०३४ विश्वामित्रवंशकथा

फ़् ब्रह्मदत्तविवाहानन्तरकाकिलं वृत्तमाह कृत इति । हे राघव कृतोद्वाहे तस्मिन् ब्रह्मदत्ते गते स्वपुरं प्राप्ते सत्येव अपुत्रः पुत्ररहितः कुशनाभः पुत्रलाभाय पौत्रीं पुत्रप्रदामिष्टिमकल्पयत् । चशब्द एवार्थे ॥ १।३४।१ ॥

इष्ट्यामिति । तदा ब्रह्मदत्तप्रेषणानन्तरकाले एव इष्ट्यां वर्तमानायां सत्याम्महीपतिं कुशनाभं परमोदारः ब्रह्मसुतः कुशः कुशनाभपिता उवाच । चशब्द एवार्थे ॥ १।३४।२ ॥

तद्वचनमेवाह पुत्र इति । हे पुत्र सुधार्मिकः अत्यन्तधर्मशीलः अत एव ते सदृशः पुत्रः भविष्यति । ननु किंनामकः पुत्रो भविष्यतीत्यत आह गाधिं गाधिनामकं पुत्रं त्वं प्राप्स्यसि । तेन पुत्रेण शाश्वतीं लोके कीर्तिं प्राप्स्यसि । चो हेतौ ॥ १।३४।३ ॥

एवमिति । हे राम महीपतिं कुशनाभमेवमनेन प्रकारेण कुश उक्त्वा आकाशमाविश्य सनातनं ब्रह्मलोकं जगाम । अनेन कुशस्य कामचारगतिमत्त्वं व्यक्तम् ॥ १।३४।४ ॥

कस्यचिदिति । कस्यचित्कालस्याथ अनन्तरमेव धीमतः कुशनाभस्य भार्यायामिति शेषः परमधर्मिष्ठः अत्यन्तधर्मशीलः गाधिरिति नाम्ना विश्रुतः ख्यातः जज्ञे । यदि तु कालस्येत्यस्यानन्तरमपगम इति शेषः, तदा मङ्गलरूपो ऽथशब्दार्थो जज्ञ इत्येतदन्वयी ॥ १।३४।५ ॥

स इति । हे काकुत्स्थ हे रघुनन्दन परमधार्मिकः स गाधिः मम पिता यतः कुशवंशप्रसूतो ऽहमस्मि । अतः कौशिकः ख्यातो जनैरिति शेषः ॥ १।३४।६ ॥

पूर्वजेति । हे राघव सुव्रता शोभनव्रतशीला नाम्ना सत्यवती सत्यवतीति नाम्नैव प्रसिद्धा मम पूर्वजा ज्येष्ठा भगिनी ऋचीके ऋचीकनामकमुनौ प्रतिपादिता दत्ता । चशब्द इत्यर्थे । अपिशब्द एवार्थे ॥ १।३४।७ ॥

ननु सा क्वास्तीत्यत आह सेति । भर्तारमनुवर्तिनी पत्यनुवर्तनशीला मम भगिनी सशरीरा शरीरसहिता स्वर्गं गता प्राप्ता । अर्धं पृथक् । कौशिकीति परमोदारा दिव्या मनुष्यलोकविलक्षणा प्रवृत्ता प्रकृष्टमुत्तमं वृत्तं वृन्तातो यस्याः सा मम भगिनी लोकस्य हितकामार्थं पुण्योदका पुण्यसम्पादकजला रम्या रमणीया सती हिमवन्तमुपाश्रिता हिमवत्पार्श्ववर्तिनी सती कौशिकीति नाम्ना महानदी प्रवृत्ता । महानदीत्वं प्राप्तेत्यर्थः । सार्धश्लोक एकान्वयी । चकार इत्यर्थे ॥ १।३४।८,९ ॥

तत इति । हे रघुनन्दन यतः कौशिक्यां भगिन्यामहं स्नेहसंयुक्तः ततः हेतोः हिमवत्पार्श्वे नियतः निर्गतं प्राप्तं यतं निवृत्तिर्यस्य सो ऽन्यत्र गमनरहित इत्यर्थः । किञ्च नितरां यतस्तत्र स्थितौ प्रयत्नो यस्य सो ऽहं सुखं यथा स्यात्तथा वसामि ॥ १।३४।१० ॥

