उपास्येति । महर्षिभिः सह विश्वामित्रः शोणकूले एव रात्रिशेषमुपास्य उपविश्य शयित्वेत्यर्थः सुप्रभातायां निशायामभ्यभाषत । तुशब्द एवार्थे । द्वितीया “कालाध्वनोः” इति विहिता ॥ १।३५।१ ॥
तद्भाषणमेवाह सुप्रभातेति । हे राम निशासुप्रभाता सुप्रभातत्वं प्राप्ता अत एव पूर्वा सन्ध्या उपलक्षणया तत्सम्बन्धि कर्म प्रवर्तते प्रवर्तयति उत्थातुं प्रेरयतीत्यर्थः । अतः उत्तिष्ठोतिष्ठ ते तुभ्यं भद्रं कल्याणमस्तु गमनाय सान्ध्यकर्मसमाप्तिपूर्वकगमनं कर्तुमभिरोचय इच्छ ॥ १।३५।२ ॥
तदिति । तस्य विश्वामित्रस्य तद्वचनं श्रुत्वा पूर्वाह्णिकीं पूर्वाह्णसम्बन्धिनीं क्रियां सन्ध्योपासनादिरूपां कृत्वा गमनं रोचयामास इयेष इदं वाक्यं च उवाच । हशब्दो हर्षद्योतकः ॥ १।३५।३ ॥
तद्वचनमेवाह अयमिति । हे ब्रह्मन् शुभजलः शोभनजलविशिष्टः गाधः अल्पजलः अत एव पुलिनमण्डितः पुलिनैः सिकताभिः मण्डितः शोभितः यः अयं शोणो ऽस्ति तं कतरेण पथा मार्गेण वयं सन्तरिष्यामहे कतरेणेत्युक्त्या तत्र मार्गद्वयेन मनुष्यसन्तरणमिति ध्वनितम् । एतेन अगाध इति पदच्छेदो न रमणीय इति बोध्यम् ॥ १।३५।४ ॥
एवमिति । एवमनेन प्रकारेण रामेणोक्तो विश्वामित्रः इदं वचनमब्रवीत् । तद्वचनमेवाह येन पथा महर्षयो यान्ति स पन्था मयैव उद्दिष्टः बोधितः तेनानेनैव मार्गेण गन्तव्यमिति ध्वनितम् । तुशब्द एवार्थे ॥ १।३५।५ ॥
ते इति । तदा विश्वामित्रोक्तोत्तरणोत्तरकाले ते विश्वामित्रोक्तमार्गेणोत्तीर्णनदाः दूरमध्वानं गत्वा अर्धदिवसे मध्याह्नसमये गते व्यतीते सति सरितां सर्वनदीनां मध्ये श्रेष्ठामत एव मुनिसेवितां जाह्नवीं जह्नुप्रादुर्भूतां गङ्गां ददृशुः ॥ १।३५।६ ॥
तामिति । पुण्य सलिलां पुण्योत्पादकसलिलविशिष्टां हंससारससेवितां तां सर्वलोकप्रसिद्धां जाह्नवीं दृष्ट्वा सहराघवाः राघवसहिताः सर्वे मुनयः मुदिताः प्रमोदं प्राप्ता बभूवुः ॥ १।३५।७ ॥
तस्या इति । तदा जाह्नवीदर्शनसमये तस्या जाह्नव्यास्तीरे वासपरिग्रहं वासस्य वासस्थानस्य परिग्रहं स्वीकारं मुदितमानसाः सर्वे चक्रुः ततः वासस्थानस्वीकारानन्तरं यथान्यायं यथाशास्त्रं स्नात्वा पितृदेवताः सन्तर्प्य च अग्निहोत्राणि हुत्वा च अमृतवद्धविः प्राश्य च महात्मानं विश्वामित्रं समन्ततः परिवार्य शुचौ जाह्नवीतीरे विविशुः स्वस्वस्वीकृतवासस्थाने प्रवेशं चक्रुः । सार्धश्लोकद्वयमेकान्वयि । परिवार्यसमन्ततः इत्यस्मादुत्तरत्र ऽविष्ठिताश्च यथान्यायं राघवौ च यथार्हतःऽ इत्यर्धश्लोकः भट्टसम्मतः तत्र विष्ठिता इत्यस्य विशेषेण स्थिता इत्यर्थः ॥ १।३५।८१० ॥
समिति । अथ उपवेशानन्तरं स हृष्टमनारामो विश्वामित्रमब्रवीत् । तद्वचनमेवाह भगवन् हे सकलसामर्थ्यविशिष्ट त्रिपथगां नदीं गङ्गां श्रोतुमिच्छामि ॥ १।३५।११ ॥
श्रवणप्रकारमाह त्रैलोक्यमिति । त्रैलोक्यमाक्रम्य नदनदीपतिं समुद्रं कथं केन प्रकारेण गता प्राप्ता ॥ १।३५।१२ ॥
