तु हे काकुत्स्थ असङ्ख्येयाः अभवन् । षष्टिः कोट्यः इत्यनयोः सङ्ख्येयत्वे अप्सरसामित्यत्र षष्ठी राहोः शिर इत्यादाविव बोध्या ॥ १।४५।३४ ॥

नेति । ते तत्र वर्तमानाः सर्वे देवदानवास्ताः परिचारिकासहिताः अप्सरसः न प्रतिगृह्णन्ति स्म तेन देवासुरसमूहेन तासामप्रतिग्रहणादेव ताः साङ्गाः अप्सरसः साधारणाः स्मृताः । ता इत्युभयान्वयि ॥ १।४५।३५ ॥

वरुणस्येति । हे रघुनन्दन महाभागा परिग्रहं स्वस्वीकर्तारं मार्गमाणा वारुणी सुराभिमानिनी देवता वरुणस्य कन्या ततः समुद्रादुत्पपात निस्सार ॥ १।४५।३६ ॥

दितेरिति । हे राम तां वरुणात्मजां दितेः पुत्रा न जगृहुः हे राम अदितेः सुतास्तु

अनिन्दितां तां जगृहुः ॥ १।४५।३७ ॥

असुरा इति । तेन सुराधिष्ठातृदेवतावरुणकन्याग्रहणाभावेन दैतेया असुरनामानो ऽभवन्निति शेषः । तेन सुराधिष्ठातृदेवताग्रहण्ोन अदितेः सुताः सुराः अभवन् । तत्र असुरशब्दे बहुव्रीहिः । सुरशब्दो ऽर्श आद्यजन्तः । एतदनुरोधेन ऽअथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमते न तेऽ इति भागवतस्य त्वयमर्थः । हरेरनुमते स्थिता असुरास्तां वारुणीं कन्यां न जगृहुः सुरा एव जगृहुरित्यर्थः । किञ्च असुराः जगृहुः सुरैर्ग्राहयामासुरिति सुराः अदितिसुताः वारुणीग्रहणाद्धेतोः हृष्टाः आनन्दविशिष्टाः अत एव प्रमुदिताः पुलकिताश्चासन् ॥ १।४५।३८ ॥

उच्चैरिति । हे नरश्रेष्ठ हरिश्रेष्ठः अश्ववरः उच्चैश्रवाः उदतिष्ठत् । मणिरत्नं मणिश्रेष्ठं कौस्तुभं च उदतिष्ठत् तथैव उत्तमममृतमुदतिष्ठत् ॥ १।४५।३९ ॥

अथेति । हे राम अथ अमृतोत्थानानन्तरं तस्य अमृतस्य कृते प्राप्तिप्रयत्ने महान्कुलक्षयः देवासुरकुलध्वंसः आसीत् ततः बहुदेवासुरध्वंसानन्तरमदितेः पुत्राः दितेः पुत्रान् असूदयन् । अमृतस्यार्थे कुलक्षयो जात इयत्नेन उच्चैश्रवः कौस्तुभयोः उभयसम्मत्यैव यथायोग्यं विभागो जात इति ध्वनितम् । योग्यता च पूर्वं सुराणां वारुणीग्रहणादसुराणामेव उच्चैः श्रवोग्रहणं युक्तं कौस्तुभस्य चोर्वरितत्वाद्विष्णुग्रहणं युक्तमिति ॥ १।४५।४० ॥

दितिसुतसूदनप्रकारं वर्णयन्नाह एकत इति । राक्षसैः सह सर्वे असुराः एकतः एकस्मिन्देशे एव अभ्यगमन् प्रापुः । हिशब्द एवार्थे तेन सुरा एव एकत्र इति ध्वनितम् । हे वीर महाघोरमतिभयङ्करमत एव त्रैलोक्यमोहनं युद्धमासीत् ॥ १।४५।४१ ॥

यदेति । यदा यस्मिन्काले सर्वे देवासुराः क्षयं क्षीणबलतां गताः प्राप्तास्तदा महाबलः सः विष्णुः मोहनीं मायां तूर्णमास्थाय स्वमोहिनीरूपं प्रकटय्येत्यर्थः । अमृतमहरत् ॥ १।४५।४२ ॥

य इति । अक्षयं विनाशरहितं पुरुषोत्तमं विष्णुं युद्धे ये ऽभिमुखं गताः बलादमृतजिघृक्षया प्राप्तास्ते तदागमनसमये प्रभविष्णुना स्वसामर्थ्यप्रकटनेच्छावता विष्णुना सम्पिष्टाः सं चूर्णिताः । सन्दिष्टा इति पाठे तु ये मित्रभावादिनाभिमुखं गताः ते सन्दिष्टाः अमृतपानाय आदिष्टा तेभ्यो ऽमृतं दत्तवानित्यर्थः । अस्मिन् पाठे पूर्वोक्तपाठार्थो व्यङ्ग्यमर्यादया लभ्यते । पूर्वोक्तपाठे एतत्पाठार्थस्तथा लभ्यत इति बोध्यम् ॥ १।४५।४३ ॥

अदितेरिति । हे वीर अदितेरात्मजा दितेः पुत्रान् दैतेयादित्ययोः महाघोरे तस्मिन् युद्धे भृशं निजघ्निरे ॥ १।४५।४४ ॥

निहत्येति । पुरन्दरः इन्द्रः दितिपुत्रान्निहत्य राज्यं प्राप्य च मुदितः सन् सर्षिसङ्घानृषिसङ्घसहितान् सचारणान् चारणसहिताँल्लोकान् शशास । अत्रास्मिन्सर्गे द्वात्रिंशत् श्लोकाः अन्ये कल्पिताः इति भूषणकृद्भिरुक्तं तत्रान्यकल्पितत्वं मूलयुक्तेरभावात् श्लोकार्थानामबाधकत्वाच्च भारतादिप्रसिद्धविषयबोधकत्वाच्च सर्वपुस्तकेषूपलम्भाच्च तदप्रमाणमिति प्रमाणिकाः अत एव ममन्थुरमितौजस इति श्लोकानन्तरं अथ वर्षेत्यादिआयुर्वेदमयः पुमानित्यन्तं त्रयोदशश्लोकाः प्रक्षिप्ता इत्यादिनात्र त्रयोदशानामेव प्रक्षिप्तत्वं भट्टैरुक्तं तन्मते ऽपि एकोनविंशतेः श्लोकानां कल्पितत्वाभाववत्त्वं सिद्धमेवोक्तत्रयोदशश्लोककल्पितत्त्वे ऽपि प्रमाणमलब्ध्वा बहव इत्युक्तम् एतेन तन्मने ऽपि सर्वेषां कल्पितत्वाभाववत्त्वमर्थतः फलितमत एव तीर्थादिव्याख्यासु कल्पितत्वप्रसङ्गानुत्थानमिति दिक् ॥ १।४५।४५ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥ १।४५ ॥