भस्मराशीकरणान्तरकालिकं वृत्तमाह पुत्रानिति । हे रघुनन्दन चिरगतान् अश्वान्वेपणार्थं बहुकालतो देशान्तरं प्राप्तान् पुत्रान् ज्ञात्वा स्मृत्वां स्वतेजसा दीप्यमानं नप्तारमंशुमन्तं राजा सगरो ऽब्रवीत् ॥ १।४१।१ ॥
शूर इति । तेजसा पूर्वैस्तुल्यः शूरः कृतविधः सम्पादितास्त्रादिक्षास्त्रश्च तवमसि अतो हेतोः पितृ़णां गतिमन्विच्छ अन्वेषणं कुरु येन अश्वो ऽपहारितो ऽपहृतस्तं चान्विच्छ एकश्चकारो हेत्वर्थकः ॥ १।४१।२ ॥
अन्वेषणरीतिमुपदिश्ान्नाह अन्तरिति । अन्तर्भौमानि भूम्यन्तर्वर्तीनि सत्वानि वध्यदुष्टप्राणिनः वीर्यवन्ति अतिवीर्ययुक्तानि महान्ति बृहच्छरीराणि च सन्ति अतस्तेषां सत्त्वानां प्रतिघातार्थं सासिमसिसहितं कार्मुकं धनुस्त्वं गृह्णीष्व ॥ १।४१।३ ॥
अभिवाद्येति । अभिवाद्यान् तत्र मिलिताभिवादनयोग्यान् अभिवाद्य प्रणम्य विघ्नकरांश्च हत्वा सिद्धार्थो निष्पादितप्रयोजनः प्राप्ताश्वक इत्यर्थः अत एव मम यज्ञस्य पारगस्त्वं संनिवर्तस्व अश्वं गृहीत्वा गृहमागच्छेत्यर्थः ॥ १।४१।४ ॥
एवमिति । महात्मना सगरेण एवमनेन प्रकारेण सम्यगुक्तः सम्यगुपदिष्टः लघुविक्रमः लघुना कालेन विक्रमो बहुगमनं यस्य सोंशुमान् धनुः खड्गं चादाय गृहीत्वा जगाम ॥ १।४१।५ ॥
स इति । नरश्रेष्ठ हे राम । तेन प्रसिद्धेन राज्ञा सगरेण अभिचोदितः प्रेरितः सोंशुमान् पितृखातं
पितृ़णां खननेन निर्मितमन्तर्भौमम्मूम्यन्तर्विद्यमानं मार्गं महात्मभिरतिप्रयत्नैः प्रापद्यत । महात्मभिरिति पित्रन्वयि ॥ १।४१।६ ॥
दैत्येति । महातेजा अंशुमान् दैत्यादिभिः पूज्यमानं दिशागजमपश्यत ॥ १।४१।७ ॥
स इति । हे स अरिनिवर्तक राम सों ऽशुमानृ तं गजं प्रदक्षिणं कृत्वैव निरामयं कुशलं च पृष्ट्वैव पितृ़न् वाजिहर्तारं च पप्रच्छ ॥ १।४१।८ ॥
दिशेति । दिशागर्जोशुमतस्तद्वचः श्रुत्वैव प्रत्याह तत्प्रतिवचनमेवाह हे आसमञ्ज कृतार्थः दृष्टाश्वः अत एव सहाश्वः अश्वसहितः त्वं शीघ्रमेष्यसि स्वपितामहसमीपं प्राप्स्यसि एतेन गजानां (गजस्य) परमाभिज्ञत्वं सूचितम् विशेषवृत्तानुक्त्या तेषां (तस्य) दयालुत्वं सूचितम् । आसमञ्जशब्दःशिवाद्यणन्तः ॥ १।४१।९ ॥
तस्येति । तस्य पूर्वदिग्गजस्य तद्वचनं श्रुत्वैव सर्वान् दिशो गजान् यथाक्रमं क्रममनतिक्रम्य यथान्यायं यथोचितं प्रष्टुं समुपचक्रमे ॥ १।४१।१० ॥
तैरिति । वाक्यज्ञैः परवचनश्रवणमात्रेणाशयाभिज्ञैः वाक्यकोविदैः वचननिपुणैर्दिशां पालैः सर्वैरेव तैर्गजैः पूजित सहय एव त्वं गन्तासीत्यभिचोदितश्च एवांशुमानासीदिति शेषः । विशेषवृत्तं तैरपि नोक्तमित्यर्थः । तेन तेषामपि तत्त्वं व्यञ्जितम् । एकश्चशब्द एवार्थे ॥ १।४१।११ ॥
तेषामिति । तेषां गजानां तद्वचतनं श्रुत्वा लघुविक्रमोंशुमान् यत्र तस्यांशुमतः पितरः सागरा भस्मराशीकृतास्तत्र जगाम ॥ १।४१।१२ ॥
स इति । तदा प्राप्तिसमये एव असमञ्जसुतः सोंशुमान् दुःखवशमापन्नः कुशकुनदर्शनादिना किञ्चिद्दुःखं प्राप्त इत्यर्थः । पश्चात्तेषां पितृ़णां वधाद्वधमवगत्य सुदुःखितः अत्यन्तदुःखं प्राप्तः अत एव परमार्तः पृथिव्यां लुण्ठितः चुक्रोश रुरोद । एकस्तुशब्द एवार्थे द्वितीयः पश्चादर्थकः ॥ १।४१।१३ ॥
