०४३ गङ्गावतारः

ब्रह्मगमनोत्तरकालिकं भगीरथवृत्तमाह देवेति । देवदेवे देवपूज्ये तस्मिन् ब्रह्मणि गते सति हे राम स भगीरथः अङ्गुष्ठाग्रनिपीडितां वामपादाङ्गुष्ठाग्रमात्राश्रितां वसुमतीं पृथिवीं कृत्वा संवत्सरमुपासत । गणकार्यस्यानियत्वात् शप्श्रुतिः ॥ १।४३।१ ॥

अथेति । अथ उपासनानन्तरं संवत्सरे पूर्णे सति सर्वलोकनमस्कृतः उमापतिः पशुपतिः शिवो राजानं भगीरथमिदमब्रवीत् उमापतिः पशुपतिरित्युक्त्या उमानन्दीश्वरयोः साहित्यं शिवस्य सूचितम् ॥ १।४३।२ ॥

तद्वचनमेवाह प्रीत इति । हे नरश्रेष्ठ अहं ते प्रीतः त्वद्विषयकप्रीतिमानतस्तव प्रियमीप्सितं करिष्यामि । प्रियमेव निर्दिशन्नाह शैलज्येष्ठसुतां गङ्गामहं शिरसा धारयिष्यामि ॥ १।४३।३ ॥

तत इति । तदा धारणप्रतिज्ञानन्तरकाले सर्वलोकनमस्कृता ज्येष्ठा हैमवती हिमवत्कन्या स प्रसिद्धा गङ्गा अतिमहद्रूपं दुःसहं महद्वेगं च कृत्वा ततः गङ्गाभवनत्वेन प्रसिद्धादाकाशात् शिवे सकलकल्याणमूलभूतशिवशिरसि उत वितर्केणापतत् । सार्धश्लोक एकान्वयी ॥ १।४३।४ ॥

तद्वितर्कमेव निर्दिशन्नाह अचिन्तयदिति । स्रोतसा शङ्करमागृह्यैव पातालमहं विशामीति परमदुर्धरा सा देवी गङ्गा अचिन्तयत् । चकार इत्यर्थकः हिरेवार्थकः । एतेन गङ्गायाः शिवे प्रीत्यतिशयः खेलनेच्छा च सूचिता ॥ १।४३।५ ॥

तस्या इति । तदा गङ्गाविचारसमये एव तस्याः गङ्गायाः लेपनं खेलनेच्छावृद्धिं ज्ञात्वा क्रुद्धो व क्रुद्ध इव भगवान् अतिसामर्थ्यविशिष्टस्त्रिनयनो हरः तिरोभावयितुं स्वशिरसि गङ्गां गोपयितुं बुद्धिं निश्चयं चक्रे एतेन शिवस्यापि खेलनेच्छा सूचिता । तुशब्द एवार्थे वशद इवार्थे अत एव सन्धौ नार्षकल्पना ॥ १।४३।६ ॥

सेति । हे राम पुण्या परमपवित्रत्वहेतुभूता सा गङ्गा पुण्ये अतिपवित्रत्वहेतुभूते हिमवत्प्रतिमे

हिमवान् प्रतिमा सदृशो यस्य तस्मिन् जटामण्डलगह्वरे तस्मिन्प्रसिद्धे रुद्रस्य शिवस्य मूर्धनि पतिता ॥ १।४३।७ ॥

सेति । यत्नमास्थिता सा गङ्गा महीं गन्तुं कथञ्चिन्नाशक्नोत् । तत्र हेतुः यतः जटामण्डलमोहिता सा गङ्गा निर्गमं मार्गं नैव लेभे ॥ १।४३।८ ॥

तत्रेति । देवी गङ्गा बहून्संवत्सरगणान् तत्र शिवसूर्धन्येव अबभ्रमत् अवाभ्रमत् आगमशास्त्रस्यानित्यत्वादड्विरहः तां देवीं तत्र शिवशिरस्येव अपश्यत् अत एव परमं तपः पुनः आस्थितः ॥ १।४३।९ ॥

