०३७ स्कन्दोत्पत्तिः

तपःप्रारम्भानन्तरकालिकं वृत्तमाह तप्यमान इति । तदा शापोत्तरकाले देवे महादेवे तप्यमाने सेनापतिमभीप्सन्तः वाञ्छन्तः सेन्द्रा इन्द्रसहिता अग्निपुरोगमाः पुरोगमाग्निसहिताः सर्वे देवाः पितामहं ब्रह्माणमुपागमन् तत्समीपं प्रापुः ॥ १।३७।१ ॥

तत इति । सर्वे सर्वेषां मुनीनामीरीप्सितप्राप्तिः यस्मात् तत्सम्बोधनं हे सर्वे । किञ्च सर्वान् एति स्वप्रकाशब्रह्मद्वारा व्याप्नोति तत्सम्बोधनम् । सुराः परमदातर्हे राम ततः ब्रह्मसमीपप्राप्त्यनन्तरं सेन्द्राः साग्निपुरोगमाः सर्वे सुराः भगवन्तमतिसामर्थ्यविशिष्टं पितामहमब्रुवन् । एतेनात्र सुराः सर्वे इति पुनरुक्तमतः पाठान्तरमन्वेषणीयम् इति भट्टोक्तिश्चिन्त्या उक्तरीत्या पौनरुक्त्यस्पर्शाभावात् यत्तु क्रियाभेदान्न पौनरुक्त्यमिति भूषणकृद्भिरुक्तं तदपि चिन्त्यम् समानकर्तृके क्त्वोनुशासनेन पौनरुक्त्यतादवस्थ्यात् ॥ १।३७।२ ॥

तदुक्तिमेवाह य इति । देव हे ब्रह्मन् नो ऽस्मभ्यं यः सेनापतिः भगवता त्वया पुरा पूर्वं दत्तः स उमया पार्वत्या सह परं तपः आस्थाय निश्चित्य तप्यतेस्म ॥ १।३७।३ ॥

यदिति । अत्र सेनापतिनियोगविषये लोकानां हितकाम्यया यत् कार्यं कर्तव्यं तत् अनन्तरं शीघ्रं त्वं संविधत्स्व कुरु । तत्र हेतुः हे विधानज्ञ नो ऽस्माकं परमा गतिः त्वमेव हिशब्द एवार्थे ॥ १।३७।४ ॥

देवानामिति । सर्वलोकपितामहो ब्रह्मा देवानां वचनं श्रुत्वा मधुरैः वाक्यैः त्रिदशान्देवान् सान्त्वयन् इदं वचनमब्रवीत् ॥ १।३७।५ ॥

तद्वचनमेवाह शैलपुत्र्येति । स्वासु पत्निषु प्रजाः न उत्पादयितुमर्हथेति शेषः इति शैलपुत्र्या यदुक्तं तस्यास्तद्वचनमक्िलष्टं बाधारहितमत एव सत्यमेव न संशयः अत्र संशयो न कार्य इत्यर्थः एतेन वयं कञ्चन तेजस्विनं पुत्रमुत्पाद्य सेनापतिं करिष्याम इत्याशा न कर्तव्येति ध्वनितम् पत्निष्विति ह्रस्वश्छान्दसः ॥ १।३७।६ ॥

ननु तर्हि कः सेनापतिः भविष्यतीत्यत आह इयमिति । हुताशनो वह्निः यस्यामरिन्दमं देवशत्रूणां नाशकं सेनापतिं पुत्रं जनयिष्यति सा इयमेव आकाशगङ्गा एतेन इयं भवद्भिः पूजनीयेति ध्वनितम् । चशब्द एवार्थे ॥ १।३७।७ ॥

तस्मिन् शैलसुतोभयपुत्रत्वमिति बोधयन्नाह ज्येष्ठेति । ज्येष्ठा पूर्वं प्रादुर्भूता शैलेन्द्रदुहिता गङ्गा तं सेनापतिं सुतं मानयिष्यति स्वजलात् उत्पन्नत्वादिति भावः तत् गङ्गामानविषयीभूतमुमायाः बहुमतं शिवसंसर्गजनितस्वरजोहेतुकजनिमत्त्वेनात्यन्तप्रेमविषयीभूतं भविष्यति न संशयः अस्मिन्विषये

