०४० सगर-सुत-विनाशः

देवतानामिति । भगवान् पितामहो ब्रह्मा देवतानां वचः श्रुत्वैव कृतान्तबलमोहितान् कृतो ऽन्तो बहुलोकविनाशो यैस्ते सगरात्मजास्तेषां बलेन अननुमेयपराक्रमेण मोहितान् विवेकरहितान् अत एव सुसन्त्रस्तान् देवादीन् प्रत्युवाच ॥ १।४०।१ ॥

तद्वचनमेवाह यस्येति । यस्य माधवस्य रमापतेः धीमतः सर्वबुद्धिप्रवर्तकस्य वासुदेवस्य इयं कृत्स्ना वसुधायद्वासुदेवनिष्ठस्वामितानिरूपितस्वताविशिष्टा सकलवसुधेत्यर्थः । तस्य वासुदेवस्य एषा वसुधा महिषी सः एषः भगवान् अघटितघटनापटीयःसामर्थ्यविशिष्टः प्रभुः वासुदेवः कापिलं रूपमास्थाय प्रकटय्य अनिशं धरां धारयति तस्य कोपाग्निना नृपात्मजाः दग्धा भविष्यन्ति । द्वयोरेकत्रान्वयः ॥ १।४०।२,३ ॥

देवविश्वासार्थमियं सनातनी रीतिरिति बोधयन्नाह पृथिव्या इति । सनातनः सर्वसत्ययुगोद्भ्ावः पृथिव्या निर्भेदो भेदनं चकारेण देवगन्धर्वादीनां क्लेशो ऽपि दृष्ट एव ऽअदीर्घजीविनां सगरस्य पुत्राणां सनातनो विनाशश्चद दृष्ट एव कपिलकोपद्वारेति शेषः एतेन अवश्यं सगरपुत्राणां विनाशो भविष्यतीति ध्वनितम् । अपिरेवार्थे ॥ १।४०।४ ॥

पितामहेति । अरिन्दमाः शत्रुसूदनाः परमसन्तुष्टाः त्रयस्तिंशद्देवाः यथागतमागतमनतिक्रम्य पुनर्जग्मुः येन प्रकारेण आगताः तेन प्रकारेण पुनः स्वस्वलोकं प्रापुरित्यर्थः । देवानां त्रयस्त्रिंशत्त्वं तु वसूनामष्टत्वेन रुद्राणामेकादशत्वेन आदित्यानां द्वादशत्वेन अश्विनोर्द्वित्वेन च बोध्यम् ॥ १।४०।५ ॥

सगरस्येति । पृथिव्यां भिद्यमानायां सत्यां महात्मनां सगरस्य पुत्राणामग्रे एव निर्घातसमनिस्वनः निर्घातशब्दसदृशशब्दो महास्वनः प्रादुरासीत् नीलो घटो घट इतिवच्छाब्दबोधः । किञ्च महान्स्वनः स्वनत्वं यस्मिन् सः निर्घातसमनिस्वनः प्रादुरासीत् । अपिशब्द एवार्थे । निर्घातः अशुभसूचकः शब्दविशेषः ॥ १।४०।६ ॥

तत इति । ततः अशुभसूचकशब्दश्रवणानन्तरं सर्वां महीमभिप्रदक्षिणं कृत्वा भित्त्वा अश्वापहारकस्यान्तर्निलीनत्वशङ्कया पृथिव्यवयवविशेषं विदार्य च पितरं प्राप्ताः सहिता मिलिताः सर्वे सागराः सगरपुत्राः वाक्यमबुवन् । प्राप्ता इत्यध्याहृतम् ॥ १।४०।७ ॥

तद्वचनमेवाह परीति । सर्वा मही परिक्रान्ता प्रदक्षिणीकृता चकारेण अश्वापहारकस्यान्तर्निलीनत्वशङ्कया पृथिव्यवयवविशेषो विदारितश्च अत एव सत्त्ववन्तो देवदानवरक्षांसि पिशाचोरगकिन्नराश्च सूदिताः ॥ १।४०।८ ॥