अनेनेति । हे रघुनन्दन । अनेन भगीरथतपसा हरः अत्यर्थमत्यन्तं तोषितः आसीत् अत एव ततः स्वजटातः बिन्दुसरः ब्रह्मनिर्मितहिमवदेकदेशवर्ति सरोविशेषं प्रति गङ्गां विससर्ज ॥ १।४३।१० ॥

तस्यामिति । तस्यां गङ्गायां विसृज्यमाणायां सत्यां सप्तस्रोतांसि जज्ञिरे तेषां स्रोतसां नामानि निर्दिशन् वृत्तमाह ह्रादिनीनामा तथैव पावनीनामा च तथैव नलिनीनामा अ आसीदिति शेषः । गङ्गा शिवजलाः गङ्गैव शिवानि जलानि यासु ताः अत एव शुभाः सकलशुभहेतुभूताः तिस्रः ह्रादिन्यादयः प्राचीं दिशं जग्मुः ॥ १।४३।११ ॥

सुचक्षुरिति । प्रसिद्धा सुचक्षुः प्रसिद्धा सीता च प्रसिद्धा सिन्धुश्च महानदी आसीदिति शेषः । एताः प्रसिद्धाः शुभोदकास्तिस्रो ऽपि प्रतीचीं दिशमेव जग्मुः । तुचैवशब्दाः प्रसिद्धार्थाः । एकस्तुशब्दो ऽप्यथर्कः ॥ १।४३।१२ ॥

सप्तमीति । अथो ऽनन्तरं तासां सप्तानां स्रोतोव्यक्तीनां मध्ये सप्तमी तु भगीरथं नृपमन्वगात् । दिव्यं स्यन्दनमास्थितो महातेजाः राजर्षिः भगीरथो ऽपि अग्रे गङ्गायाः पुरतः प्रायात् गङ्गा तं रथस्थमपि अनुव्रजत् आगमशास्त्रस्यानित्यत्वादड्विरहः । सार्धश्लोक एकान्वयी । एकश्चस्त्वर्थे द्वितीयश्चकारो ऽप्यर्थकः ॥ १।४३।१३ ॥

गङ्गागमनप्रकारं वर्णयन्नाह गगनादिति । गगनात् शङ्करशिर आगता ततः शङ्करशिरसो धरणिं पृथिवीमागता तत्र धरण्यां तीव्रशब्दपुरस्कृतं तीव्रोत्युग्रः शब्दः पुरस्कृतः अग्रे गतो यस्य तत् जलं गङ्गातोयं व्यसर्पत विशेषतो ऽचलत् ॥ १।४३।१४ ॥

मत्स्येति । पतद्भिः वर्तमानकालिकपतनाश्रयैः पतितैर्भूतकालिकपतनाश्रयैश्च मत्स्यादिसङ्घैः शिंशुमारगणैः शिंशुमारो ऽम्बुकरी तत्समूहैश्च तथान्यैरनेकविधैर्जलचरैर्वसुन्धरा पृथ्वी व्यरोचत ऽशिंशुमारो ऽम्बुकरीऽ इति वैजयन्ती ॥ १।४३।१५ ॥

तत इति । तदा गङ्गागमनकाले ततः गङ्गालोकत्वेन प्रसिद्धात् गगनात् गां पृथ्वीं गतां प्राप्तां गङ्गां तत्र गगने स्थितास्ते देवादयस्तथा यक्षसिद्धगणाः व्यलोकयन्त ॥ १।४३।१६ ॥

विमानैरिति । पारिप्लवगतैः पारिप्लवः सम्भ्रमः स गतः प्राप्तो येभ्यः गगनाकारैः विपुलत्वेन गगनसदृशैर्विमानैस्तथा हयैः गजवरैरपि तत्र आकाशे एव विष्ठिताः गङ्गादर्शनकामनया संस्थिताः । चशब्द एवार्थे ॥ १।४३।१७ ॥