नदीस्वरूपे ऽपि तस्याः पूर्ववद्धर्माचरणमिति बोधयन्नाह सेति । सत्यवती मृषासंसर्गशून्या अत एव पुण्या अतिपुण्यहेतुः सत्यधर्मे प्रतिष्ठिता पतिव्रता महाभागा कौशिकी सा मम भगिनी सरितां सर्वनदीनां वरा श्रेष्ठा अस्तीति शेषः । तु शब्दो हेत्वर्थे ॥ १।३४।११ ॥

ननु तां त्यक्त्वा किमर्थमिहागत इत्यत आह अहमिति । हे राम नियमाद्भवत्प्रादुर्भावनिश्चयमवगत्य तां स्वभगिनीं हित्वा सिद्धाश्रमं समुपागतो ऽहं तेजसा समाधिकरहितप्रतापेन युक्तं तव त्वामनुप्राप्यैव सिद्धो ऽस्मिष । हिशब्द एवार्थे । कर्मणः शेषत्वविवक्षया षष्ठी । एतेन विश्वामित्रस्य रामोपासकत्वं व्यक्तम् ॥ १।३४।१२ ॥

एषेति । हे राम एषा स्वस्य वंशस्य उत्पत्तिः प्राकट्यं देशस्य च उत्पत्तिः ख्यातिः मम मया कीर्तिता यत् यस्माद्धेतोः मां त्वं परिपृच्छसि पर्यपृच्छः । वर्तमानसामीप्ये इति भूते लट् । हिशब्दश्चार्थे । उत्पत्तिशब्द उभयान्वयी शब्दाधिकारश्च । ममेति कर्तुः शेषत्वेन विवक्षया षष्ठी ॥ १।३४।१३ ॥

गत इति । काकुत्स्थ हे राम कथां कथयतो मम मयि कथां कथयति सति अर्धरात्रो रात्रेरर्धं गतो व्यतीतः । अतः हेतोः निद्रामभ्येहि प्राप्नुहि । ते भद्रं कल्याणमस्तु । तत्र हेतुः यतः नो ऽस्माकमिहाध्वनि विघ्नः एतदध्वचलनप्रतिबन्धकीभूता दिननिद्रा मा भूत् । “अर्धं नपुंसकम्” इति समासः । “रात्राह्नाहाः पुंसि” इति पुंस्त्वम् । एतेन तद्घटकीभूतार्धशब्दः खण्डवाचक इति स्वीकृत्यार्षः समास इति भूषणकारोक्तिश्चिन्त्या । समांशवाचकत्वे बाधकाभावात् । खण्डवाचकत्वे प्रमाणाभावाच्च । खण्डवाचकत्वस्वीकारेणार्धशब्दस्य प्रदोषवाचकत्वं स्वीकृत्य व्याख्यानमप्ययुक्तम् । ऽउपास्य रात्रिशेषं तुऽ इति वक्ष्यमाणेन विरोधात् ॥ १।३४।१४ ॥

अर्धरात्रलक्षणानि वदन्नाह निस्पन्दा इत्यादिभिः । हे रघुनन्दन सर्वे तरवो वृक्षा निस्पन्दा स्पन्दनव्यापारशून्या अत एव सर्वे मृगपक्षिणो निलीनाः शयनं प्रापुः । तत्र हेतुः यतः नैशेन निशासम्बन्धिना तमसा अन्धकारेण दिशः अव्याप्ता अल्पव्याप्तिविशिष्टा अर्धरात्रेः पूर्वरात्रापेक्षया किञ्चित्प्रकाशाधिक्यस्यानुभवसिद्धत्वमिति तात्पर्यम् । चशब्दो हेत्वर्थे ॥ १।३४।१५ ॥