न चेति । ते अश्वमश्वहर्तारं च नैव पश्यामहे अतः किं करिष्यामः । अत्र अस्मत्कर्तव्यताविषये बुद्धिः निश्चयः विचार्यतां क्रियतामेव ते भद्रमस्तु । अत्र दृशधातोरात्मनेपदं करिष्याम इत्यत्र

विसर्गलोपश्चार्षः । चशब्द एवार्थे । बुद्धिरत्रेति सगरसम्बोधनं वा तदर्थस्तु बुद्धिरतो बुद्धिमतस्त्रायते तत्सम्बोधनम् किं करिष्याम इति विचार्यतामित्यर्थः । चशब्द इत्यर्थकः ॥ १।४०।९ ॥

तेषामिति । हे रघुनन्दन तेषां पुत्राणां तद्वचनं श्रुत्वा समन्युः मन्युसहितः राजसत्तमः सगरः वाक्यमब्रवीत् ॥ १।४०।१० ॥

तद्वचनमेवाह भूय इति । वसुधातलं निर्भिद्य भूयः खनत अश्वहर्तारमासाद्य प्राप्यैव कृतार्थाः साधितप्रयोजनाः सन्तो यूयं निवर्तत वो भद्रमस्तु । चशब्द एवार्थे । मुखं व्यादाय स्वपितीतिवत्प्रयोगः । निर्भिद्यं निर्भेत्तव्यमेव वसुधातलमिति कर्मधारयो वा सञ्ज्ञापूर्वकविधेरनित्यत्वात् ण्यत्यपि गुणाभावः ॥ १।४०।११ ॥

पितुरिति । महात्मनः पितुः सगरस्य वचनमासाद्य स्वीकृत्य षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् खनन्तो ऽगच्छन् आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।४०।१२ ॥

खन्यमान इति । तस्मिन्महीतले खन्यमाने सति ततस्तस्मात्खननान्महीतलं धारयन्तं पर्वतोपमं विरूपाक्षं दिशो गजं ददृशुः । खननविस्तरस्य कर्तार इत्यर्थकं कर्तृपदं वा तत इति ॥ १।४०।१३ ॥

प्रसङ्गाद्गजवृत्तमाह सपर्वतेति । हे रघुनन्दन सपर्वतवनां पर्वतवनसहितां कृत्स्नां पृथिवीं विरूपाक्षो महागजः शिरसा धारयामास ॥ १।४०।१४ ॥

यदेति । हे काकुत्स्थ राम महागजः विरूपाक्षः यदा यस्मिन्पर्वणि काले खेदात्खेदं प्राप्य विश्रामार्थं शीघ्रं चालयते करेण भूमिं सङ्गृह्य किञ्चिच्चलतीत्यर्थः तदा भूमिकम्पः भवेत् ॥ १।४०।१५ ॥

प्रासङ्गिकगजवर्णनं समाप्पय प्रकृतसगरपुत्रवृत्तमाह तमिति । हे राम हि ते अश्वप्राप्तये रसातलं भित्त्वा दिशः पालं तं महागजं मानयन्तः पूजयन्तस्ते सगरपुत्राः प्रदक्षिणं कृत्वा पूर्वां दिशं हित्वा त्यक्त्वा दक्षिणां दिशं जग्मुः । ततस्तस्यां दिशि पुनर्बिभिदुः दक्षिणस्यां दिश्यपि महात्मानं पूज्यस्वरूपं सुमहापर्वतोपममत्यन्तबृहत्पर्वतसदृशं शिरसा गां पृथिवीं धारयन्तं महापद्मं महापद्मसञ्ज्ञकं महागजं ते सगरपुत्राः ददृशुः उत्तमं परमं विस्मयं च जग्मुः प्रापुः अद्भुतरूपदर्शनादितिभावः विनापि चं समुच्चयः । त्रयाणामेकत्रान्वय ॥ १।४०।१६१८ ॥

तत इति । ततो महागजदर्शनानन्तरं प्रदक्षिणं कृत्वा महापद्ममिति शेषः । महात्मनः सगरस्य षष्टिः पुत्रसहस्राणि पश्चिमां दिशं तद्दिग्भूमिं बिभिदु ॥ १।४०।१९ ॥