तदिति । अद्भुततममत्यन्तविलक्षणमत एव उत्तमं सर्वश्रेष्ठं किञ्च उत्तममुत्कर्षेण दर्शनाकाङ्क्षोत्पादकं तत् प्रसिद्धं लोके गङ्गापतनं दिदृक्षवः अमितौजसः अपरिमेयपराक्रमाः देवगणाः समीयुः स्वस्ववाहनेभ्यः उत्तीर्य गङ्गासमीपं प्रापुः ॥ १।४३।१८ ॥

सम्पतद्िभरिति । सम्पतद्भिं द्रुतमागच्छद्भिः सुरगणैस्तेषामाभरणौजसा च गततोयदं अभ्ररहितं गगनं शतादित्यं शतमादित्या यस्मिन् तदिव आभाति अशोभत “वर्तमानसामीप्ये " इति भूते लट् ॥

१।४३।१९ ॥

शिंशुमारेति । तदा तस्मिन् काले एव विद्युद्भिरिव शिंशुमारोरगगणैः अम्बुकरिसर्पसमूहैः चञ्चलैः मीनैरपि विक्षिप्तं व्याप्तमाकाशमभवत् । चशब्द एवार्थे ॥ १।४३।२० ॥

पाण्डुरैरिति । शारदाभ्रैरिव शरत्कालिकमेघसदृशैः हंससंप्लवैरिव प्लवमानहंससदृशैश्च पाण्डुरैः श्वेतैः सहस्रधा वायुवेगादिनानेकप्रकारं कीर्यमाणैः सलिलोत्पीडैः फेनैः आकीर्णं व्याप्तं गगनमभवदित्यनुकृष्यते । इवशब्द आवृत्त्या उभयत्रान्वेति विनापि चं समुच्चयः ॥ १।४३।२१ ॥

गङ्गासम्बन्धेनाकाशं संवर्ण्य गङ्गागमनप्रकारमाह क्वचिदिति । क्वचित्कदाचिद्द्रुततरं यथा भवति तथा याति गच्छति क्वचित्कुटिलं याति क्वचित् आयतं विस्तृतं याति क्वचित् विनीतं अगाधताप्राप्त्या सङ्कुचितं याति क्वचिदुद्भूतं पाषाणस्खलनादिना ऊर्ध्वमुखं याति क्वचिच्छनैः शनैः याति ॥ १।४३।२२ ॥

सलिलेनेति । क्वचित्कदाचित्सलिलेनैव अभ्याहतं सलिलमूर्ध्वगतिं गत्वा वसुधातलं पुनः पपात ॥ १।४३।२३ ॥

पातकालिकशोभां वर्णयन्नाह तदिति । निर्मलं शिलासु पातेन पङ्कादिरूपमलरहितं किञ्च निर्गतो यो मः परिमाणं घञर्थे कविधानमिति माधातोः कः तं लाति गृह्णातीति निर्मलं इयत्तारहितप्रभाववदित्यर्थः । गतकल्मषं गतानि निवृत्तानि कल्मषानि आश्रितानां पापानि यस्मात् तत् क्तप्रत्ययोपस्थितकालस्यात्राविवक्षा कर्तुरीप्सिततममिति सूत्रघटकीभूतक्तप्रत्ययोपात्तवर्तमानत्वस्येव आश्रिता चाविवक्षा ऽगन्ता विदेशं पथिकः प्रियो मे त्वद्वाक्यमात्रावधिरेव यात्रा । अतो ऽतिमौनं कुरु ताम्रचूड त्वां स्वर्णचूडाख्यमहं वदिष्येऽ ऽरात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहारऽ इत्यादौ तेन यदैव गङ्गादर्शनादि तदैव तत्कर्तृ़णां पापक्षय इति फलितं तेन यदि दर्शनादिकर्तृ़णां न पातकसम्बन्धस्तर्हि तत्र नेति किं वक्तव्यमिति काव्यार्थापत्तिरलङ्कारो ध्वनितः । शङ्करशिरोभ्रष्टं शङ्करशिरश्च्युतं पुनरनन्तरं भूमितलं भ्रष्टं तत् तङ्गाजलं तदा पतनादिकाले व्यरोचत लोकविलक्षणमशोभत तेन गङ्गाया ईश्वरत्वं बोधितम् ॥ १।४३।२४ ॥