संशयो न कार्यः एतेन तत्सेनापतेरजेयत्त्वं सूचितम् ॥ १।३७।८ ॥

तदिति । हे रघुनन्दन तस्य पितामहस्य तद्वचनं श्रुत्वा कृतार्थाः सर्वे सुराः पितामहं प्रणिपत्य अपूजयन् ॥ १।३७।९ ॥

ते इति । हे राम सर्वदेवताः सर्वः शिवो विष्णुर्वा देवता येषां ते सर्वदेवाः धातुमण्डितं कैलासपर्वतं गत्वा पुत्रार्थं कर्तव्यसेनापतिसुतप्रसवार्थमग्निं नियोजयामासुः । दन्त्यादिरपि सर्वशब्दः शिववाचको ऽस्तीति कोशादौ प्रसिद्धं विष्णुपरता तु सृतमस्मिन्निखिलमिति व्युत्पत्त्या लब्धा अत एव ऽसर्वः शर्वऽ इति सहस्रनामोक्तिः सङ्गच्छते एतेन देवताशब्दः पुँलिङ्गो ऽप्यस्ति ऽपुंसि वा देवतास्त्रियाम्ऽ इत्यनुशासनादिति भूषणोक्तिश्चिन्त्या पुंसिवेत्यस्य पूर्वान्वयित्वात् ॥ १।३७।१० ॥

तन्नियोजनमेवाह देवकार्यमिति । हे महातेजः देव हुताशन इदं देवकार्यं समाधत्स्व त्वं साधय । किन्तत् कार्यमित्यत आह शैलपुत्र्यां गङ्गायां तेजः स्वेन गृहीतं शिवरेतः उत्सृज ॥ १।३७।११ ॥

देवतानामिति । पावकः देवतानामग्रे प्रतिज्ञाय भवदुक्तमवश्यं करिष्यामीति प्रतिज्ञां कृत्वा गङ्गामभ्येत्य प्राप्य हे देवि गर्भं गर्भकारणीभूतं मया धृतं शिवरेतः धारय स्वस्मिन्संस्थापय तत्र हेतुः देवतानामिदमेव प्रियमिति प्रार्थयामासेति शेषः । वैशब्द एवार्थे ॥ १।३७।१२ ॥

इतीति । इति अनेन प्रकारेण एतत् वह्निप्रार्थितं वचनं गङ्गा श्रुत्वा दिव्यरूपं प्राकृतविलक्षणमात्मीयस्वरूपमधारयत् प्रकटयामासेत्यर्थः । सः वह्निः तस्याः गङ्गायाः महिमां रूपमहत्त्वं दृष्ट्वा समन्तात् अवकीर्यत स्वेन धारितं शिवतेजः प्राक्षिपत् श्यन्नड्विरहश्चार्षः ऽअवशीर्यतऽ इति भट्टसम्मतः पाठः ॥ १।३७।१३ ॥

समन्तत इति । हे रघुनन्दन पावकः यत् शिवतेजः समन्ततः देवीमभ्यषिञ्चत् तेन शिवतेजसा गङ्गाया सर्वस्रोतांसि पूर्णानि आसन्निति शेषः । अत्र दिव्यस्त्रीरूपस्य रेतस्सिक्तत्वेपि सर्वस्रोतांसि पूर्णानीत्युक्त्या प्रवाहतद्रूपयोरभेदः सूचितः ॥ १।३७।१४ ॥

तमिति । ततः स्रोतसां रेतोव्याप्तत्वानन्तरं सर्वदेवपुरोहितं तमग्निं तेन प्रक्षिप्तेन अग्निना शिवरेतस्तेजसा दह्यमाना अत एव सम्प्रव्यथितचेतना गङ्गा हे देव समुद्धतं प्रवृद्ध यत्तव तेजस्त्वत्प्रक्षिप्तं शिवरेतस्तस्य धारणे अहमशक्तेत्युवाच सार्धश्लोक एकान्वयी । अग्नेः सर्वदेवपुरोहितत्वम् ऽअग्निमीले पुरोहितम्ऽ इत्यादिश्रुत्या प्रसिद्धम् ऽसर्वदेवपुरोगमम्ऽ इति भट्टसम्मतः पाठः ॥ १।३७।१५ ॥

