गङ्गायास्त्रिपथगामिनीत्वं वर्णयितुं कथान्तरमुपाक्रमतेत्याह तामिति । कौशिकः विश्वामित्रः रामे तां वर्णितां कथां निवेद्य मधुराक्षरं मनोरमाक्षरविशिष्टमपरमन्यत् इदं वाक्यं काकुत्स्थं रामं पुनरप्यब्रवीत् । एवो ऽप्यर्थे ॥ १।३८।१ ॥
तद्वचनमेवाह अयोध्येति । वीर हे राम धर्मात्मा धर्मबुद्धिः अप्रजः अनपत्यः प्रजाकामः अपत्यविषयकेच्छाविशिष्टः अयोध्याधिपतिः अयोध्याराजधानीकः स प्रसिद्धः सगरो नाम नराधिपो राजा पूर्वमेवासीत् नामतः प्रसिद्धमेतत् । चशब्द एवार्थे । रामेति द्व्यक्षरं नाम मानभङ्ग पिनाकिन इत्यादाविव शब्दार्थयोस्तादात्म्यान्नामसगरशब्दार्थयोरभेदान्वयः ॥ १।३८।२ ॥
वैदर्भेति । हे राम धर्मिष्ठा सत्यवादिनी सा प्रसिद्धा केशिनी नाम वैदर्भदुहिता विदर्भराजकन्या ज्येष्ठा सगरपत्नी आसीदिति शेषः नामतः प्रसिद्धमेतत् ॥ १।३८।३ ॥
अरिष्टनेमेरिति । अरिष्टनेमेः कश्यपस्य दुहिता सा प्रसिद्धा सुपर्णभगिनी सुमतिसञ्ज्ञिता द्वितीयापि सगरस्य पत्नी आसीत् तुशब्दो ऽप्यर्थे ॥ १।३८।४ ॥
ताश्यामिति । हिमवन्तं समासाद्य प्राप्य भृगौ भृगुशरीरे प्रस्रवणं प्रकृष्टं स्रवणं जलप्रवाहो यस्मात् किञ्च भृगोः प्रस्रवणमतिप्रचारो यस्मिन् तस्मिन् गिरौ हिमवत्पार्श्ववर्तिभृगुप्रस्रवणसञ्ज्ञकपर्वते इत्यर्थः ताभ्यां पूर्वोक्ताभ्यां पत्नीभ्यां सह महाराजः सगरस्तपस्तप्तवान् ॥ १।३८।५ ॥
अथेति । अथ तपःप्रारम्भानन्तरं वर्षशते पूर्णे सति तपसा सगरतपश्चर्यया आराधितस्तोषितः सत्यवतां वरो मुनिर्भृगुः सगराय वरं प्रादात् ॥ १।३८।६ ॥
वरप्रदानमेवाह अपत्येति । हे अनघ सुमहान् अतिप्रसंशनीयो ऽपत्यलाभः तव भविष्यति हेपुरुषर्षभ लोके अप्रतिमां तुलारहितां कीर्तिं च प्राप्स्यसे ॥ १।३८।७ ॥
अपत्यसङ्ख्यां बोधयन्नाह एकेति । हे तात प्रिय एका पत्नी तव वंशकरं पुत्रं एकमित्यर्थः जनयिता अपरा द्वितीय पत्नी षष्टिं पुत्रसहस्राणिजनयिष्यति ॥ १।३८।८ ॥
भाषमाणमिति । तदा वरप्रदानसमये भाषमाणं वरं ददतं महात्मानं तं प्रसिद्धं भृगुं कृताञ्जलिपुटे प्रणतिसूचकबद्धयुगलकरे परमप्रीते राजपुत्र्यौ क्षत्रियराजवैदर्भद्विजराजकश्यपयोः पुत्र्यौ ऊचतुः राजशब्देनोभयोर्ग्रहणं विनिगमनाविरहात् योग्यत्वाच्च ॥ १।३८।९ ॥
तद्वचनमेवाह एक इति । हे ब्रह्मन् तव वचः सत्यमस्तु यस्याः यः पुत्रः तवाभिमतः तस्याः स एव भवत्वित्यर्थः परन्तु कस्या राजपुत्र्या एकः सुतो भविष्यतीति शेषः का राजपुत्री बहून् पुत्रान्
जनयिष्यति इति श्रोतुमिच्छावहे आवामिच्छावः ॥ १।३८।१० ॥
तयोरिति । तयो राजपुत्र्योस्तद्वचनं श्रुत्वा परमधार्मिको भृगुः परमां रमणीयां वाणीमुवाच । अत्र पुत्रोत्पत्तिविभागविषये स्वच्छन्दः स्वेच्छाचारः विधीयतां क्रियतां यथेच्छं व्रियतामित्यर्थः ॥ १।३८।११ ॥