तत्रेति । तत्र गङ्गापतनकाले ऋषिगणगन्धर्वाः वसुधातलवासिनश्च भवाङ्गपतितं भवाङ्गात् पतितमित्यतः पवित्रमतिशुद्धं तोयं पस्पृशुरेव । सर्वं वाक्यं सावधारणं भवतीति न्यायेनैवकारलाभः । अत्र पस्पृशुरेवेत्युक्त्या च सस्नुरिति फलितं तेन अवगाहानर्हवेगवत्त्वं तज्जलस्य सूचितम् । पञ्चमीतियोग विभागेन सम्बन्धसामान्यषष्ठ्या वा समासः । पूर्वविधावनल्विधावित्यादाविव । अतिपवित्रमित्यनेन स्वतः पविब्रत्वे सिद्धे ऽपि भवाङ्गस्पर्शद्वारा लोकानपि पावयिष्यतीति हेतुर्ध्वनितः । एतेनानुशासनविरहात् पञ्चमीसमासानुपपत्तिरिति प्रत्युक्तम् यत्तु सामान्योक्त्या शिवस्यापि पवित्रत्वकारकमिति भूषणकृद्भिरुक्तं तच्चिन्त्यं हरस्येश्वरत्वेन तत्र मलसम्बन्धस्यासम्भवेन तत्पवित्रत्वकारकस्य दुर्वचत्वात् यदि ईश्वरे ऽपि मलसम्बन्धः स्वीक्रियते तर्हि हर्यनुक्तेर्न्यूनता तेषां स्यात् किञ्च हरिहरभक्तानां तीर्थपावनसामर्थ्यमस्तीति स्मृत्यादिसिद्धमत एव ऽसाधवो न्यासिनः शान्ता बलिष्ठा लोकपावनाः । हरन्त्यघं ते ऽङ्गसङ्गात्तेष्वस्ति ह्यघभिद्धरिःऽ इति गङ्गागमनसमये गङ्गां प्रति भगीरथवचनं ऽभवद्विधा भागवतास्तीर्थभूताः स्वयं प्रभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृताऽ इत्यादिविदुरं प्रति युधिष्ठितवचनं सङ्गच्छते । एतेन गङ्गाजलसम्बन्धाद्धरः शुद्धः हराङ्गसम्बन्धाच्च गङ्गामतिपवित्रता तत्याजेति वचनं श्रेयस्कामैर्दूरतः परिवर्जनीयम् आदरणीयं चेदं हरगात्रस्पर्शादतिपवित्रत्वं प्राप्ता गङ्गेति अत एव हरस्य गात्रसंस्पर्शात्पवित्रत्वमुपगतेत्यादीनि