अथेति । अथ गङ्गावचनश्रवणानन्तरं सर्वदेवहुताशनः गङ्गामिदमब्रवीत् । तद्वचनमेवाह इह अस्मिन् हैमवते पादे पादसदृशे स्थापनयोग्ये तदवयवे इत्यर्थः अयं गर्भः सन्निवेश्यताम् । ऽहिमवत्पार्श्वेऽ इति भट्टसम्मतः पाठः ॥ १।३७।१६ ॥

श्रुत्वेति । हे अनघ स्वाश्रिताघनिवर्तक हे महातेजः समाधिकरहिततेजोविशिष्ट तदा अग्निकथनसमये अग्निवचः श्रुत्वैव अतिभास्वरमतिप्रकाशमानं तं प्रसिद्धं गर्भं स्रोतोभ्यः उत्थाप्य उत्ससर्ज यथोचितदेशे तत्याज तुशब्द एवार्थे ॥ १।३७।१७ ॥

यदिति । अस्याः गङ्गायाः निर्गतं गङ्गया त्यक्तं यत्तेजः तत् तप्तजाम्बूनदप्रभं द्रुतसुवर्णकान्तिकमभिजायत अभ्यजायत तस्मात्तेजसो विभज्य यत् धरणीं प्राप्तं तदपि अमलं काञ्चनं सुवर्णं शुभं हिरण्यं रजतं चाभिजायत तैक्ष्णात् तैक्ष्णस्य अत् प्राप्तिर्यस्मिन् तत् वस्तुजातं ताम्रकार्ष्णायसं चाभिजायत तत्र तस्मिन्समये तस्य तेजस्तैक्ष्णसम्बद्धवस्तुजातस्य यन्मलं तत् त्रषु रङ्गं सीसकं च अभवत् द्वयोरेकत्रान्वयः । एकः एवशब्दो ऽप्यर्थकः द्वितीयस्त्वर्थकः । अभिजायत इति

पाठे तु आगमशास्त्रस्यानित्यत्वादड्विरहः ॥ १।३७।१८,१९ ॥

उपसंहरन्नाह तदिति । तत्प्रसिद्धमेतद्वर्णितं तेजः धरणीं प्राप्य नाना धातुः सन् अवर्धत ॥ १।३७।२० ॥

तेजोराशिविभक्तस्य धरण्यां पतितस्य तेजसः सृष्टिं संवर्ण्य तेजोमयस्य गर्भस्य संबन्धेन यत्सर्जनं तद्वर्णयन्नाह निक्षिप्तमात्रे इति । गर्भे निक्षिप्तमात्रे सति तेजोभिः गर्भप्रकाशैः अभिरञ्जितं प्रकाशितं पर्वतसन्नद्धं पर्वतावयवः सर्वं वनं च सौवर्णमभवत् ॥ १।३७।२१ ॥

जातरूपमिति । हे राघव पुरुषव्याघ्र हुताशनसमप्रभं सुवर्णं तदाप्रभृति वनादीनां सुवर्णत्वप्राप्तिकालादारभ्य जातरूपमिति नाम्ना ख्यातं प्रसिद्धं जातं प्रकटीभूतं रूपमपूर्वस्वरूपं यस्येति व्युत्पत्त्येति भावः ॥ १।३७।२२ ॥

उपसंहरन्नाह तृणेत्यर्धेन । सर्वं तृणवृक्षलतागुल्मं काञ्चनं भवति अभवदित्यर्थः पर्वतस्याप्युपलक्षणमिदम् वर्तमानसामीप्येति भूते लट् । इदमर्धं भट्टटीकाङ्कितपुस्तकेषु न दृश्यते ॥ १।३७।२३ ॥

तमिति । ततः गर्भत्यागानन्तरं जातमुत्पन्नं तं प्रसिद्धं कुमारं सेन्द्रा इन्द्रसहिता मरुद्गणा देवाः क्षीरसम्भावनार्थाय क्षीरस्य सम्भावना सम्यक् प्राप्तिः सैव अर्थः प्रयोजनं तस्मै कृत्तिकाः षट्तारकाः सह एककालावच्छेदेन समपूजयन् सत्कारेण क्षीरपायने न्ययोजयन्नित्यर्थः ॥ १।३७।२४ ॥