यज्ञियमिति । तत्र तस्मिन्समये दुःखशोकसमन्वितः पुरुषव्याघ्रों ऽशुमान् अविदूरत एव चरन्तं यज्ञियं हयं ददर्श । चशब्द एवार्थे ॥ १।४१।१४ ॥
स इति । तेषां दग्धानां राजपुत्राणां जलक्रियां कर्तुकामः अत एव सलिलार्थी सलिलप्रयोजनवान् महातेजाः सों ऽशुमान् जलाशयं नैवापश्यत् । चशब्द एवार्थे ॥ १।४१।१५ ॥
विसार्येति । हे राम निपुणां दूरदर्शनक्षमां दृष्टिं विसार्य सर्वतः प्रसार्य पितृ़णां मातुलमनिलोपमं वायुसदृशं खगाधिपं सुपणं गरुडं तत्र तस्मिन्समये अपश्यत् अंशुमानिति शेषः ॥ १।४१।१६ ॥
स इति । महाबलः सोंशुमता दृष्टो वैनतेयो गरुड एनमंशुमन्तं वाक्यमब्रवीत् । तद्वाक्यमेवाह हे पुरुषव्याघ्र अयं वधः लोकसम्मतः लोकानामूर्ध्वाधोमध्यवर्तिभुवनानां सम्मतः अतो मा शुचः शोकं न कुरु । चशब्दो हेत्वर्थे ॥ १।४१।१७ ॥
कपिलेनेति । हे प्राज्ञ अप्रमेयेन इयत्तारहितप्रभावविशिष्टेन कपिलेन इमे महाबला हताः अतो लौकिकं सलिलमेषां दातुं नैवार्हसि । हिशब्द एवार्थे द्वितीयो हेत्वर्थे ॥ १।४१।१८ ॥
ननु किमलौकिकजलमस्ति यद्दातव्यमित्यत आह गङ्गेति । हे पुरुषर्षभ
पुरुषश्रेष्ठ महाबाहो हिमवतो ज्येष्ठा दुहिता या गङ्गा तस्यां पितृ़णां सलिलक्रियां कुरु ॥ १।४१।१९ ॥
अलौकिकजलेन सलिलक्रियाकरणे हेतुमाह भस्मेति । लोकपावनी गङ्गा एतान् भस्मराशीकृतान् प्लावयेत् । ननु तया भस्मप्लावने किं फलमित्यत आह लोककान्तया ज्ञानोत्पादनद्वारा लोकप्रकाशिकया तया प्रसिद्धया गङ्गया इदं क्लिन्नं प्लावितं भस्म षष्टिं
पुत्रसहस्राणि स्वर्गलोकं नयिष्यति नेष्यति एतेन अवश्यं गङ्गानयने यत्नः कर्तव्य इति ध्वनितम् ॥ १।४१।२० ॥
तात्कालिककर्तव्यमाह गच्छेति । हे महाभाग हे पुरुषर्षभ अश्वं सङ्गृह्य त्वं गच्छ तेन पैतामहं यज्ञं संवर्तयितुं संसाधयितुमर्हस्येव चशब्द एवार्थे ॥ १।४१।२१ ॥
सुपर्णेति । अतिवीर्यवान् महायशाः सः प्रसिद्धः अंशुमान् सुपर्णवचनं श्रुत्वा हयमादाय त्वरितं पुनः आयात् ॥ १।४१।२२ ॥
तत इति । हे रघुनन्दन ततः कपिलाश्रमात् दीक्षितं राजानमासाद्य प्राप्य वृत्तं पितृ़णां वृत्तान्तं यथा यथावन्न्यवेदयत् तथा तेन प्रकारेण सुपर्णवचनं च न्यवेदयत् ॥ १।४१।२३ ॥
तदिति । घारेसङ्काशं घोरत्वेन प्रकाशमानं अंशुमतस्तद्वाक्यं श्रुत्वा नृपः सगरः यथाकल्पं यथासामर्थ्यं यथाविधि विधिमनतिक्रम्य यज्ञं निर्वर्तयामास समापयाञ्चकार ॥ १।४१।२४ ॥
स्वेति । श्रीमान् इष्टयज्ञः महीपतिः सगरः स्वपुरं शीघ्रमेवागमत् । राजा सगरः गङ्गायाः आगमे निश्चयं नैवाध्यगच्छत् । तुचशब्दो एवार्थौ ॥ १।४१।२५ ॥
अगत्वेति । महान् राजा सगरः निश्चयं गङ्गानयने यत्नविशेषं महता कालेनापि अगत्वा अप्राप्य त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ १।४१।२६ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकचत्वारिंशः सर्गः ॥ १।४१ ॥