०३३ कुशनाभकन्योद्वाहः

तस्येति । धीमतः तस्य कुशनाभस्य तद्वचनं श्रुत्वा शिरोभिश्चरणौ स्पृष्ट्वा पितृपादाभिवन्दनं विधायेत्यर्थः, कन्याशतमभाषत ॥ १।३३।१ ॥

तद्भाषणमेवाह वायुरिति । हे राजन् सर्वात्मको वायुः अशुभमनुचितत्वेन शुभविघातकं मार्गमास्थाय प्रधर्षयितुमस्मान् अभिभवितुमिच्छति ऐच्छत् । धर्ममस्मदुक्तसन्मार्गं न प्रत्यवेक्षते व्यचारयत । उभयत्रापि वर्तमानसामीप्य इति भूते लट् । एतेन बलात्कारेण अस्मान् ग्रहीतुमैच्छदिति सूचितम् ॥ १।३३।२ ॥

स्वोक्तिमेवाहुः पितृमत्य इति । यतो वयं पितृमत्यः अतः स्वच्छन्दे स्वाधीनत्वे नैव स्थिताः । अतः नो ऽस्माकं पितरं त्वं वृणीष्व यदि नो अस्मान् पिता दास्यते तदा तव वयं भविष्याम इति शेषः । ते तुभ्यं भद्रमस्तु । स्मशब्द एवार्थे ॥ १।३३।३ ॥

तेनेति । पापानुबन्धेन पापमतिना अत एव वचनं अस्माकमुक्तीः न प्रतीच्छता अस्मदुक्तिविचारहीनेनेत्यर्थः वायुना एवमेव ब्रुवत्यः सर्वाः वयं भृशमत्यन्तं निहताः । स्मशब्द एवार्थे ॥ १।३३।४ ॥

तासामिति । परमधार्मिकः महातेजा राजा तासां कन्यानां वचनं श्रुत्वैवानुत्तममत्युत्कृष्टं कन्याशतं प्रत्युवाच । तुशब्द एवार्थे ॥ १।३३।५ ॥

तद्वचनमेवाह क्षान्तमिति । हे पुत्र्य क्षमावतां कर्तव्यं क्षान्तं क्षान्तिः ऐकमत्यमुपागम्य प्राप्य भवतीभिर्यत् कृतं तत्सुमहदति प्रशंसनीयम् । मम कुलं कुलोचितमवेक्षितं विचारितं तच्च महदतिप्रशंसनीयम् । कामक्रोधयोर्जयो दुष्कर इति भावः ॥ १।३३।६ ॥

तदेव विशदयन्नाह अलमित्यादि सार्धश्लोकद्वयेन । हे पुत्र्यः नारीणां पुरुषस्य च क्षमैव विशेषतो ऽलङ्कारः । ननु सर्वैः कुतो न क्रियते ऽत आह सर्वासां वो युष्माकमविशेषतो विशेषराहित्येन एकरूपेणेत्यर्थः यादृशी क्षमा तत्तादृशं क्षान्तं क्षमा विशेषतः त्रिदशेषु विशिष्टदेवेष्वपि दुष्करमेव वासनात्यागस्य दुष्करत्वाद्देवविशेषैरपि कर्तुमशक्यमित्यर्थः । हितुशब्दौ एवार्थे । वैशब्दो ऽप्यर्थे । वाश्चार्थे । सार्धश्लोक एकान्वयी ॥ १।३३।७ ॥

क्षमाप्रशंसामाह क्षमेति । हे पुत्रिकाः क्षमैव दानं क्षमैव सत्यं क्षमैव यज्ञः क्षमैव यशः क्षमैव धर्मः अतः क्षमायां जगन्निष्ठितं यद्यवच्छेदकावच्छेदेन क्षमा विनश्येत्तर्हि जगदपि विनश्येदिति तात्पर्यम् । एतेन क्षमा न त्याज्येति उपदेशः सूचितः । राजोक्तिं समाप्य राजवृत्तमाह विसृज्येति । हे काकुत्स्थ राम त्रिदशविक्रमः त्रिदशविक्रमसदृशविक्रमविशिष्टः मन्त्रज्ञः राजा कुशनाभः मन्त्रिभिः सह प्रदानं कन्याप्रदानस्य देशकालौ कन्याप्रदानोचितं देशं कालं च सदृशे कन्यादानोचितकुले प्रतिपादनं वरवृत्यर्थं ब्राह्मणादिप्रेषणं मन्त्रयामास । कन्यावश्यं देयेति सा च यस्मिन्देशे यस्मिन्काले देया तं देशं कालं यस्मिन्कुले देया तत्कुलं वरवृत्यर्थं यः प्रेषणीयस्तं च विचारयामासेत्यर्थः । ऽदेशे काले च कर्तव्यम्ऽ इति भट्टसम्मतः पाठः ॥ १।३३।८१० ॥