ता इति । ताः स्तन्यपायने नियोजिता अत एव अयमस्माकं सर्वासां पुत्रो भवितेति शेषः इति निश्चिताः षट् कृत्तिकाः उत्तमं सर्वेप्सितत्वेन श्रेष्ठं समयमेककालावच्छेदेन सर्वा वयं पाययिष्याम इति सङ्केतं कृत्वा जातमात्रस्य क्षीरं ददुः एतेन तस्य षडाननानि जातानीति व्यक्तम् ॥ १।३७।२५ ॥

तत इति । ततः कृतनिश्चयाद्धेतोः सर्वा देवताः कार्तिकेय इति त्रैलोक्यविख्यातः पुत्रः अयं सुतः भविष्यति संशयः अस्मिन् विषये सन्देहो न इति ब्रुवन् आगमशास्त्रस्य अनित्यत्वादड्विरहः । इति शब्दः आवृत्त्या उभयत्रान्वेति ॥ १।३७।२६ ॥

तेषामिति । तेषां देवानां तत् स्वेष्टसिद्धिसूचकं वचनं श्रुत्वा गर्भपरिस्रवे गर्भश्च परिस्रवो गङ्गाप्रवाहश्चानयोः समाहारः । किञ्च गर्भो ऽग्न्याद्युदर एव स्रवः प्रवाहस्तस्मिन् स्कन्नं प्राप्तमत एव परया उत्कृष्टया लक्ष्म्या शोभया ऽनलमिव दीप्यमानं बालं स्नापयन् षट् कृत्तिका इति शेषः । आगमशास्त्रस्य अनित्यत्वादड्विरहः ॥ १।३७।२७ ॥

स्कन्द इति । काकुत्स्थ हे राम महाभागं ज्वलनोपममग्निसदृशं कार्तिकेयं गर्भपरिस्रवे बहुगर्भे स्कन्नं प्राप्तं बालं स्कन्द इतिदेवाः अब्रुवन् स्कन्दति बहुगर्भं प्राप्नोति इति व्युत्पत्त्या स्कन्दं प्राहुरित्यर्थः ॥ १।३७।२८ ॥

प्रादुरिति । षण्णां कृत्तिकानामनुत्तममतिश्रेष्ठं क्षीरं प्रादुर्भूतं ततः क्षीरप्रादुर्भावानन्तरं स्तनजं पयः षडाननो भूत्वा जग्राह कार्तिकेय इति शेषः ॥ १।३७।२९ ॥

गृहीत्वेति । सुकुमारवपुः विभुः समर्थः कार्तिकेयस्तदा क्षीरग्रहणकाले एकाह्ना एकदिनेन क्षीरं गृहीत्वा स्वेन वीर्येण दैत्यसैन्यगणान् अजयत् ॥ १।३७।३० ॥

सुरेति । ततः असुरजयानन्तरमतुलद्युतिमनुपमप्रकाशं कार्तिकेयमग्निपुरोगमाः अग्निः पुरोगमो येषां ते सुरगणाः समेत्य तत्समीपं प्राप्य सुरसेनागणपतिमभ्यषिञ्चन् सेनापतित्वेनाभिषेकं चक्रुरित्यर्थः ॥ १।३७।३१ ॥

एष्ा इति । हे राम धन्यः धन्यत्वहेतुः पुण्यः पुण्यत्वहेतुश्च एषः एव गङ्गायाः विस्तरः ते तुभ्यं मया अभिहितः कथितः तथैव धन्यत्वपुण्यत्वहेतुत्वेन तत्सदृश एव कुमारसम्भवश्च अभिहितः ॥

१।३७।३२ ॥

भक्त इति । हे काकुस्थ भुवि यः कार्तिकेये भक्तः स पुरुषः पुत्रपौत्रैः युक्त एव आयुष्मान् सन् स्कन्दसालोक्यतां व्रजेत् चकारेण यः एतत् श्रृणुयात् पठेत् वा सो ऽपि तत्फलं प्राप्नोतीत्यर्थः चकारान्तरमेवार्थकम् ॥ १।३७।३३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे सप्तत्रिंशः सर्गः ॥ १।३७ ॥