चोदित इति । रामवाक्येन चोदितः प्रेरितो महामुनिर्विश्वामित्रः गङ्गायाः वृद्धिं जलरूपेण त्रिलोकपूरणत्वं जन्मप्रादुर्भावं च वक्तुमेव उपचक्रमे । एवो वार्तान्तरव्यवच्छेदकः ॥ १।३५।१३ ॥
तत्र पूर्वं प्रादुर्भावप्रकारमाह शैलेन्द्र इत्यादिभिः । हे राम धातूनामाकरः महानतिविस्तीर्णः शैलेन्द्रः शैलाधिपतिः यो हिमवान्नाम तस्य भुवि त्रिलोक्यां रूपेणाप्रतिममुपमारहितं कन्याद्वयमासीदिति शेषः ॥ १।३५।१४ ॥
येति । हे राम या मेरुदुहिता मेरुकन्या सुमध्यमा शोभनकटिमती नाम्ना मेनका मेनकानाम्नी हिमवतः प्रिया नाम प्रसिद्धा पत्नी सैव तयोः हिमवत्कन्ययोर्माता । चशब्दः एवार्थे । ऽनाम्ना मेना
मनोज्ञा वै पत्नी हिमवतः प्रियाऽ इति भट्टसम्मतः पाः । नाम्नेति तृतीया “प्रकृत्यादिभ्यश्च” इति विहिता ॥ १।३५।१५ ॥
तस्यामिति । हे राघव तस्य प्रसिद्धस्य हिमवतः भार्यायां तस्यां प्रसिद्धायां मेनायां ज्येष्ठा सुता इयं गङ्गा ऽभवत् हिमवत एव उमा नाम द्वितीया कन्या ऽभूत् ॥ १।३५।१६ ॥
अथेति । अथ गङ्गाप्रादुर्भावानन्तरं देवतार्थचिकीर्षया देवतानामर्थं स्नानशिवतेजोधारणादि प्रयोजनं तस्य चिकीर्षया सम्पादनेच्छया सर्वे सुराः त्रिपथगां नदीं गङ्गां शैलेन्द्रं हिमवन्तं वरयामासुः ययाचे “अकथितं च” इति शैलेन्द्रस्य कर्मत्वम् । ऽदेवकार्यचिकीर्षयाऽ इति भट्टसम्मतः पाठः ॥ १।३५।१७ ॥
ददाविति । हिमवान् लोकपावनीं लोकपावनकर्त्रीं स्वच्छन्दपथगां स्वेच्छाविषयीभूतपथगमनकर्त्रीं गङ्गां तनयां त्रैलोक्यहितकाम्यया धर्मेण ददौ ॥ १।३५।१८ ॥
प्रतीति । त्रैलोक्यहितकारिणः ते देवाः गङ्गां त्रिलोकार्थं त्रिलोकीप्रयोजनसाधनसमर्थां प्रतिगृह्य आदाय स्वीकृत्य कृतार्थेन अन्तरात्मना मनसा अगच्छन् । त्रिलोकार्थमिति सामान्ये नपुंसकं त्रिलोकार्थं प्रतिगृह्य उद्दिश्येत्यर्थो वा ॥ १।३५।१९ ॥
प्रसङ्गात् हिमवत्कनिष्ठकन्यावृत्तमाह येति । हे रघुनन्दन अन्या कनिष्ठा या शैलदुहिता कन्या अस्वीकृतपतिः आसीत् सा सुव्रतमच्युतसङ्कल्पमुग्रं शिवमेव आस्थाय स्वपतित्वेन निश्चित्य तपोधना सती तपस्तेपे । चशब्द एवार्थे ॥ १।३५।२० ॥
उग्रेणेति । शैलवरः शैलश्रेष्ठः हिमवान् उग्रेण अत्युत्कटेन तपसा युक्तां लोकनमस्कृतामुमां सुतामप्रतिरूपाय सादृश्यानुयोगित्वानाक्रान्ताय उग्राय शिवाय ददौ ॥ १।३५।२१ ॥
उपसंहरन्नाह एते इत्यादिभिः । हे राघव सरितां श्रेष्ठा गङ्गा देवी उमा च एते ते प्रसिद्धे एव शैलराजस्य सुते लोकनमस्कृते स्तः इति शेषः । चकारान्तरमेवार्थे ॥ १।३५।२२ ॥
एतदिति । हे राम वर हे सर्वश्रेष्ठ त्रिपथगा गङ्गा नदी गतिमतां गतिं खमाकाशं प्रथमं गता एतत्सर्वं ते तुभ्यमाख्यातं कथितम् ॥ १।३५।२३ ॥
सैवेति । सुरनदी रम्या अतिरमणीया सा प्रसिद्धा एषा शैलेन्द्रस्य सुता यदा सुरलोकं समारूढा प्राप्ता तदा जलवाहिनी सती विपापा स्नानादिकर्तृसकललोकपापविगतकर्त्री आसीदिति शेषः ॥ १।३५।२४ ॥
इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे पञ्चत्रिंशः सर्गः ॥ १।३५ ॥