०३६ उमामाहत्म्यम्

सामान्यतो गङ्गाकथाश्रवणानन्तरं विशेषं जिज्ञासोः रामस्य प्रश्नं पुनर्वर्णयन्नाह उक्तेति । तस्मिन् प्रसिद्धे मुनौ उक्तवाक्ये सति वीरौ अतिपराक्रमविशिष्टौ उभौ राघवलक्ष्मणौ कथां हिमवत्कन्यावृत्तान्तमभिनन्द्य प्रशस्य मुनिपुङ्गवं विश्वामित्रमूचतुः ॥ १।३६।१ ॥

तद्वचनमेवाह धर्मेति । ब्रह्मन् हे मुने धर्मयुक्तं धर्मनिष्पादकमत एव परममतिश्रेष्ठमिदं शैलसुताचरितं त्वया कथितम् । शैलराजस्य ज्येष्ठायाः पूर्वजायाः दुहितुः कन्याया दिव्यमानुषसम्भवं

दिव्यलोकमानुषलोकसम्बन्धिं विस्तरं विस्तारसहितं यतो विस्तरज्ञो ऽसि अतस्त्वं वक्तुमर्हसि सार्धश्लोक एकान्वयी । सम्भवशब्दः सम्पूर्वकप्राप्त्यर्थकभूधातुप्रकृतिकाबन्तः ॥ १।३६।२ ॥

प्रश्नस्य विशेषाकारमाह त्रीनिति । लोकपावनी गङ्गा त्रीन् पथः केन हेतुना प्लावयेत् अप्लावयत् ॥ १।३६।३ ॥

कथमिति । हे धर्मज्ञ त्रिपथगा गङ्गा त्रिषु लोकेषु सरिदुत्तमा कथं विश्रुता ख्याता कैः कर्मभिः समन्विता युक्ता आसीदिति शेषः ॥ १।३६।४ ॥

तथेति । काकुत्स्थे रामे तथा तेन प्रकारेण ब्रुवति पृच्छति सति तपोधनो विश्वामित्रः निखिलेन कार्त्स्न्येण विस्तरेणेत्यर्थः सर्वां कथां ऋषिमध्ये न्यवेदयत् अवर्णयत् ॥ १।३६।५ ॥

तद्वर्णनमेवाह पुरेत्यादिभिः । हे राम कृतोद्वाहः महातपाः अतिविचारशीलः शितिकण्ठो महादेवः स्पृहया मैथुनेच्छया देवीं दृष्ट्वैव मैथुनाय मैथुनं कर्तुमुपचक्रमे प्रारेभे ॥ १।३६।६ ॥

तस्येति । शितिः कृष्णत्वं कण्ठे यस्य देवस्य दीप्तिमतः धीमतः परमधैर्यविशिष्टस्य तस्य सर्वलोकप्रसिद्धस्य सङ्क्रीडमानस्य महादेवस्य दिव्यं वर्षशतं गतं व्यतीतम् ॥ १।३६।७ ॥

न चेति । हे राम परन्तप तस्यां देव्यां तनयः चकारेण तनयापि नासीत् ततः दिव्यवर्षशतक्रीडयापि तनयाभावानन्तरमभूतं दिव्यवर्षशते ऽपि अप्रादुर्भूतं तेजो यदि उत्पद्यते तर्हि तत्तेजः कः प्रसहिष्यते इति विचाररूपहेतोः पितामहपुरोगमाः देवाः समुद्युक्ताः उद्योगं चक्रुः हशब्द इत्यर्थे ॥ १।३६।८ ॥

तदुद्योगमेवाह अभिगम्येति । सर्वे सुराः अभिगम्य महादेवसम्मुखं प्राप्य प्रणिपत्य नमस्कृत्य इदं वचनमब्रुवन् । तद्वचनमेवाह हे देवदेव सर्वदेवनियन्तः । अत एव महादेव यतस्त्वमस्य लोकस्य हिते रतः अतः सुराणां प्रणिपातेन सुरकर्तृकप्रणामेन प्रसादं सुरविषयकप्रसन्नतां कर्तुं निष्पादयितुमर्हसि योग्यो ऽसि ॥ १।३६।९ ॥

नेति । हे सुरोत्तम तव तेजः त्वत्तेजोजनितसुतं लोका न धारयिष्यन्ति धारयितुं समर्था न भविष्यन्ति अतः ब्राह्मेण वेदबोधितेन तपसा युक्तस्त्वं देव्यासह तपश्चर कुरु क्रीडातो निवर्तस्वेति भावः ॥ १।३६।१० ॥