अर्धरात्रो ऽपि व्यतीतो भवतीति बोधयन्नाह शनैरिति । सन्ध्या सम्यक् एकाग्रतां प्राप्नुवन्ति धियश्चित्तवृत्तयो यस्यां तया पूर्वरात्रोत्तररात्रमध्यभक्त्येत्यर्थः । शनैर्वियुज्यते व्यतीयते । आवृतम् अ न आवृतमावरणं यस्य तन्महदित्यर्थः । नक्षत्रतारागहनं नक्षत्रगणतारागणनिबिडं यत् नभः तत् नेत्रैरिव नेत्रसदृशैः ज्योतिर्भिः नक्षत्रतारागणैः अवभासते प्रकाशते । ऽविसृज्यतेऽ इति भट्टपाठः ॥ ३४।१६ ॥

उत्तिष्ठतीति । शीतांशुः शीतकिरणः लोकतमोनुदः शशी स्वया प्रभया लोके प्राणिनां मनांसि ह्लादयन् उत्तिष्ठति उदयते । “उदो ऽनूर्ध्वकर्मणि” इत्यत्रानूर्ध्वकर्मणीति निषेधान्न तङ् । एतेन तदानीं कृष्णनवमीति व्यक्तम् ॥ १।३४।१७ ॥

नैशानीति । नैशानि निशायामेव सञ्चरणशीलानि सर्वभूतानि ततस्ततः स्वस्वप्रचरणयोग्ये देश एव प्रचरन्ति । ननु कानि तानीत्यत आह रौद्राः भयानकाः पिशिताशनाः रुधिरभोजनाः यक्षराक्षससङ्घाः । चकारेण सर्पादयः । एकश्चशब्द एवार्थे । यद्वा नैशानि सर्वभूतानि सर्वस्य शिवस्य भूतानि पिशाचादयः विशेषेण विशिष्टा यक्षादयश्च प्रचरन्ति । दन्त्यादिरपि शिववाचक इति प्रसिद्धम् ॥ १।३४।१८ ॥

एवमिति । महातेजाः महामुनिः विश्वामित्रः एवमुक्त्वैव विरराम । सर्वे ऋषयः तं विश्वामित्रं साधु साधु इति अभ्यपूजयन् । हिशब्द एवार्थे ॥ १।३४।१९ ॥

पूजामेव विशदयन्नाह कुशिकानामिति । कुशिकानामयं वंशः सदा महाधर्मपरः । अत एव कुशवंश्याः कुशवंशप्रभवाः महात्मानः नरोत्तमा राजानः ब्रह्मोपमाः ब्रह्मर्षिसदृशाः आसन्निति शेषः ॥ १।३४।२० ॥

कुशवंश्यानां श्रैष्ठ्यं प्रतिपाद्य तत्रापि विश्वामित्रस्यातिश्रैष्ठ्यं प्रतिपादयन्नाह विशेषेणेति । हे विश्वामित्र हे महायशः तस्मिन् कुले भवान् विशेषेण ब्रह्मोपमा । अत एव तव कुलोद्योतकरी त्वत्कुलप्रकाशिका । एवशब्दः तस्मिन्नित्यर्थे । ब्रह्मोपमशब्दौ अध्याहृतौ ॥ १।३४।२१ ॥

इतीति । इति अनेन प्रकारेण तैः प्रसिद्धैः मुनिशार्दूलैः प्रशस्तः संस्तुतः श्रीमान् कुशिकात्मजो विश्वामित्रः अस्तं गतः अंशुमान् सूर्य इव निद्रामुपागमत् ॥ १।३४।२२ ॥

राम इति । सहसौमित्रिः सौमित्रिसहितः किञ्चिदागतविस्मयः विश्वामित्रप्रभावश्रवणेन प्राप्तकिञ्चिद्विस्मयो रामः मुनिशार्दूलं विश्वामित्रं प्रशस्यैव निद्रामुपसेवते प्राप्नोत् “वर्तमानसामीप्य” इति भूते लट् । किञ्च आगतविस्मयः आसमन्ताद्भावेन गतो निवृत्तो विस्मयो यस्य, किञ्च अ न आगतः प्राप्तो विस्मयो यस्मिन्, किञ्च आगतः प्राप्तः विशिष्टः स्मयः ईषद्धासो यस्य सः । अत्र पक्षेषु

किञ्चिदिति प्रशस्यान्वयि ॥ १।३४।२३ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