ब्रह्मसंवादं वर्णयितुं पुनस्तदेव वर्णयन्नाह स इति । तदा गङ्गाया जह्नुसुतात्वप्राप्त्युत्तरकाले गङ्गायानुगतः स राजा भगीरथः सागरं गत्वा प्राप्य यत्र ते सगरसुता भस्मसात् कृतास्तद्भूमेस्तलं प्रविवेश भस्मसमीपं प्रापेत्यर्थः । गङ्गयानुगत इत्युक्त्या गङ्गापि तत्तत्स्थलं प्रापेति फलितार्थः ॥ १।४४।१ ॥
भस्मनीति । अथ भस्मसमीपप्राप्त्यनन्तरं हे राम गङ्गायाः सलिलेन भस्मनि आप्लुते सत्येव सर्वलोकप्रभुर्ब्रह्मा राजानं भगीरथमिदमब्रवीत् । वैशब्द एवार्थे ॥ १।४४।२ ॥
तद्वचनमेवाह तारिता इति । हे नरशार्दूल भगीरथ महात्मनः सगरस्य षष्टिः पुत्रसहस्राणि तारिताः कपिलापराधजनितशोकसागरान्निःसारिताः अत एव देववत् दिवं स्वर्गं याताः प्राप्ताः ॥ १।४४।३ ॥
सागरस्येति । हे पार्थिव सागरस्य जलं यावल्लोके स्थास्यति तावत् सर्वे सगरस्यात्मजा देववत् स्वर्गे स्थास्यन्ति ॥ १।४४।४ ॥
तवाप्यतिकीर्तिर्भविष्यतीति बोधयन्नाह इयमिति । इयं गङ्गा तवापि ज्येष्ठा दुहिता भविष्यत्येव त्वत्कृतेन तव कृतं ज्ञानविषयीभूतप्रयत्नो यस्मात् पतेन नाम्नैव विश्रुता ख्याता सती लोके स्थास्यति । हिशब्दो ऽप्यर्थे चवैशब्दावेवार्थे ॥ १।४४।५ ॥
तन्नाम बोधयन्नाह गङ्गेति । त्रिपथगा नाम भागीरथीतिनाम च दिव्येति नाम च गङ्गा भविष्यतीति शेषः । ऽरामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनःऽ इत्यादाविव
शब्दार्थयोस्तादात्म्यान्नामगङ्गार्थयोरभेदः । तत्र त्रिपथगानामार्थं वर्णयन्नाह ततो विस्तृतान् त्रीन् लोकत्रयवर्तिनः पथो मार्गान् भावयन्ती भगीरथेन सह गच्छन्ती भगीरथं स्वाग्रे गमयन्तीवेति त्रिपथगा स्मृता । द्वितीयपक्षे अन्तर्भावितणिजर्थः । त्रिपथगाघटकीभूतो गमिः हेतुमतिचेति सूत्रविहितणिच्सन्नियोगान्न भूप्राप्तावात्मनेपदीति नियमप्रसक्तिः ॥ १।४४।६ ॥
पितामहानामिति । हे मनुजाधिप हे राजन् लोकरञ्जक सर्वेषां पितामहानामत्रास्मिन् जले सलिलं सलिलक्रियां त्वं कु रुष्व तेन प्रतिज्ञां गङ्गाजलप्रदानेन सगरपुत्रांस्तर्पयिष्ये इति । स्वपूर्वजादिकृतप्रतिश्रुतिमपवर्जय समापय ॥ १।४४।७ ॥
दुष्प्रापं त्वया प्राप्तमिति बोधयन्नाह पूर्वकेणेतिषड्भिः । राजन् हे भगीरथ अतियशसा यशस्विश्रेष्ठेन तथैव धर्मिणां प्रवरेण श्रेष्ठेन तेन प्रसिद्धेन ते पूर्वकेण सगरेण मनोरथः ईप्िसतगङ्गा नैव प्राप्ता । हिशब्द एवार्थे स च तथोत्तरत्र द्रष्टव्यः ॥ १।४४।८ ॥
तथेति । वत्स हे प्रिय लोके ऽप्रतिमतेजसा तथैव त्वया इव गङ्गामानेतुं प्रार्थयतांशुमता प्रतिज्ञा नापवर्जिता न समापिता ॥ १।४४।९ ॥
राजर्षिणेति । हे महाभाग हे अनघ राजर्षिणा राजश्रेष्ठेन गुणवता प्रशस्तगुणविशिष्टेन महर्षिसमतेजसा वशिष्ठतुल्यप्रतापेन मत्तुल्यतपसा मत्सदृशतपोविशिष्टेन क्षत्रधर्मस्थितेन अतितेजसा अत्यन्तकान्तिमता गङ्गामानेतुमेव पुनः पुनः प्रार्थयता तव पित्रा दिलीपेनापि आनेतुं गङ्गा न शकिता । आनेतुं विभक्तिविपरिणामेन गङ्गेति चोभ्ायान्वयि श्लोकद्वयमेकान्वयि एकश्चकारः पुनरर्थः अपरो ऽप्यर्थकः ॥ १।४४।१०,११ ॥