एतस्मिन्निति । एतस्मिन्काले कुशनाभविचारसमये एव ऊर्ध्वरेता अच्युतरेतस्कः शुभाचारः शोभनाचरणयुक्तः चूलीनाम चूलिसञ्ज्ञकः महामुनिः ब्राह्म्यं वेदविहितमेव तप उपागमत् प्राप्नोत् । तुशब्द एवार्थे ॥ १।३३।११ ॥

तपस्यन्तमिति । तदा ऋषितपश्चरणसमये तत्र ऋष्यधिष्ठितदेशे ऊर्मिलातनया ऊर्मिलायाः कन्या सोमदा नाम गन्धर्वी ते भद्रमस्तु इयुक्त्वा तपस्यन्तमृषिं चूलिनं पर्युपासते पर्युपास्ते असेवत । तपश्चरणसमये इत्युक्त्या शयनादिसमये तत्समीपे तस्यागमनाभावः सूचितस्तेन तस्याः सावधानत्वं व्यक्तम् । वर्तमानसामीप्य इति भूते लट् । गणकार्यस्यानित्यत्वात् शब्लुग्विरहः ॥ १।३३।१२ ॥

तदेव भङ्ग्यन्तरेण वर्णयन्नाह सेति । काले यथोचितसमये प्रणता भूत्वा शुश्रूषणपरायणा सा गन्धर्वी उवास । तेन हेतुना गुरुर्मुनिस्तस्यास्तुष्टो ऽभवत् । चशब्दो हेत्वर्थे ॥ १।३३।१३ ॥

तुष्टेन यदुक्तं तद्बोधयन्नाह स इति । हे रघुनन्दन सः चूलिः मुनिः कालयोगेन शुभकालप्राप्तां तां गन्धर्वीं प्रोवाच । तद्वचनमेवाह अहं परितुष्टो ऽस्मि अतः किं तव प्रियं करोमि तद्वदेत्यर्थः ॥ १।३३।१४ ॥

परीति । परमप्रीता अतिप्रसन्नचित्ता वाक्यज्ञा वचनतात्पर्यस्य ज्ञात्री गन्धर्वी वाक्यकोविदं मुनिं परितुष्टं ज्ञात्वा मधुरस्वरं यथा स्यात्तथा उवाच ॥ १।३३।१५ ॥

तद्वचनमेवाह लक्ष्म्येति । यतस्त्वं महातपाः अत एव ब्राह्म्या लक्ष्म्या ब्रह्मसम्पत्त्या समुदितः अत एव ब्रह्मभूतः ब्रह्मत्वं प्राप्तः अतः ब्राह्मेण वेदबोधितेन तपसा युक्तं धार्मिकं पुत्रमिच्छामि । भवत इति शेषः धार्मिकं पुत्रमिच्छामीत्यनेन तत्सङ्गमस्तया न प्रार्थित इति व्यक्तं तेन तस्याः परमधैर्यं धर्मात्मत्वं च व्यक्तम् । ब्रह्मभूत इत्यनेन यथा ब्रह्म सकलमभिधातुं समर्थं तथा त्वमपीत्युपमालङ्कारो ध्वनितः ॥ १।३३।१६ ॥

ननु पुत्रप्रार्थना पत्युरुचिता मत्तः कथं प्रार्थ्यते इत्यत आह अपतिरिति । अपतिः पतिरहितैव अहमस्मि अतः कथं पत्युः प्रार्थना स्यादिति भावः नतु पतिलाभार्थं यतितव्यं ततः पुत्रो

भविष्यत्येवेत्यत आह अहं कस्यचिद्भार्या नास्मि नैव भविष्यामि । ननु पतिमन्तरा कथं पुत्रलाभ इत्यत आह ब्राह्मण हे ब्रह्मवेत्तः उपगतायाः त्वां सेवमानाया मे सुतं दातुमर्हस्येव त्वत्सेवामाहात्म्यात्पतिमन्तरापि पुत्रो भवत्विति भावः । पतिरहितैवेत्यत्र एवकारः पतिसंसर्गाभावसूचकः तेन वैधव्यशङ्कानिरासः भार्या चास्मीत्यत्र भविष्यत्कालाविवक्षया लट्प्रयोगः । चकारत्रयमेवार्थम् । ऽब्राह्म्येणोपगतायाश्चऽ इति भट्टसम्मतः पाठः । तत्र ब्राह्म्येण ब्रह्मसम्बन्धिना उपायेनेत्यर्थः ॥ १।३३।१७ ॥

