सगरकर्तृकस्वर्गगमनानन्तरकालिकं वृत्तमाह कालेति । हे राम सगरे कालधम गते सति प्रकृतीजनाः सर्वाः प्रजाः सुधार्मिकमंशुमन्तं राजानं रोचयामासुः राजत्वेनेषुः । प्रकृतिशब्दो दीर्घेकारान्तो ऽपि “कृदिकारादक्तिनः” इति प्रवृत्तेः । क्तिन्नन्तत्वान्न तत्प्रवृत्तिरिति तु भ्रमितव्यम् सञ्ज्ञावाचकत्वेन क्तिजन्तत्वात् । सञ्ज्ञात्वे प्रमाणम् ऽप्रकृतिः सहजे योनावमात्ये परमात्मनिऽ इति वैजयन्ती । एतेन छान्दसो दीर्घ इति भूषणाद्युक्तिर्नादर्तव्या ॥ १।४२।१ ॥
स इति । ते रघुनन्दन सः प्रजाभिः राजत्वेन इष्टः अंशुमान् सुमहान् राजा आसीत् । तस्यांशुमतः पुत्रः महान् सर्वपूज्यः दिलीप इति विश्रुतः ख्यातः आसीत् ॥ १।४२।२ ॥
तस्मिन्निति । हे रघुनन्दन तस्मिन् दिलीपे राज्यं समावेश्य रम्ये हिमवच्छिखरे सुदारुणं तपस्तेपे गङ्गानयनकामनया अंशुमानिति शेषः ॥ १।४२।३ ॥
द्वात्रिंशच्चेति । द्वात्रिंशत्सहस्राणि वर्षाणि तपोवनगतस्तपोवनं प्राप्तः अत एव तपोधनः राजांशुमान् स्वर्गमेव लेभे । एवेन गङ्गालाभव्यवच्छेदः । चशब्द एवार्थे ॥ १।४२।४ ॥
दिलीप इति । महातेजाः दिलीपः पैतामहं पितामहसम्बन्धिनं वधं मृत्युं श्रुत्वैव दुःखोपहतया दुःखाभिभूतयाबुद्ध्या निश्चयं गङ्गानयनोपायविषयकबुद्धिं नाध्यगच्छत न प्राप्नोत् । एतेन चिन्तापरतयैव बहूनि दिनानि व्यतीतानीति ध्वनितम् ॥ १।४२।५ ॥
चिन्तास्वयपमेवाह कथमिति । गङ्गावतरणं गङ्गाया आगमनं कथं स्यात् । ननु मास्त्वागमनमत आह तेषामपमृत्युप्राप्तानां पितृ़णां जलक्रिया कथं स्यात् । ननु जलान्तरेण अलक्रियास्त्वित्यत आह कथमेतान् पितृ़न् तारयेयम् एतेन जलान्तरेण जलक्रियया एषां तरणं न भविष्यतीति सूचितम् इति एवंप्रकारेण चिन्तापर एवाभवत् दिलीप इति शेषः । चशब्द एवाथेर् ॥
१।४२।६ ॥
तस्येति । नित्यं चिन्तयतः धर्मेण धर्माचरणेन विदितः प्रख्यातः आत्मा स्वरूपं यस्य तस्य दिलीपस्य परमधार्मिकः भगीरथो नाम पुत्रः यज्ञे ॥ १।४२।७ ॥
दिलीप इति । महातेजाः दिलीपस्तु बहुभिः यज्ञैः इष्टवान् । तद्राज्यकरणसङ्ख्यामाह त्रिंशद्वर्षसहस्राणि राजा दिलीपः राज्यमकारयत् । रामो राज्यमचीकरदित्यादाविव णिच्प्रयोगः ॥ १।४२।८ ॥
अगत्वेति । हे नरशार्दूल राजा दिलीपस्तेषामपमृत्युं प्राप्तानां पितृ़णामुद्धरणं प्रति निश्चयमगत्वा अप्राप्य व्याधिना कालधर्ममुपेयिवान् प्राप ॥ १।४२।९ ॥
कालधर्मप्राप्तिप्रकारं वर्णयन्नाह इन्द्रेति । राज्ये पुत्रं भगीरथमभिषिच्य स्वार्जितेन कर्मणैव राजा दिलीपः इन्द्रलोकं गत ॥ १।४२।१० ॥
भगीरथ इति । हे रघुनन्दन राजर्षिः धार्मिकः धर्मनिरतः भगीरथस्तु अनपत्यः अपत्यरहित आसीदिति शेषः । हे रघुनन्दन अप्रजाः अपत्यरहितः अत एव प्रजाकामः अपत्यविषयकेच्छावान् सा भगीरथः मन्त्रिषु तद्राज्यमाधाय नियुज्य गङ्गावतरणे गङ्गानयने रतः अत एव गोकर्णे गोकर्णाभिधमहादेवसमीपे ऊर्ध्वबाहुः पञ्चतपाः पञ्चानां पार्श्वचतुष्टयवर्तिवह्न्यूर्ध्ववर्तिसूर्याणां मध्ये तपो यस्य उक्तैः पञ्चभिस्तपो यस्येति वा मासाहारः मासे मासान्ते आहारो भोजनं यस्य जितेन्द्रियः सन् दीर्घं तपः समातिष्ठत् अकरोत् । चशब्दो हेत्वर्थे सार्धश्लोकद्वयमेकान्वयि ॥ १।४२।११,१२ ॥
