रामप्रश्नान्तरं वर्णयन्नाह विश्वामित्रेत्यादिश्लोकद्वयेन । विश्वामित्रवचः श्रुत्वा कथान्ते कथासिद्धान्तं ज्ञातुं परमप्रीतो रघुनन्दनो दीप्तमनलमिव मुनिमुवाच अन्तति वादं प्रतिबध्नाति स सिद्धान्त इत्यर्थः बन्धनार्थकातिधातोः कर्तरि क्विप् “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी । किञ्च कथान्ते कथावसानकाले विद्यमानं मुनिमित्यन्वयः । श्रुत्वे त्यनेन पुनरुक्तिवारणायैष यत्नः अन्यथा तु पौनरुक्त्यं दुर्वारम् ॥ १।३९।१ ॥
तद्वचनमेवाह श्रोतुमिति । हे ब्रह्मन् मे पूर्वकः सगरः यज्ञं कथं केन प्रकारेण समुपाहरत् इमां कथां विस्तरेणैव श्रोतुमिच्छामि ते भद्रं कल्याणमस्तु । वैशब्द एवार्थे । एतेन तां कथयेति सूचितम् ॥ १।३९।२ ॥
तस्येति । तस्य रघुनाथस्य तत्प्रसिद्धं वचनं प्रश्नवाक्यं श्रुत्वैव कौतूहलसमन्वितो विश्वामित्रः काकुत्स्थं प्रहसन् सन्नेव उवाच । तद्वचनमेवाह हे राम महात्मनः सगरस्य सगरयागस्य विस्तरः श्रूयताम् । इवतुशब्दावेवार्थे ॥ १।३९।३ ॥
शङ्करेति । अचलोत्तमः शङ्करश्वशुरः हिमवान् नाम विन्ध्यपर्वतमासाद्य प्राप्तीच्छामिव कृत्वा उन्नतत्वेन समत्वं प्राप्येति वा विन्ध्यपर्वतश्च हिमवन्तमासाद्य परस्परं निरीक्षेते । एतेन तयोर्मध्ये तन्निरोधकपर्वतान्तराभावः सूचितः । परस्परशबदशक्त्या विन्ध्यपर्वतश्चेत्याद्यध्याहृतम् ॥ १।३९।४ ॥
तयोरिति । हे नरव्याघ्र तयोः विन्ध्यहिमालययोर्मध्ये आर्यावर्त इत्यर्थः पुरुषोत्तमः पुरुषो नराकृतिः परमात्मा उत्तमः पूज्यत्वेन यस्मिन्स यज्ञः प्रवृत्तो ऽभूत् हि यतः स देशः यज्ञकर्मणि प्रशस्तः । एतदर्थबोधकं ऽआर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोःऽ इत्यादिवचनान्तरमपि ॥ १।३९।५ ॥
तस्येति । हे काकुत्स्थ तात हे राम तस्य यज्ञस्य अश्वचर्यां रक्षार्थमश्वसमीपे ऽनुगमनं दृढं धनुर्यस्य स महारथः सगरस्य मते सम्मतौ स्थितों ऽशुमानकरोत् ॥ १।३९।६ ॥
तस्येति । पर्वणि तं यज्ञं यजमानस्य कुर्वतस्तस्य सगरस्य यज्ञियाश्वं राक्षसीं तनुमास्थाय गृहीत्वा वासव इन्द्रो ऽपाहरत् ॥ १।३९।७ ॥
ह्रियमाणे इति । हे काकुत्स्थ हे राम महात्मनः सगरस्य तस्मिन् अश्वमेधीये अश्वे ह्रियमाणे सत्येव सर्वे उपाध्यायगणाः यजमानं सगरमथा ऽब्रुवन् माङ्गलिकं वचनमुच्चारयामासुः । अथशब्दो ऽश्वान्वयी वा । तुशब्द एवार्थे । उपाध्यायगणा अब्रुवन्नित्यनेन अंशुमताश्वहरणं न ज्ञातमिति ध्वनितं तेनेन्द्रस्य चुराभिज्ञत्वं व्यक्तम् ॥ १।३९।८ ॥
तद्वचनमेवाह अयमिति । अयं यज्ञियाश्वं पर्वणि वेगेनैवापनीयते ह्रियते अतो हर्तारमश्वस्य हारकं हे काकुत्स्थ जहि ताडय हयः उपीयतां समीपं प्राप्यतां च । अत्र चोरनामानुक्त्या ऋषीणां सौशील्यातिशयः सूचितः ॥ १।३९।९ ॥
अश्वावश्यकग्रहणार्थमश्वहरणे दोषं दर्शयन्त आहुः यज्ञेति । सर्वेषां यज्ञकर्तृ़णां नो ऽस्माकमशिवाय अशिवं कर्तुमेतत् यज्ञच्छिद्रं यज्ञविघ्नो भवति । हे राजन् तत्तस्मात्कारणात् यथा येन प्रकारेण क्रतुर्यज्ञः अच्छिद्रो विघ्नरहितो भवेत्तथा क्रियतां विधीयतामश्वो गृह्यतामिति भावः ॥ १।३९।१० ॥