तस्या इति । प्रसन्नः ब्रह्मर्षिश्चूली मानससङ्कल्पमात्रेण सिद्धमत एव अनुत्तमं सर्वश्रेष्ठं पुत्रं तस्यास्तस्यै गन्धर्व्यै ददौ इति हेतोः ख्यातं ब्रह्मदत्तं चूलिनः सुतं वदन्तीति शेषः ॥ १।३३।१८ ॥

स इति । ब्रह्मदत्तो ऽपि स राजा सन् काम्पिलीं कम्पिल्यनिर्मितां पुरीं परया लक्ष्म्या दिवं देवराज इन्द्र इव अध्यवसत् । “उपान्वध्याङ्वसः” इति कर्मत्वं तस्य ब्राह्मणदत्तत्वात् ब्राह्मणत्वे ऽपि क्षत्रियात्वेन प्रसिद्धायाः गन्धर्व्यासुतत्वात्क्षत्रियत्वमपि ब्रह्मदत्त इत्यन्वर्थं नाम । तुशब्दो ऽप्यर्थे ॥ १।३३।१९ ॥

ब्रह्मदत्तवृत्तं समाप्य यदर्थं तद्वृत्तप्रक्रमः तदाह सुबुद्धिमित्यादिना । हे काकुत्स्थ राम तदा ब्रह्मदत्तराज्यसमये सुधार्मिकः अत्यन्तधर्मशीलः राजा कुशनाभः कन्याशतं ब्रह्मदत्ताय दातुं सुबुद्धिं शोभननिश्चयं कृतवान् ॥ १।३३।२० ॥

तमिति । महातेजा राजा कुशनाभः महीपतिं तं ब्रह्मदत्तमाहूय सुप्रीतेनातिप्रसन्नेन अन्तरात्मना मनसा कन्याशतं ददौ ॥ १।३३।२१ ॥

यथेति । हे रघुनन्दन तदा कन्यादानसमये तासां कन्यानां पाणीन् देवपतिरिव महीपालो ब्रह्मदत्तः यथाक्रमं ज्येष्ठादिक्रममनतिक्रम्य जग्राह ॥ १।३३।२२ ॥

स्पृष्टेति । तदा पाणिग्रहणसमये पाणौ कन्याकरे स्पष्टमात्रे सति विकुब्जाः कुब्जात्वरहिताः अत एव विगतज्वरास्ताः कन्या आसन्निति शेषः । तदा विगतज्वरसमये परमया लक्ष्म्या सम्पत्त्या युक्तं कन्याशतं बभौ । पाणावित्यत्र जात्यभिप्रायेणैकवचनम् । कुब्जाशब्दो भावप्रधानः ॥ १।३३।२३ ॥

स इति । स महीपतिः कुशनाभः वायुना वायुकृतदोषेण मुक्तास्त्यक्ताः कन्या दृष्ट्वा परमप्रीतो ब्रह्मदत्तविषयकातिप्रीतिविशिष्टो बभूव अतः पुनः पुनः प्रतिक्षणं नवं नवं हर्षं लेभे ॥ ३३।२४ ॥

कृतोद्वाहमिति । महीपतिः कुशनाभः कृतो द्वाहं सदारं दारसहितं सोपाध्यायगणमुपाध्यायगणसहितं ब्रह्मदत्तं राजानं तदा तु साङ्गविवाहोत्तरकाले एव प्रेषयामास तत्पुरं प्रापयामास । तुशब्द एवार्थे ॥ १।३३।२५ ॥

सोमदेति । सोमदागन्धर्वी पुत्रस्य ब्रह्मदत्तस्य सदृशक्रियां पुत्रोचितवैवाहिकं कर्म दृष्ट्वा माङ्गलिकस्त्रीसहितपुत्रदर्शनेन निश्चित्य यथान्यायं ज्येष्ठादिक्रमेण कन्याः कुशनाभसुतास्ताः स्वपुत्रेणोद्वाहिताः अत एव स्नुषाः स्वपुत्रवधूश्च स्पृष्ट्वा स्पृष्ट्वा कुशनाभं च प्रशस्य प्रत्यनन्दत परमहर्षं प्राप्नोत् । अपिस्त्वर्थे । एकश्चकारो हेत्वर्थे ॥ १।३३।२६ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ बालकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