तस्येति । हे महाबाहो घोरे तपसि तिष्ठतस्तस्य भगीरथस्य वर्षसहस्राणि अतीतानि व्यतीतानि अत एव महात्मनस्तस्य वर्षसहस्राणि अतीतानि व्यतीतानि अत एव महात्मनस्तस्य राज्ञो भगीरथस्य उपरि भगवान् सकलसामर्थ्यविशिष्टः प्रजानां पतिः स्वामी अत एव ईश्वरो नियन्ता ब्रह्मा सुप्रीतो ऽभवदिति शेषः । सार्धश्लोकः सम्मिलितान्वयी ॥ १।४२।१३ ॥
तत इति । ततः सुप्रसादानन्तरं पितामहो ब्रह्मा सुरगणैः सार्धमुपागम्य प्राप्य महात्मानमतिप्रयत्नवन्तं तप्यमानं भगीरथमथ मङ्गलवचनमब्रवीत् । तद्वचनमेवाह हे सुव्रत हे महातेजः हे भगीरथ हे जनाधिप ते सुतप्तेन तपसा अहं प्रीतः अतः वरं वरय । चशब्दो हेत्वर्थे ॥ १।४२।१४,१५ ॥
तमिति । महातेजाः महाभागः परमभाग्यविशिष्टः कृताञ्जलिः प्रणतिसूचकबद्धयुगलकरः उपस्थितः समीपं प्राप्तो भगीरथस्तं प्रसन्नं सर्वलोकपितामहं ब्रह्माणमुवाच ॥ १।४२।१६ ॥
तद्वचनमेवाह यदीति । भगवन् हे ब्रह्मन् यदि भवान् मे प्रीतः अस्ति तपसः फलं चास्ति तर्हि सर्वे सगरस्यात्मजाः सलिलं गङ्गाजलं मत्त आप्नुयुः प्राप्नुयुः ॥ १।४२।१७ ॥
गङ्गाया इति । एषां महात्मनां भस्मनि गङ्गायाः सलिलक्लिन्ने सति अत्यन्तम् अन्तं ध्वंसमतिक्रान्तमक्षय्यमित्यर्थः स्वर्गं सर्वे मे प्रपितामहाः गच्छेयुः प्राप्नुयुः ॥ १।४२।१८ ॥
वरान्तरं प्रार्थयते देयेति । हे देव सन्ततिः पुत्रश्च मे मह्यं देया यतो नो ऽस्माकं कुलं नावसीदेत् इक्ष्वाकूणां कुले जातस्य मे एषः परो द्वितीयो देवः प्रमोदकारकः वरो ऽस्तु ॥ १।४२।१९ ॥
उक्तेति । उक्तवाक्यमुच्चारितप्रार्थनावचनं राजानं भगीरथं सर्वलोकपितामहो ब्रह्मा शुभां शुभहेतुभूतामेव मधुरां मनोहरां मधुराक्षरां मनोहराक्षरविशिष्टां वाणीं प्रत्युवाच । तुशब्द एवार्थे ॥ १।४२।२० ॥
तत्प्रतिवचनमेवाह मनोरथ इति । हे महारथ हे भगीरथ हे इक्ष्वाकुकुलर्धन एष ते महान्
मनोरथः एवं सिद्धो भवतु ते भद्रं कल्याणमस्तु ॥ १।४२।२१ ॥
इयमिति । हैमवती हिमवत्समीपवर्तिनी हिमवतो ज्येष्ठा सुता या इयं प्रसिद्धा गङ्गा तां तत्र
गङ्गागमनसमये धारयितुं हरः एव नियुज्यतां प्रार्थ्यताम् । वैशब्द एवार्थे तेन तद्धारणसामर्थ्यं शिवातिरिक्तस्य नास्तीति बोधितम् ॥ १।४२।२२ ॥
ननु पृथिव्येव धारयिष्यतीत्यत आह गङ्गाया इति । हे राजन् गङ्गायाः पतनं पृथिवी न सहिष्यते अतो हे राजन् तां गङ्गां धारयितुं शूलिनः शिवादन्यं न पश्यामि । वैशब्दः शीघ्रार्थकः ॥ १।४२।२३ ॥
तमिति । लोककृद्ब्रह्मा राजानं तं भगीरथमेवमुक्त्वा गङ्गां चाभाष्य एतद्भगीरथप्रार्थनासिद्धिस्त्वया कर्तव्येत्युक्त्वा सर्वैर्देवैः सर्वैर्मरुद्गणैः सह त्रिदिवं स्वं लोकं जगाम पुनर्मरुद्गणोपादानं ब्राह्मणवशिष्ठन्यायेनेति बोध्यम् ॥ १।४२।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे द्विचत्वारिंशः सर्गः ॥ १।४२ ॥