स्वच्छन्दतां विवृण्वन्नाह एक इति । वंशकरः एक एव अस्तु महाबला महोत्साहा बहवः कीर्तिमन्त एव वा सन्तु । का वा क्षत्री राजकन्या द्विजराजकन्या वा कं वा वंशकरमेकं पुत्रं कीर्तिमतो बहून् वा पुत्रान् इच्छति इच्छतु एतेन यस्या यत्पुत्रविषयिणीच्छा तस्यास्तत्पुत्रप्राप्तिर्भविष्यतीति ध्वनितं तेन भृगोर्दयालुत्वातिशयः सूचितः एकस्मिन्नेव वंशकरत्वोक्त्या बहूनां वंशकरत्वाभावो ध्वनितः सर्वं वाक्यं सावधारणं भवतीति न्यायेनोभयत्रैवकारलाभः ॥ १।३८।१२ ॥
मुनेरिति । हे रघुनन्दन राम मुनेस्तद्वचनं श्रुत्वा वंशकरमेकं पुत्रं नृपसन्निधौ केशिनी वैदर्भदुहिता जग्राह स्वीचकार ॥ १।३८।१३ ॥
षष्टिमिति । महोत्साहान् कीर्तिमतः षष्टिं पुत्रसहस्राणि सुतान् सुपर्णभगिनी सुमतिः कश्यपसुता तथा तेन प्रकारेण जग्राह ॥ १।३८।१४ ॥
प्रदक्षिणमिति । हे रघुनन्दन ऋषिं भृगुं प्रदक्षिणं कृत्वा शिरसा अभिप्रणम्य च सभार्यः भार्याभ्यां सहितः राजा सगरः स्वपुरं जगाम ॥ १।३८।१५ ॥
अथेति । अथ स्वपुरप्राप्त्यनन्तरं तस्मिन्प्रसिद्धे काले प्रसूतिसमये गते प्राप्ते सति ज्येष्ठा केशिनी सगरात्मजमसमञ्ज इति ख्यातं पुत्रं व्यजायत प्रासूत असमञ्जस इत्यानुपूर्विको ऽप्येतद्वाचको ऽस्तीति भागवतात् असमञ्जसवीर्यवानिति वक्ष्यमाणाच्च न विरोधः ॥ १।३८।१६ ॥
सुमतिरिति । हे नरव्याघ्र सुमतिः सुमतिनामा कनिष्ठा गर्भतुम्बं तुम्बाकारगर्भं व्यजायत । तुम्बभेदात् तुम्बाकारगर्भस्य भेदनात् षष्टिः पुत्रसहस्राणि विनिःसृताः विनिःसृतानि ॥ १।३८।१७ ॥
घृतेति । तान् षष्टिसहस्रसङ्ख्यातसुतान् घृतपूर्णेषु कुम्भेषु धात्र्यः समवर्धयन् । सर्वे पुत्राः महता कालेन यौवनं प्रतिपेदिरे प्रापुः ॥ १।३८।१८ ॥
अथेति । तदा रूपयौवनप्राप्तिकाले दीर्घेण कालेन रूपयौवनशालिनः प्राप्तरूपयौवनाः अथाभवन् माङ्गलिकस्थितिं प्रापुरित्यर्थः ॥ १।३८।१९ ॥
ज्येष्ठपुत्रवृत्तमाह स चेति । हे नरश्रेष्ठ रघुनन्दन हे राम सगरस्यात्मसम्भवः ज्येष्ठः सो ऽसमञ्जसः बालान् गृहीत्वा सरय्वाः सलिले नित्यं प्रक्षिप्य प्रहसन् सन् निमज्जतस्तान्निरीक्षते ॥ १।३८।२० ॥
एवमिति । एवमेनन प्रकारेण पापसमाचारः पापाचरणयुक्तः अत एव सज्जनप्रतिबाधकः अत एव पौराणां पुरवासिनामहिते युक्तो ऽसमञ्जसः पुरात् पित्रा निर्वासितः निःसारितः ॥ १।३८।२१ ॥
तस्येति । असमञ्जसवीर्यवान् असमञ्जसवीर्यसदृशवीर्यविशिष्टः सर्वलोकप्रियंवदः अत एव सर्वलोकस्य सम्मतः अंशुमान्नाम तस्य असमञ्जसस्य पुत्र आसीदिति शेषः ॥ १।३८।२२ ॥
तत इति । हे नरश्रेष्ठ ततः अंशुमदुत्पत्यनन्तरं महता कालेन अहं यजेयमिति निश्चिता मतिः सगरस्य समभिजायत आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।३८।२३ ॥
स इति । सोपाध्यायगणसहितः वेदज्ञः निखिलवेदस्य ज्ञाता स प्रसिद्धो राजा सगरः यज्ञकर्मणि निश्चयं कृत्वा तदा यागोचितकाले यष्टुं यागं कर्तुं समुपचक्रमे उपक्रमं चकार ॥
१।३८।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे ऽष्टात्रिंशः सर्गः ॥ १।३८ ॥