सेति । हे पुरुषर्षभ सा अन्यासमतिक्रमणीया प्रतिज्ञा त्वया समतिक्रान्ता परिपालिता अतः परमसम्मतं परमाणामुत्कृष्टजनानां सम्मतमत्यन्तेच्छाविषयीभूतमत एव परममुत्कृष्टं यशः लोके त्वं प्राप्तो ऽसि ॥ १।४४।१२ ॥
यशःप्राप्तिकारणं स्पष्टं कथयन्नाह यच्चेति । अरिन्दम हे शत्रुसूदन यद् गङ्गावतरणं त्वया कृतं तेनानेन प्रसिद्धेनावतरणेनैव धर्मस्य महत् उत्कृष्टमायतनं गृहमेव भवान् प्राप्तः । एतेन पुरुषार्थसिद्धिस्तव जातेति ध्वनितम् । चद्वयमेवार्थकम् ॥
१।४४।१३ ॥
लोकशिक्षार्थं कर्तव्यमुपदिशन्नाह प्लावयस्वेति । नरोत्तम पुरुषश्रेष्ठ शुचिरपि त्वमुचिते सदा स्नानादियोग्ये सलिले आत्मानं स्वदेहं सदा प्लावयस्व तेन पुण्यफलः लोकानां पुण्यनिष्पादकस्त्वं भव ॥ १।४४।१४ ॥
उपसंहरन्नाह पितामहानामिति । हे नृप सर्वेषां पितामहानां सलिलक्रियां त्वं कुरुष्व ते स्वस्ति अस्तु अहं स्वं लोकं गमिष्यामि त्वयापि गम्यताम् ॥ १।४४।१५ ॥
इतीति । देवेशः देवनियन्ता महायशाः सर्वलोकपितामह ब्रह्मा वचः एवमनेन प्रकारेण उक्त्वैव यथा येन प्रकारेण आगतं तथा तेन प्रकारेण देवलोकमगच्छत् ॥ १।४४।१६ ॥
ब्रह्मगमनौत्तरकालिकं भगीरथवृत्तमाह भगीरथ इति । राजर्षिः महायशाः भगीरथस्तु सागराणां यथाक्रमं ज्येष्ठादिक्रममनतिक्रम्य यथान्यायं यथाशास्त्रमुत्तमं सलिलं सलिलक्रियां कृत्वा स्वपुरं प्रविवेश ॥ १।४४।१७ ॥
ह अनन्तरं कृतमुदकमुदकक्रिया येन सः अत एव शुचिः अत एव समृद्धार्थः समृद्धः सम्पन्नः अर्थः प्रयोजनं यस्य सः अत एव नरश्रेष्ठः उत्तमपुरुषः राजा भगीरथः स्वे राज्यं प्रशशास । प्रथमो हकार हेत्वर्थः सचावृत्त्या उक्तेष्वन्वेति श्लोकद्वयं सम्मिलितान्वयि ॥ १।४४।१८ ॥
भगीरथप्रजावृत्तमाह प्रेति । हे राघव तं भगीरथं नृपमासाद्य प्राप्यैव समृद्धार्थः सम्प्राप्तैश्वर्यः अत एव विगतज्वरः विगतशरीरसन्तापः अत एव नष्टशोकः लोको जनः प्रमुमोद । चशब्दो हेत्वर्थे ॥ १।४४।१९ ॥
उपसंहरन्नाह एष इति । हे राम एषा गङ्गायाः विस्तरः ते मयाभिहितः कथितः अतः ते भद्रं कल्याणं सन्ध्याकालः अतिवर्तते अत्यन्तं प्राप्नोति अतः त्वं स्वस्ति मङ्गलमूलं सन्ध्योपासनादि प्राप्नुहि कुरु । एतेन अहमपि सन्ध्योपासनादि करिष्यामीति ध्वनितम् ॥ १।४४।२० ॥
गङ्गाविस्तर श्रावणादिफलमाह धन्यमित्यादिश्लोकत्रयेण । धन्यं धन्यतासम्पादकं यशस्यं यशःप्रदमायुष्यं आयुषः प्रदं पुत्र्यं पुत्रप्रदमिदमाख्यानमव्यग्रः एकाग्रचित्तः यः पुरुषः विप्रेषु विप्रसभासु अथापि क्षत्रियेषु अथापि इतरेषु वैश्येषु चकारेण शूद्रसभासु श्रावयति तस्य पितरः प्रीयन्ते दैवतानि च प्रीयन्ते चकारान्तरेण परमात्मापि प्रीयते । द्वयोरेकत्रान्वयः अथापीत्यावर्तते ॥ १।४४।२१,२२ ॥
श्रावणफलमुक्त्वा श्रवणफलमाह य इति । काकुत्स्थ हे राम इदमाख्यानं यः शृणोति स सर्वान्कामानवाप्नुयात् तस्य सर्वपापानि नश्यन्ति आयुः कीर्तिश्च वर्धते किञ्च यो विप्रादिषु श्रावयति यश्च शृणोति स सर्वान् कामा नवाप्नुयात् तस्य पित्रादयः प्रीयन्ते आयुरादिश्च वर्द्धते । त्रया णामेकत्रान्वयः ॥ १।४४।२३ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ १।४४ ॥