सोपाध्यायेति । तस्मिन्प्रसिद्धे सदसि यागसभायां पार्थिवः सगरः सोपाध्यायवचः उपाध्यायसहितृऋत्विग्गणवचनं श्रुत्वैव षष्टिं पुत्रसहस्राणि एतत् वाक्यमुवाच । हश्ाब्द एवार्थे ॥ १।३९।११ ॥
तद्वचनमेवाह गतिमिति । हे पुरुषर्षभाः पुत्राः हि यतः मन्त्रपूतैर्महाभागैर्महाक्रतुरास्थितः अतो रक्षसां गतिं गमनं न पश्यामि यागसंलग्नचित्तत्वादश्वं हृत्वा कः क्व गत इति न जानामीत्यर्थः । यद्वा यतो मन्त्रपूतैर्महाक्रतुरास्थितो ऽतो रक्षसां गतिमत्रागमनसामर्थ्यं न पश्यामि एतेन यागागमनाधिकारिणा केनचिदश्वोपहृत इति सूचितम् ॥ १।३९।१२ ॥
तदिति । हे पुत्राकाः तत्तस्माद्धेतोः गच्छत इतो यात विचिन्वध्वमश्वान्वेषणं कुरुत । वो भद्रभस्तु । क्व गच्छामेत्यत आह सर्वां समुद्रमालिनीं पृथिवीमनुगच्छत ॥ १।३९।१३ ॥
यदि अश्वो न मिलेत्तदा तत्र गत्वा किं कर्मव्यमित्यत आह यावदिति । ममाज्ञया तमृषिभिर्बोधितं हयहर्तारं मार्गमाणा एव यूयं यावत्कालं तुरगसन्दर्शस्तावत्कालं मेदिनीं खनत ॥ १।३९।१४ ॥
दीक्षित इति । पौत्रसहितः सोपाध्यायगणः अहं यावत्तुरगदर्शनमिहैव स्थास्यामि वो भद्रमस्तु । हिशब्द एवार्थे ॥ १।३९।१५ ॥
ते इति । हे राम हृष्टमनसः महाबलाः सर्वे ते राजपुत्राः पितुर्वचनयन्त्रिताः सन्तः महीतलं जग्मुः ॥ १।३९।१६ ॥
गत्वेति । हे रघुनन्दन महाबलाः पुरुषव्याघ्राः पुरुषश्रेष्ठाः सगरपुत्राः सर्वां पृथ्वीं गत्वा तमश्वमदृष्ट्वैव योजनायामविस्तारं योजने आयामविस्तारौ दैर्घ्यविशाले यस्मिन् तद्धरणीतलमेकैको विभज्य वज्रस्पर्शसमैर्वज्रस्पर्शसदृशस्पर्शैर्भुजैः अशनिकल्पैः शूलैश्च सुदारुणैर्हलैश्च बिभिदुस्तेन हेतुना भिद्यमाना वसुमती ननाद । सार्धश्लोकद्वयमेकान्वयि । तुशब्द एवार्थे ऽपिशब्दो हेत्वर्थे ॥ १।३९।१७,१८ ॥
नागानामिति । हे राघव वध्यमानानां पृथिवीखनने हन्यमानानां नागानामसुराणां च राक्षसानां च ससत्त्वानां दुर्धर्षः निनदः शब्दो ऽभवत् ॥ १।३९।१९ ॥
योजनानामिति । हे रघुनन्दन योजनानां षष्टिं सहस्राणि अनुत्तमं प्रसिद्धरसातलान्मध्यममुत्तमं वा रसातलं कर्तुमिव वीराः धरणीं बिभिदुः । तुशब्द इवार्थे ॥ १।३९।२० ॥
एवमिति । नरशार्दूल हे राम पर्वतसम्बाधं पर्वतसङ्कुलं जम्बूद्वीपमेवमनेन प्रकारेण सर्वतः खनन्तो नृपात्मजाः परिचक्रमुः बभ्रमुः ॥ १।३९।२१ ॥
तत इति । ततः सर्वेषां पीडितत्वाद्धेतोः सम्भ्रान्तमनसः सगन्धर्वाः गन्धर्वसहिताः
सासुराः असुरसहिताः सहपन्नगाः पन्नगसहिताः सर्वे देवाः पितामहं ब्रह्माणमुपागमन् प्रापुः ॥ १।३९।२२ ॥
ते इति । महात्मानं पितामहं परमसन्तप्ता अत एव विषण्णवदनाः प्राप्तवैवर्ण्यमुखास्ते उक्तविशेषणविशिष्टाः देवाः तदा स्वप्राप्तिकाले प्रसाद्य इदं वच ऊचुः ॥ १।३९।२३ ॥
तद्वचनमेवाह भगवन्निति । हे भ्ागवन् सगरात्मजैः सर्वा पृथिवी खन्यते अतो बहवो
महात्मानः जलचारिणश्च वध्यन्ते पीड्यन्ते ॥ १।३९।२४ ॥
ननु किमर्थं तैः सर्वे पीड्यन्ते इत्यत आहुः अयमिति । अयं भूतसमूहः अस्माकं यज्ञहनः । तत्र हेतुः यतो ऽनेनाश्वो ऽपनीयते इति हेतोः सर्वभूतानि सगरात्मजाः हिंसन्ति । अपनीयन्ते इत्यत्र वर्तमानसामीप्ये इति भूते लट् ॥ १।३९।२५ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे एकोनचत्वारिंशः सर्गः ॥ १।३९ ॥