ननु स्वतेजसैव मत्सुतः स्थास्यति युष्माकं किमकार्यमित्यत आहुः त्रैलोक्येति । त्रैलोक्यहितकामार्थं लोकत्रयहितेच्छया तेजः अतितेजस्विसुतजनकीभूतं रेतः तेजसि तेजोमयस्वशरीरे धारय सुतं नोत्पादयेत्यर्थः । एनेन तादृशसुतोत्पत्तौ तत्तेजसा सर्वलोकदाहः स्यात् इति वारणे हेतुर्ध्वनितः अतः इमान्सर्वांल्लोकान् रक्ष पुत्रोत्पत्तिनिरोधनद्वारा पालय तत्र हेतुः अलोकं लोकाभावं कर्तुं नार्हसि ॥ १।३६।११ ॥

देवतानामिति । सर्वलोकमहेश्वरो महादेवः देवतानां वचः प्रार्थनां श्रुत्वा बाढं भवत्प्रार्थितमङ्गीकृतमित्यब्रवीत् पुनश्च पुनरपि सर्वान्सुरानिदमुदवाच । ह प्रसिद्धमेतत् ॥ १।३६।१२ ॥

धारयिष्यामीति । हे त्रिदशाः तेजः अक्षुभितवीर्यं तेजसि तेजोरूपशरीरे एव उमया सहैव अहं धारयिष्यामि । अतः पृथिवी तदुपलक्षितसर्वलोकः निर्वाणं भयत्यागजनितसुखमधिगच्छतु प्राप्नोतु । चशब्दो हेत्वर्थे सहोमयेत्युक्त्या अक्षुभितवीर्यनिरोधकरणं शिवस्य अक्षुभितशोणितनिरोधकरणमुमाया इति सूचितम् ॥ १।३६।१३ ॥

यदिति । हे सुरसत्तमाः अनुत्तमं भवत्कार्यसाधकत्त्वेनात्युत्तमं स्थानात् क्षुभितं यत् इदं मम तेजस्तत्कः धारयिष्यति इति मे मह्यं ब्रुवन्तु । हिशब्दो इत्यर्थे भवन्त इति शेषः ॥ १।३६।१४ ॥

एवमिति । ततः शिवोक्त्यनन्तरमेवमनेन प्रकारेण उक्ताः कथिताः देवाः वृषभध्वजं शिवं प्रत्यूचुः तद्वचनमेवाह यत्तेजः अद्य अस्मिन्काले क्षुभितं तत्तेजः धरा धारयिष्यति अद्येत्युक्त्या इतः प्रभृति अधिकं वीर्यं च्युतं चेत् तद्धारणे न कश्चन समर्थो भवितेति ध्वनितम् ॥ १।३६।१५ ॥

एवमिति । एवमनेन प्रकारेण उक्तः देवैः प्रार्थितो महाबलः सुरपतिः शिवः प्रमुमोच क्षुभितं तेजः तत्याज येन त्यक्तेन तेजसा सगिरिकानना गिरिकाननसहिता पृथिवी व्याप्ता ॥ १।३६।१६ ॥

तत इति । ततः पृथिव्यां तेजोव्याप्त्यनन्तरं देवाः हुताशनमग्निमपीदं पुनरूचुः तद्वचनमेवाह रौद्रं शिवोद्भूतं महातेजः वायुसमन्वित एव त्वं प्रविश आत्मनि प्रवेशय अन्तर्भावितणिजर्थः । चशब्द एवार्थकः ॥ १।३६।१७ ॥

तदिति । पुनरग्निना व्याप्तं पावकादित्यसन्निभं पावकस्थितादित्यसदृशं तत्तेजः श्वेतपर्वतः सञ्जातः दिव्यं विलक्षणं शरवणं च सञ्जातम् यत्र यस्मिन् शरवणे तदेव तेजः महातेजाः परमतेजस्वी कार्तिकेयो जातः अत एव अग्निसम्भव उच्यते इति शेषः कृत्तिकया धृतत्वात्तदपत्यत्वेन कार्तिकेय इति व्यवहारो बोध्यः पावकादित्यसन्निभमित्यनेन यदि आदित्यः पावके स्थितः स्यात् तर्हि तेन सहोपमीयेत इति पर्यवसन्नाभूतोपमालङ्कारेण तस्यानुपमत्वं ध्वनितम् । सार्धश्लोक एकान्वयी ॥ १।३६।१८ ॥