सङ्गच्छन्ते सङ्गच्छते च विष्णुपादोद्भवां दिव्यामित्यादिपवित्रत्वमुपागतेत्यत्र पवित्रशब्दो ऽतिपवित्रपरः । ऽयच्छौचनिः सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्यधिकृत्तेन शिवः शिवोभूत् इति भागवतस्य तु अयमर्थः शिव स्वतः सिद्धकल्याणस्वरूपः शिवः लोकानां कल्याणप्रदो ऽभूदिति अयं भावः यदि शिवो गङ्गां न धारयेत् तर्हि गङ्गा पृथिव्यां नोपलभ्येत तथा च लोककल्याणं न स्यात् धारणे तु सर्वं सिद्धमिति अत ऽएव तदम्बु पतितं स्पृष्ट्वा दधार शिरसा हरः । पावनार्थं जटामध्ये गतो ऽस्मीत्यवधारणात्ऽ इति भारतपद्ये पूप्रकृतिकणिजन्तप्रकृतिकल्युडन्तप्रयोगः लोकानां पावनार्थमित्यर्थः । अन्यथा ऽतदम्बु पतितं स्पृष्ट्वा दधार शिरसा हरः । पूतो ऽभूत्स जटामध्ये गतो ऽस्मीत्यवधारणात्ऽ इत्येव वदेत् । हरस्येश्वरत्वे प्रमाणं तु ऽसत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैऽ रित्यादि । ऽधारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् । यस्मिन्नोत्तमिदं प्रोतं विश्वं शाटीव तन्तुषु । अहं ब्रह्मा च शर्वश्च जगतः कारणं परम्ऽ इत्यादि भागवतादिवचनमिति दिक् ॥ १।४३।२५ ॥

गङ्गाप्रभावं वर्णयन्वृत्तान्तरमाह शापादिति । चशब्द एवार्थे । ये देवादयः गगनाद्वसुधातलं शापात्प्रपतितास्ते तत्र गङ्गायाममिषेकं कृत्वैव गतकल्मषाः शापादिहेतुककल्मषरहिता बभूवुः ॥ १।४३।२६ ॥

पापापगमानन्तरकालिकं वृत्तमाह धूतेति । ततः अभिषेकानन्तरं सुभास्वता अत्यन्तप्रकाशमानेन तेन पृथिवीं प्राप्तेन तोयेन अभिषिक्तगङ्गाजलेनैव धूतपापाः विगतकल्मषास्ते शापवशेन पृथिवीं प्राप्ताः देवादयः आकाशं पुनः आविश्य प्रविश्य आकाशमार्गेण गत्वेत्यर्थः स्वान् लोकान् पुनः प्रतिपेदिरे प्रापुः ॥ १।४३।२७ ॥

मुमुदे इति । मुदितः गङ्गागमनश्रवणेन प्रमोदं प्राप्तः लोकः तात्कालिकतद्देशसम्बन्धिजनः भास्वता प्रकाशमानेन तेन शापादिदोषनिवर्तकत्वेन दृष्टेन गङ्गायां विद्यमानेन तोयेन कृताभिषेकः सन् विगतक्लमः विगतो निवृत्तः क्लमः कल्मषादिहेतुकग्लानिर्यस्य स बभूव अत एव मुमुदे परमं प्रमोदं प्राप ॥ १।४३।२८ ॥

प्रसङ्गतः गङ्गाप्रभावं संवर्ण्य प्रकृतभागीरथवृत्तमाह भगीरथ इति । दिव्यं स्यन्दनमास्थितः राजर्षिः महातेजाः भगीरथः अग्रे प्रायात् तं भगीरथं गङ्गापि पृष्ठत अन्वगात् ॥ १।४३।२९ ॥

देवा इति । हे राम प्रीताः सर्षिगणाः ऋषिगणसहिताः सर्वे देवाः दैत्यदानवराक्षसाश्च सकिन्नरमहोरगाः किन्नरमहोरगैः सहिताः गन्धर्वयक्षप्रवराश्च सर्वा अप्सरसश्च सर्वे ये जलचरास्ते च भगीरथरथानुगाः सन्तः गङ्गाम् अन्वगमन् अगच्छन् । द्वयोरेकत्रान्वयः ॥ १।४३।३० ॥

यत इति । राजा महाराजाधिराजो भगीरथः यतः येन पथा गच्छतीति शेषः ततः तेन पथा यशस्विनी समाधिकरहितयशोविशिष्टा सर्वपापविनाशिनी स्वाश्रितसमूलदोषनिवर्तनशीला सरितां श्रेष्ठा गङ्गा गच्छति तृतीयान्तात्तसिः ॥ १।४३।३१ ॥