पश्चिमायामिति । महाबलास्ते सगरपुत्रापश्चिमायां दिश्यपि अचलोपमं पर्वतसदृशमत एव महान्तं सौमनसं सौमनससञ्ज्ञकं दिशागजं ददृशुः ॥ १।४०।२० ॥

तमिति । खनन्तस्ते सर्वे षष्टिः पुत्रसहस्राणि सागराः सगरपुत्रास्तं सौमनसं गजं प्रदक्षिणं कृत्वा निरामयं कुशलं च पृष्ट्वा हैमवतीं हिमवत्सम्बन्धिनीमुत्तरां दिशं समुपाक्रान्ताः प्राप्ताः सन्तः तथा तेन प्रकारेण वसुधातलं बिभिदुः । हे रघुश्रेष्ठ उत्तरस्यां दिशि हिमपाण्डुरं हिमसदृशश्वेतं भद्रेण कल्याणयुक्तेन वपुषा इमां महीं धारयन्तं भद्रं भद्राख्यगजं ददृशुः ततः दर्शनानन्तरमेनं भद्रं समालभ्य स्पृष्ट्वा प्रदक्षिणं च कृत्वा ततः उत्तरदिशातः प्रागुत्तरामैशानीं प्रथितां प्रसिद्धां दिशं गत्वा रोषात्क्रोधात्सर्वे सगरात्मजाः पृथिवीमभ्यखनन् । चतुर्णां सम्मिलितान्वयः ऽसोमवतीमिति भट्टसम्मतः पाठःऽ ॥ १।४०।२१२४ ॥

ते इति । महात्मानः अतिप्रयत्नाः भीमवेगाः अतिवेगविशिष्टाः महाबलाः सर्वे ते सगरपुत्राः तत्र ऐशान्यां दिशि एव सनातनं नित्यसिद्धं कपिलं कपिलरूपवन्तं वासुदेवं ददृशुः । तुशब्द एवार्थे ॥ १।४०।२५ ॥

हयमिति । हे रघुनन्दन तस्य देवस्य कपिलस्य अविदूरतः समीपे चरन्तं हयं च ददृशुः तेन हेतुना ते सर्वे अतुलमनुपमं प्रहर्षं प्राप्ताः ददृशुरित्यनुकृष्यते । चो हेतौ ॥ १।४०।२६ ॥

ते तमिति । तं कपिलं यज्ञहनमश्वापहरणेन यज्ञविघ्नकर्तारं ज्ञात्वा सङ्क्रुद्धाः अतिक्रोधं प्राप्ताः अत एव क्रोधपर्याकुलेक्षणाः अत एव खनित्रलाङ्गलधराः नानावृक्षशिलाधराः ते सगरात्मजाः अभ्यधावन्त तिष्ठ तिष्ठ इति च अब्रुवन् स्वस्थतया स्थिते एकाकिन्यपि तस्मिनृ दृष्टे सर्वेषां वृक्षशिलादिग्रहणेन तिष्ठ तिष्ठेत्युक्त्या च तेषां भ्रमः सूचितः तेन कपिलस्य तेजोतिशयः सूतिचः ॥ १।४०।२७ ॥

अस्माकमिति । हे दुर्मेधः दुष्टबुद्धे हि यतो ऽस्माकं यज्ञियं तुरगमश्वं त्वं हृतवानसि हि अतः सम्प्राप्तान् सगरात्मजान्नो ऽस्मान् त्वं विद्धि एतेनापराधतुल्यदण्डमवश्यं त्वं प्राप्स्यसीति ध्वनितम् ॥ १।४०।२८ ॥

श्रुत्वेति । हे रघुनन्दन तदा तत्कथनसमये तेषां सगरात्मजानां तद्वचनं श्रुत्वा महता रोषेणाविष्टः कपिलः हुङ्कारमकरोत् ॥ १।४०।२९ ॥

कपिलहुङ्कारोत्तरकालिकं वृत्तमाह तत इति । हे काकुत्स्थनाम ततो हुङ्कारानन्तरमप्रमेयेन अनियतप्रभावेण महात्मना कपिलेन सर्वे सगरात्मजाः भस्मराशीकृताः भस्मसमूहतां प्रापिताः ॥ १।४०।३० ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चत्वारिंशः सर्गः ॥ १।४० ॥