अथेति । तदा स्वप्रार्थितसिद्धिकाले सुप्रीतमनसः सर्षिगणाः ऋषिगणसहिताः देवाः उमां देवीम् अथ मङ्गलं यथा स्यात्तथा अत्यर्थं पूजयामासुः तथैव शिवं च पूजयामासुः । पूर्वमुमां पूजयामासुरित्यनेन उमातः सुरा भीता इति ध्वनितम् तेन देव्याः कोपचेष्टा जातेति व्यक्तम् ॥ १।३६।१९ ॥

अथेति । हे राम अथ देवकृतपूजानन्तरं समन्युः मन्युसहिता अत एव संरक्तलोचना शैलसुता सर्वान् त्रिदशानिदमब्रवीत् किमब्रवीदित्यत आह अशपत् शापमददात् ॥ १।३६।२० ॥

शापस्वरूपं वर्णयन्नाह यस्मादिति । पुत्रकाम्यया सङ्गतिः सम्यक् गतिः पतिसंयोगो यस्याः सा अहं यस्मात् हेतोर्निवारिता भवद्भिः त्याजितपत्यत्यन्तसंयोगा तस्मात् अद्यप्रभृति इतः कालादारभ्य स्वेषु दारेषु अपत्यमुत्पादयितुं यूयं नार्हथ अत एव युष्माकं पत्नयः पत्न्यः अप्रजाः सन्तु । शापेन औरसपुत्रोत्पत्तिं संनिवार्य क्षेत्रजपुत्रोत्पत्तिं निवारयन्ती आह अद्यप्रभृति युष्माकं पत्न्यः आत्मजानृ पुत्रान्नैव जनयिष्यन्ति पत्यन्तरादपि नोत्पादयिष्यन्तीत्यर्थः । चशब्द एवार्थे । द्वयोरेकत्रान्वयः । पत्न्यो न जनयिष्यन्तीति श्लोकार्धं भट्टटीकाङ्कितपुस्तकेषु न दृश्यते तत्र हेतुर्लेखकप्रमादो बोध्यः । अत्र शापेन देवपुत्रनिवारणमेव कृतमित्यनेन पुत्रोत्पादनार्थमेव पार्वत्या रतिः न तु सुखार्थमिति ध्वनितम् तेन तस्याः परमानन्दस्वरूपता व्यक्ता ॥ १।३६।२१,२२ ॥

रतिनिवारणसाक्षात्कारणभूतान्सुरान् शप्त्वा वीर्यधारणस्वीकारकर्तृत्वेन कारणीभूतां पृथ्वीमपि शशापेति वर्णयन्नाह एवमिति । एवमनेन प्रकारेण सर्वान् सुरान् उक्त्वा शप्त्वेत्यर्थः पृथिवीमपि शशाप । तत् शापस्वरूपं वर्णयन्नाह हे अवने बहुभार्या अनेकवीरभोग्या त्वं भविष्यसि नैकरूपा ऊषराद्यनेकरूपवती च भविष्यसि । विनापि चं समुच्चयः ॥ १।३६।२३ ॥

शापान्तरमाह न चेति । हे सुदुर्मेधे मम पुत्रमनिच्छती अत एव मत्क्रोधकलुषीकृता त्वं पुत्रकृतां प्रीतिं नैव प्राप्स्यसि । चशब्द एवार्थे ॥ १।३६।२४ ॥

तानिति । तदा शापोत्तरकाले सुरपतिः शिवः व्यथितान् शापेन दुःखितान् तान् सर्वान्सुरान्दृष्ट्वा वरुणपालितां दिशं पश्चिमां गमनाय गमनं कर्तुमुपचक्राम ॥ १।३६।२५ ॥

स इति । स महेश्वरः महादेवः तस्य हिमालयस्य गिरेः उत्तरे पार्श्वे हिमवत्प्रभवे

हिमवत्प्रभवाख्यश्रृङ्गे देव्या सह गत्वा तपः आतिष्ठत ॥ १।३६।२६ ॥

एष इति । शैलपुत्र्याः कनिष्ठाया एष विस्तरः ते तुभ्यं मया निवेदितः गङ्गाया अपि प्रभवं मे मत्त एव श्रृणु चशब्दो ऽप्यर्थे ॥ १।३६।२७ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे षट्त्रिंशः सर्गः ॥ १।३६ ॥