तत इति । ततः उक्तक्रियादिविशिष्टत्वाद्धेतोः अद्भुतकर्मणः महात्मनः यजमानभ्य जह्नोः यज्ञवाटं यज्ञशालां गङ्गा संप्लावयामास हि विद्वत्समाजे प्रसिद्धमेतत् । अत्र प्रार्थनां विनैव गङ्गा यज्ञशालां प्राप्तेत्यनेन जह्नोर्गङ्गोपासकत्वं सूचितम् ॥ १।४३।३२ ॥

तस्या इति । हे राघव तस्याः गङ्गाया वले यागशालाया आच्छादने प्लावने इत्यर्थः । पनमहोभाग्यमेतस्य यस्य यज्ञशालां गङ्गा प्राप्तेति स्वकीयां स्तुतिमेव ज्ञात्वा अत एव अक्रुद्धः क्रोधरहित एव जह्नुः परमाद्भुतं लौकिकविलक्षणं सर्वं गङ्गाया जलमपिबत् तेन जह्नोर्गङ्गाविषयकप्रीत्यतिशयः सूचितः । तुशब्दौ एवार्थौ । यत्तु क्रुद्ध इति छित्त्वा गङ्गासम्प्रदानककोपं वर्णयन्ति तच्चिन्त्यम् गङ्गाया भगीरथानुगमनशीलत्वेन कोपाविषयत्वात्

भगीरथसम्प्रदानककोपावर्णनाच्च ॥ १।४३।३३ ॥

तत इति । सगन्धर्वाः देवाः ऋषयश्च सुविस्मिताः सन्तः महात्मानं पुरुषसत्तमं जह्नु पूजयन्ति अपूजयन् । “वर्तमानसामीप्ये” इति भूते लट् । महात्मनः जह्नोः दुहितृत्वे जह्नुनिरूपितकन्यात्वे गङ्गां च नयन्ति स्म यदि भवच्छरीरात् गङ्गा निस्सरिष्यति तर्हि भवत्कन्या भविष्यतीत्यूचुरित्यर्थः । अपिशब्दः प्रसिद्धार्थकः इदं प्रसिद्धमित्यर्थः ॥ १।४३।३४ ॥

तत इति । ततः दुहितृत्वप्रापणानन्तरं तुष्टो महातेजा जह्नुः श्रोत्राभ्यां पुनरसृजत् गङ्गा प्रादुश्चकारेत्यर्थः । तस्मात् जह्नुश्रोत्रप्रादुर्भावात् गङ्गां जह्नुसुता जाह्नवी इति च प्रोच्यते तुष्ट इत्यनेन गङ्गारूपसुतार्थमेवैतस्य यागे प्रवृत्तिरिति ध्वनितम् ॥ १।४३।३५ ॥

जगामेति । गङ्गा भगीरथरथानुगा सती पुनर्जगाम अनन्तरं सा सरित्वप्रवरा गङ्गा सागरं सम्प्राप्ता तदा सागरप्राप्त्युत्तरकाले एव तस्य भगीनरथप्रार्थितस्य कर्मणस्तत्पितृतारणकार्यस्य सिद्ध्यर्थं रसातलमप्युपागच्छत् । एकश्चशब्द एवार्थकः अपरो ऽनन्तरार्थकः ॥ १।४३।३६ ॥

भगीरथ इति । राजर्षिर्भगीरथो ऽपि यत्नतः गङ्गामादाय भस्मकृतान् पितामहान् दीनचेतनः सन् अपश्यत् ॥ १।४३।३७ ॥

अथेति । हे रघूत्तम उत्तमं तत् गङ्गासलिलं भस्मनां राशिं प्लावयत् अप्लावयत् । अथानेन हेतुना पूतपाप्मानः सागराः स्वर्गं प्राप्ताः । आगमशास्त्रस्यानित्यत्वादड्विरहः । ऽप्लावयेत्ऽ इति भूषणपाठः । आप्लावयदिति तद्व्याख्या ॥ १।४३।३८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे ऽत्रिचत्वारिंशः सर्गः ॥ १।४३ ॥